| YouTube Channel

सीसक (sIsaka)

 
शब्दसागरः
English
सीसक
n.
(-कं) Lead.
E.
कन् added to the last.
Capeller Eng
English
सीसक
n.
lead.
Yates
English
सीसक (कं) 1.
n.
Idem.
Spoken Sanskrit
English
सीसक - sIsaka -
m.
n.
- lead
Wilson
English
सीसक
n.
(-कं) Lead.
E.
कन् added to the last.
Monier Williams Cologne
English
सीसक mn. lead,
L.
सीसक
m.
=
शूल,
L.
Apte Hindi
Hindi
सीसकम्
नपुं*
- सीस +कन्
सीसा
L R Vaidya
English
sIsaka {% n. %} Lead, M.v.144.
अभिधानचिन्तामणिः
Sanskrit
--source--
ताम्रं म्लेच्छमुखं शुल्वं रक्तं द्व्यष्टमुदुम्बरम् १०३९
म्लेच्छशाबरभेदाख्यं मर्कटास्यं कनीयसम्
ब्रह्मवर्धनं वरिष्ठं सीसं तु सीसपत्त्रकम् १०४०
नागं गण्डूपदभवं वप्रं सिन्दूरकारणम्
वर्ध्नं स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् १०४१
-wordlist-
ताम्र (क्ली), म्लेच्छमुख (क्ली), शुल्ब (क्ली), रक्त (क्ली), द्व्यष्ट (क्ली), उदुम्बर (क्ली), म्लेच्छ (क्ली), शाबर (क्ली), मर्कटास्य (क्ली), कनीयस (क्ली), ब्रह्मवर्धन (क्ली), वरिष्ठ (क्ली), सीसक (क्ली), सीसपत्रक (क्ली), नाग (क्ली), गण्डूपदभव (क्ली), वप्र (क्ली), सिन्दूरकारण (क्ली), वर्ध्र (पुंक्ली), स्वर्णारि (क्ली), योगेष्ट (क्ली), यवनेष्ट (क्ली), सुवर्णक (क्ली)
अभिधानरत्नमाला
Sanskrit
सीसक
सीसक, सीसपत्र
सीसकं सीसपत्रं स्याद्वङ्गं मधुकं त्रपु
verse 2.1.1.172
page 0021
अमरकोशः
Sanskrit
Word: सीसकम्
Root: सीसक
Gender: नपुं
Number: all
Meaning(s):
Shloka(s):
2|9|105|2 नागसीसकयोगेष्टवप्राणि त्रपु पिञ्चटम्॥ (वैश्यवर्गः)
Synonym(s):
2|9|105|2 नागः (नाग) (पुं) snake, cloud, cobra, snaky, shark, cruel man, serpentine, elephantine, elephant etc, serpent-like, formed of snakes, nAga or serpent-demon, belonging to an elephant, Indian cobra [Naja naja - Zoo.], best or most excellent of any kind, one of the 5 airs of the human body, relating to serpents or serpents-demons
2|9|105|2 सीसकम् (सीसक) (नपुं)
2|9|105|2 योगेष्ट (योगेष्ट) (नपुं)
2|9|105|2 वप्रम् (वप्र) (नपुं)
Related word(s):
परा_अपरासंबन्धः धातुविशेषः
जातिः मूलकम्
शब्दकल्पद्रुमः
Sanskrit
सीसकं,
क्ली,
(सीसमेव स्वार्थे कन् ।) धातु-विशेषः सीसा इति भाषा तत्पर्य्यायः ।नागम् योगेष्टम् वप्रम् इत्यमरः ।१०५
सीसम् सीसपत्रकम् गण्डूपदभवम् ७सिन्दूरकारणम् वर्द्धम् स्वर्णारि १०यवनेष्टम् ११ सुवर्णकम् १२ इति हेमचन्द्रः
वध्रम् १३ पिच्चटम् १४ सुवर्णारि १५ त्रपु १६त्रपुः १७ इति शब्दरत्नावली
वध्रकम् १८महावलम् १९ यवनेष्टकम् २० इतिजटाधरः
बहुमलम् २१ चीनम् २२पिष्टम् २३ इति रत्नमाला
जडम् २४भुजङ्गमम् २५ उरगम् २६ कुरङ्गम् २७ परि-पिष्टकम् २८ मृदुकृष्णायसम् २९ पद्मम् ३० तार-शुद्धिकरम् ३१ शिरावृत्तम् ३२ वयोवङ्गम् ३३चीनपिष्टम् ३४ अस्य गुणाः ।“सीसन्तु वङ्गसाम्यं साद्रसवीर्य्यविपाकतः ।उष्णञ्च कफवातघ्नमर्शोघ्नं गुरु लेखनम्
वर्णे नीलं मृदु स्निग्धं निर्म्मलञ्च सुगौरवम् ।रौप्यसंशोधने क्षिप्रं सीसकञ्च तदुत्तमम्
”इति राजनिर्घण्टः
*
अथ सीसस्योत्पत्तिनामगुणाः ।“दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् ।वीर्य्यं जातस्ततो नागः सर्व्वरोगापहो नृणाम् ।सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम् ।नागः भुजङ्ग इत्यादि ।सीसं वङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम्
नागस्तु नागशततुल्यबलं ददादिव्याधिं विनाशयति जीवनमातनोति ।वह्निं प्रदीपयति कामबलं करोतिमृत्युञ्च नाशयति सन्ततसेवितः सः
पाकेन हीनौ किल रङ्गनागौकुष्ठानि गुल्मांश्च तथा निकृष्टान् ।पाण्डुप्रमेहानिलसादसोथ-भगन्दरादीन् कुरुतः प्रयुक्तौ
*
अथ सीसकस्य शोधनम् ।“तस्य साहजिका दोषा वङ्गस्येव निदर्शिताः ।शोधनञ्चापि तस्यैव भिषग्भिर्गदितं पुरा
*
अथ सीसकस्य मारणविधिः ।“ताम्बू लरससंपिष्टशिलालेपात् पुनः पुनः ।द्वात्रिंशद्भिः पुटैर्नाशो निरुत्थं भस्म जायते
”शिला मनःशिला अन्यच्च ।अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् ।मृत्पात्रे विद्रुतो नागो लोहदर्व्या प्रचालितः
यामैकेन भवेद्भस्म तत्तुल्या स्यान्मनःशिला ।काञ्जिकेन द्वयं पिष्ट्वा पचेद्दृढपुटेन
स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन ।पुनः पचेत् शरावाभ्यामेवं षष्टिपुटैर्मृतिः
”इति भावप्रकाशः
मारितस्यास्य गुणाः पूर्व्ववत्
*
अपि ।“तैले तक्रे गवां मूत्रे काञ्जिके कुलत्थके ।त्रिधा त्रिधा विशुद्धिः स्यात् स्वर्णादीनांसमासतः
”अथ सीसकस्य मारणम् ।“कुडवं नागपत्राणां कुनट्याः स्यात् पलार्द्ध-कम् ।तण्डु लीयरसैर्य्यामं यामं वासारसैस्तथा
संमर्द्य क्रियां कृत्वा घर्म्मे संशोष्य तं पुनः ।सरावसंपुटे कृत्वा पचेद्वन्योपलैर्भिषक्
एवं सप्तपुटैर्नागो भस्मीभवति निश्चितम् ।द्विगुञ्जोऽयं ध्रुवं हन्यात् प्रमेहानखिलानपि
”इति वैद्यदर्पणः