सीमाविवादः (sImAvivAdaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiसीमाविवादः
सीमा-विवादः -
सीमासंबंधी झगड़ा या मुकदमेबाजी
शब्दकल्पद्रुमः
Sanskritसीमाविवादः, (सीमायाः विवादः ।) ग्रामा-दीनां सीमाविषयककलहः । यथा । अधुनासीमाविवादनिर्णय उच्यते ।“सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरादयःगोपाः सीमाकृषाणा ये सर्व्वे च वनगोचराः ॥
नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः ।सेतुवल्मीकनिम्नास्थिचैत्याद्यैरुपलक्षिताम् ॥
”ग्रामद्वयसम्बन्धिनः क्षेत्रस्य सीम्नी विवादेतथैक-ग्रामान्तर्व्वर्त्तिक्षेत्रमर्य्यादाविवादे च सामन्ता-दयः स्थलाङ्गारादिभिः पूर्व्वकृतैः सीमालक्षणै-रुपलक्षितां चिह्नितां सीमां नयेयुः निश्चिनियुःसीमा क्षेत्रादिमर्य्यादा सा चतुर्व्विधा । जन-पदसीमा १ ग्रामसीमा २ क्षेत्रसीमा ३ गृह-सीमा ४ चेति । सा च यथासम्भवं पञ्चलक्षणातदुक्तं नारदेन ।“ध्वजिनी मत्सिनी चैव नैधानी भयवर्ज्जिता ।राजशासननीता च सीमा पञ्चविधा स्मृता ॥
”ध्वजिनी वृक्षादिलक्षिता । वृक्षादीनां प्रकाश-कत्वेन ध्वजतुल्यत्वात् । मत्सिनी सलिलवतीमत्स्यशब्दस्य स्वधारजललक्षणत्वात् । नैधानीनिखाततुषाङ्गारादिमती । तेषां निखातत्वेननिधानतुल्यत्वात् । भयवर्जिता अर्थिप्रत्यर्थि-परस्परसम्प्रतिपत्तिनिर्म्मिता । राजशासन-नीता । ज्ञातृचिह्नाभावे राजेच्छया निर्म्मिताएवम्भूतायां षोढा विवादः संभवति । यथाहकात्यायनः ।“आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव चअभोगभुक्तिः सीमा च षड्भूवादस्य हेतवः ॥
”इति । तथा हि । ममात्र पञ्चनिवर्त्तनाया भूमे-रधिका भूरस्तीति केनचिदुक्ते पञ्चनिवर्त्तनैवनाधिकेत्याधिक्ये विवादः । पञ्चनिवर्त्तना मदीयांभूरित्युक्तेन ततो न्यूनैवेति न्यूनतायाम् । पञ्च-निवर्त्तनो ममांश इत्युक्तेऽंश एव नास्तीत्यस्ति-नास्तित्वविवादः सम्भवति । मदीया भूः प्राग-विद्यमानभोगैव भुज्यत इत्युक्तेन सन्तता चिर-न्तन्येव मे भुक्तिरित्यभोगभुक्तौ विवादः । इयंमर्य्यादेयञ्चेति सीमाविवाद इति षट्प्रकार एवविवादः सम्भवति । षट्प्रकारेऽपि भूविवादेश्रुत्यर्थाभ्यां सीमाया अपि निर्णीयमानत्वात्सीमानिर्णयप्रकरणे तस्यान्तर्भावः । समन्ता-द्भवाः सामन्ताः । चतसृषु दिक्ष्वनन्तरा ग्रामा-दयस्त च प्रतिसीमं व्यवस्थिताः ।“ग्रामो ग्रामेषु सामन्तः क्षेत्रं क्षेत्रस्य कीर्त्ति-तम् ।गृहं गृहस्य निर्द्दिष्टं समन्तात् परिरभ्य हि ॥
”इति कात्यायनवचनात् । ग्रामादिशब्देन तत्-स्थाः पुरुषा लक्ष्यन्त । ग्रामः पलायत इतियथा । सामन्तग्रहणञ्च तत्संसक्ताद्युपलक्षणा-र्थम् । उक्तञ्च कात्यायनेन ।“संसक्तकास्तु सामन्तास्तत्संसक्तास्तथोत्तराः ।संसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्त्तिताः ॥
”इति । स्थविरा वृद्धाः । आदिग्रहणेन मौलोद्ध-तयोर्ग्र हणम् । वृद्धादिलक्षणञ्च तेनैवोक्तम् ।“निष्पाद्यमानं यैर्दृष्टं तत् कार्य्यं तद्गुणा-न्वितैः ।वृद्धा वा यदि वावृद्धास्ते च वृद्धाः प्रकीत्तिताः ॥
