| YouTube Channel

सुखं (sukhaM)

 
Hindi
Hindi
आसानी से
शब्दकल्पद्रुमः
Sanskrit
सुखं,
क्ली,
(सुखयतीति सुख + अच् ।) आत्म-वृत्तिगुणविशेषः इति नैयायिकाः
मनसोधर्म्मः इति वैदान्तिकाः
तत्पर्य्यायः मुत् २प्रीतिः प्रमदः हर्षः प्रमोदः आमीदः७ संमदः आनन्दथुः आनन्दः १० शर्म्म ११शातम् १२ इत्यमरः २५
मदः १३भोगः १४ रभसः १५ निर्वृतिः १६ धृतिः १७वीचिः १८ इति जटाधरः
संमेदः १९मोदः २० नन्दथुः २१ नन्दः २२ मुदा २३सौख्यम् २४ उपजोषम् २५ आनन्दम् २६ जोषम्२७ इति शब्दरत्नावली
न्यायमते जगतांकाम्यं धर्म्मजन्यमिदम् यथा, --“सुखन्तु जगतामेव काम्यं धर्म्मेण जन्यते ।अधर्म्मजन्यं दुःखं स्यात्प्रतिकूलं सचेतसाम्
*तस्य मनोगोचरत्वं यथा, --“मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिःकृतिः
”इति भाषापरिच्छेदः
*
“सुखं चतुर्व्विंशतिगुणान्तर्गतगुणविशेषः तत्तुनित्यं जन्यञ्च नित्यं परमात्मनो विशेषगुणान्तर्व्वर्त्ति जन्यसुखं जीवात्मनो विशेषगुणान्त-व्वर्त्ति तच्च शुभादृष्टजन्यं धनमित्रलाभारोग्य-मिष्टान्नपानपुरीषोत्सर्गपुत्त्रादिजन्मतत्पाण्डित्यकान्तासम्भोगादिजन्यञ्च तस्य द्विक्षणस्थायित्वंस्वोत्तरोत्पन्नानुभवनाश्यत्वात् सुखाद्यपरागे-णैवात्मनो मानसबोधः सुखं तदुपायश्चेष्टः ।बालस्य स्तन्यपानप्रवृत्तौ सुखसाधनत्वज्ञानंहेतुः तत्र सुखस्यैवेष्टत्वम् दुःखजनकगमनादि-प्रवृत्तौ सुखोपायो धनं तदेवेष्टं तत्साधनत्वज्ञान-मेव हेतुः यागादिप्रवृत्तावपि पारलौकिक-सुखसाधनत्वज्ञानं कारणं सुखोपायस्वर्गादिरूपे-ष्टसाधनत्वज्ञानमपि कारणम् सुखस्य काला-वच्छेद्यत्वं शरीरावच्छेद्यत्वञ्चातोऽव्याप्यवृत्तित्वंशरीरकदेशावच्छेदेन दुःखसम्भवेऽप्यन्यदेशा-वच्छेदेन सुखसम्भवात् एकक्षणावच्छेदेनजीवस्य दुःखसम्भवेऽपि क्षणान्तरावच्छेदेनसुखसम्भवाच्च तत्तु विस्फोटकवतो मिष्टान्न-भोजनादौ द्रष्टव्यम् इति तार्किकाः
*
तत्कारणं यथा, --“सुदिनं दुर्द्दिनं शश्वद्भ्रमत्येव भवे भव ।सर्व्वेषां प्राकृतानाञ्च द्वे बीजे सुखदुःखयोः
सुखाद्भवति हर्षश्च दर्पः शौर्य्यं प्रमत्तता ।राग ऐश्वर्य्यकामौ विद्वेषश्च परस्परम्
दुःखात् शोकात् समुद्वेगाद्भयं नित्यं प्रवर्त्तते ।हतान्ये तानि सर्व्वाणि हते बीजे महेश्वर
सुदिनं दुर्द्दिनञ्चैव सर्व्वं कर्म्मोद्भवं भव
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४३ ४८-५१तस्य कारणान्तरं लक्षणञ्च यथा, --“रागद्वे षादियुक्तानां सुखं कुत्रचित् द्विज ।विचार्य्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः
