| YouTube Channel

सुकृतं (sukRtaM)

 
Hindi
Hindi
पवित्र गतिविधियों
शब्दकल्पद्रुमः
Sanskrit
सुकृतं,
क्ली,
(सु + कृ + क्तः ।) पुण्यम् इत्य-मरः २४
(यथा, कुमारे ।४७ ।“अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् ।स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे
”)शुभम् सुविहिते, त्रि इति मेदिनी
(यथा, भागवते २३ ३१ ।“क्रियमाणे कर्म्मणीदं दैवे पित्र्येऽथ मानुषे ।यत्र यत्रानुकीर्त्त्येत तत् तेषां सुकृतं विदुः
”)सुकृतन्तु मनुष्यैः सह गच्छति यथा, --“सुकृतं दुष्कृतं लोके गच्छन्तमनुगच्छति ।तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ ।दद्यात् सम्यक् द्विजातिभ्यः कीर्त्तनानि चकारयेत्
”इति वह्निपुराणे वैष्णवक्रियायोगे यमानुशा-सनोनामाध्यायः