ये तत्र पूर्व्वं सामन्ताः पश्चाद्देशान्तरं गताः ।तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्त्तिताः ॥
उपश्र वणसम्भोगकार्य्याख्यानोपचिह्निताः ।उद्धरन्ति पुनर्यस्मादुद्धतास्ते ततः स्मृताः ॥
”गोपा गोचारकाः ।“सीमाकृषाणाः सीमासंनिहितक्षेत्रकर्षकाः ।”सर्व्वे च वनगोचरा वनचारिणो व्याधादयस्तेच मनुनोक्ताः ।“व्याधान् शाकुनिकान् गोपान् कैवर्त्तान्मूलखातकान् ।व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनगोचरान् ॥
”स्वलमुन्नतो भूप्रदेशः । अङ्गारोऽग्ने रुच्छिष्टम् ।तुषा धान्यत्वचः । द्रुमा न्यग्रोधादयः । सेतु-र्जलप्रवाहबन्धः । चैत्यं पाषाणादिबन्धः ।आद्यशब्देन वेणुवालुकादीनां ग्रहणम् । एतानिच प्रकाशाप्रकाशभेदेन द्विःप्रकाराणि । तथाच मनुः ।“सीमावृक्षांस्तु कुर्व्वीत न्यग्रोधाश्वत्थकिंशुकान्शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पाद-पान् ॥
गुल्मान् वेणूंश्च विविधान् शमी वल्ली स्थलानिच ।शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥
तडागानुदपानानि वाप्यः प्रस्रवणानि च ।सोमासन्धिषु कार्य्याणि देवतायतनानि च ॥
”इति प्रकाशरूपाणि ॥
“उपच्छन्नानि चान्यानि सीमालिङ्गानिकारयेत् ।सीमाज्ञाने नृणां वीक्ष्यनित्यं लोके विपर्य्ययम् ॥
अश्मनोऽस्यीनि गोबालांस्तुषान भस्मकपा-लिकाः ।करीषमिष्टकाङ्गारशर्करावालुकास्तथा ॥
यानि चैवं प्रकाराणि कालाद्भूमिर्न भक्षयेत् ।तानि सन्धिषु सोमाया अप्रकाशानि कारयेत् ॥
एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः ॥
”प्रच्छन्नलिङ्गानि एतैः प्रकाशाप्रकाशरूपैर्लिङ्गैःसामन्तादिप्रदर्शितैः सोमां प्रति विवदमानयोःसीमानिर्णयं कुर्य्याद्राजा ॥
* ॥
यदा पुनश्चि-ह्नानि न सन्ति विद्यमानानि वा लिङ्गालिङ्ग-तया सन्दिग्धानि तदा निर्णयोपायमाह ।“सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वारक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥
”सामन्ताः पूर्व्वोक्तलक्षणाः । समग्रामाश्चत्वा-रोऽष्टौ दशापि वा इत्येवं समसंख्याः प्रत्यासन्न-ग्रामीणाः । रक्तस्रग्विणो रक्ताम्बरधराः मूर्द्धा-रोपितक्षितिखण्डाः सीमानं नयेयुः प्रदर्शयेयुःसामन्ता वेति विकल्पाभिधानं स्मृत्युत्तरोक्त-साक्ष्यभिप्रायम् । यथाह मनुः ।“साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ।”तत्र च साक्षिणां निर्णेतृत्वं मुख्यं तदभावेसामन्तानाम् । तदुक्तम् ।“साक्ष्यभावे तु चत्वारो ग्रामाः सीमन्तवासिनःसीमाविनिणयं कुर्य्युः प्रयता राजसन्निधौ ॥
”तदभावे तत्संसक्तादीनां निर्णेतृत्वम् । यथाहकात्यायनः ।“स्वार्थसिद्धौ प्रदुष्टेषु सामन्ते ष्वर्थगौरवात् ।तत्संसक्तैस्तु कत्तव्य उद्धारो नात्र संशयः ॥
संसक्तसक्तदाषे तु तत्संसक्ताः प्रकीर्त्तिताः ।कर्त्तव्या न प्रदुष्टास्तु राज्ञा धर्म्मं विजानता ॥
”सामन्ताद्यभावे मौलादयो ग्राह्याः । तेषाम-भावे सामन्ता मौलवृद्धोद्धृतादयः । स्थावरेषट्प्रकारेऽपि कार्य्या नात्र विचारणेति कात्या-यनेन क्रमविधानात् । एते च सामन्तादयःसंख्यागुणातिरेकेन संभवन्ति ।“सामन्ताः साधनं पूर्व्वंनिर्दोषाः स्युर्गुणा-न्विताः ॥