यत्र स्नेहो भयं तत्र स्नेहो दुःखस्य भाजनम् ।स्ने हमूलानि दुःखानि तस्मिं स्त्यक्ते महत्सुखम्
शरीरमेवायतनं दुःखस्य सुखस्य ।जीवितञ्च शरीरञ्च जात्यैव सह जायते
सर्व्वं परवशं दुःखं सर्व्वमात्मवशं सुखम् ।एतद्विद्यात् समासेन लक्षणं सुखदुःखयोः
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।सुखं दुःखं मनुष्याणां चक्रवत् परिवर्त्तते
”इति गारुडे ११३ अध्यायः
*
सर्व्वभूतसुखकर्त्तव्यत्वं यथा, देवीपुराणे देवी-संवत्सरवलिहरणाध्याये ।“कृमिकीटपतङ्गेषु भूमौ दध्योदनं क्षिपेत् ।सर्व्वदा सर्व्वभूतानां सुखं कार्य्यं सुखार्थिनाम्
”सुख-दुःख-साधनानामस्थिरत्वं सुखस्य मनो-विलासमात्ररूपत्वञ्च यथा, --“वस्त्वे कमेव दुःखाय सुखायेर्ष्योद्भवाय ।कोपाय यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ।तदेव प्रोतये भूत्वा पुनर्दुः खाय जायते ।तदेव कोपाय ततः प्रसादाय जायते
तस्माद्दुःखात्मकं नास्ति किञ्चित् सुखा-त्मकम् ।मनसः परिणामोऽयं सुखदुःखोपलक्षणः
”इति विष्णुपुराणे ४३-४५
“सुखं हि दुःखान्यनुभूय शोभतेघनान्धकारेष्विव दीपदर्शनम् ।सुखात्तु यो याति नरो दरिद्रतांधृतः शरीरेण मृतः जीवति
”इति मृच्छकटिकम्
*
तद्वैदिकपर्य्यायः शिम्बाता शतरा २शातपन्ता शिल्गुः स्यूमकम् शेवृधम् ६मयः सुग्म्यम् सुदिनम् शूषम् १०शुनम् ११ शग्मम् १२ भेषजम् १३ जलाशम् १४स्योनम् १५ सुम्नम् १६ शेवम् १७ शिवम् १८शम् १९ कम् २० इति विंशतिः सुखनामानि
इति वेदनिघण्टौ
*
त्रिविधसुखंयथा, --“अभ्यासाद्रमते यत्र दुःखान्तञ्च नियच्छति ।यत्तदग्रे विषमिव परिणामेऽमृतोपमम्
तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्
१विषयेन्द्रियसंयागात् यत्तदग्रेऽमृतोपमम् ।परिणामे विषमिव तत् सुखं राजसं स्मृतम् २यदग्रे चानुबन्धे सुखं मोहनमात्मनः ।निद्रालस्य प्रमादोत्थं तत्तामसमुदाहृतम्
इति श्रीभगवद्गीतायाम् १८ अध्यायः
स्वर्गः इति मेदिनी
वृद्धिनामौषधम् इतिराजनिर्घण्टः
जलम् इति केचित्
सुख-विशिष्टे, त्रि यथा, --“शस्तञ्चाथ त्रिषु द्रव्ये पापंपुण्यं सुखादि ।”इत्यमरः २६
“पापपुण्यशब्दौ सुखादयः शस्तान्ताश्च गुणेयथोक्तलिङ्गाः उपचारात्तद्वति द्रव्ये विशेष्येवर्त्तमाना वाच्यलिङ्गाः यथा, --“पापा ऋतुमती कन्या पापो राजाप्यरक्षकःपापं व्याधकुलं हिंस्रं पापो विप्रश्च सेवकः
”पुण्यं तीर्थं पुण्या नदी पुण्य आश्रमः सुखाभूतिः सुखो वासः सुखं कामिकुलम् ।” इतिभरतः