”द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताःइति स्मरणात् ॥
* ॥
ते च साक्षिणः सामन्तादयश्च स्वैः स्वैः शपथैःशापिताः सन्तः सीमां नयेयुः ।“शिरोभिस्ते गृहीत्वोर्व्वीं स्रग्विणो रक्तवाससःसुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समञ्जसम् ॥
इति स्मरणात् ॥
नयेयुरिति बहुवचनं द्वयोर्निरासार्थं नैकस्य ।“एकश्चेदुन्नयेत् सोमां सोपवासः समुन्नयेत् ।रक्तमाल्याम्बरधरो भूमिमादाय मूर्द्धनि ॥
”इति नारदेनेकस्याभ्यनुज्ञानात् । यस्तु ।“नैकः समुन्नयेत् सोमां नरः प्रत्ययवानपि ।गुरुत्वादस्य कार्य्यस्य त्रियेषा बहुषु स्थिता ॥
”इत्येकस्य निषेधः । स उभयानुमतधर्म्मविद्व्यति-रिक्तविषय इत्यविरोधः ॥
* ॥
स्थलादिचिह्नाभावेऽपि साक्षिसामन्तादीनांसीमाज्ञान उपायविशेषो नारदेनोक्तः ।“निम्नगापहृतोथृष्टनष्टचिह्नासु भूमिषु ।तत्प्रदेशानुमानाच्च प्रमाणाद्भोगदर्शनात् ॥
”निम्नगाया नद्या अपहृतेनापहरणेनोत्सृ-ष्टानि स्वस्थानात् प्रच्युतानि नष्टानि वालिङ्गानि यासु मर्य्यादाभूमिषु तत्र तत्प्रदेशा-नुमानात् उत्सृष्टनष्टचिह्नानां प्राचीनप्रदेशा-नुमानाद् ग्रामादारभ्य सहस्रदण्डपरिमितंक्षेत्रमस्य ग्रामस्य पश्चिमे भाग इत्येवं विधानातुप्रमाणाद्वा प्रत्यर्थिसमक्षमविप्रतिपन्नायाःस्मार्त्तकालोपलक्षितैर्भुक्तैव्वा निञ्चिनुयुः । बृह-स्पतिना चात्र विशेषो दर्शितः ।“आगमञ्च प्रमाणञ्च भोगं कालञ्च नाम च ।भूभागलक्षणञ्चैव ये विदुस्तऽत्र साक्षिणः ॥
”एते च साक्षिसामन्तादयः शपथैः शापिताःसन्तः कुलादिसमक्षं राज्ञा प्रष्टव्याः । यथाहमनुः ।“ग्रामेयककुलानान्तु समक्षं सीम्नि साक्षिणः ।प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥
ते पृष्टाः साक्ष्यादयः समस्ता ऐकमत्येन सीम्निनिणयं कुर्य्युः । तैर्निर्णीतां सीमां तत्प्रदर्शित-सकललिङ्गयुक्तां साक्ष्यादिनामान्विताञ्चाविस्म-रणार्थं पत्रे समारोपयेत् । उक्तञ्च मनुना ।“ते पृष्टास्तु यथा ब्रूयुः सामन्ताः सीम्निनिर्णयम् ।निबध्नीयात्तथा सीमां सर्व्वांस्तांश्चैव नामतः ॥
एतेषां साक्षिसामन्तप्रभृतीनां सोमाचंक्रमण-दिनादारभ्य यावत् त्रिपक्षं राजदैविकं व्यसनंचेन्नोपपद्यते तदा तत्प्रदशनात् सोमानिर्णयः ।अयञ्च राजदैविकव्यसनावधिः कात्यायनोक्तः ।“सीमाचंक्रमणे कोषे पादस्पर्शे तथैव च ।त्रिपक्षपक्षसप्ताहं दैवराजिकमिष्यते ॥
” इति ॥
यदा त्वमीषां उक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरेरोगादिर्दृश्यते । अथवा प्रतिवादिनिर्द्दिष्टाभ्य-धिकसंख्यागुण-साक्ष्यन्तरविरुद्धवचनता तदाते मृषाभाषितया दण्डनीयाः । तदाह ।“अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥
अनृते मिथ्यावदने निमित्तभूते सति सर्व्वेसा-मन्ताः प्रत्येकं मध्यमसाहसेन चत्वारिंशदधि-केन पणपञ्चशतेन दण्डनीयाः । सामन्तविष-यता चास्य साक्ष्यमौलादोनां स्मृत्यन्तरेदण्डान्तरविधानादवगम्यते । तथा च मनुः ।“यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥
”नारदोऽपि ।“अथ चदनृतं ब्रूयुः सामन्ताः सीम्नि निर्णये ।सर्व्वे पृथक् पृथक् दण्ड्या राज्ञा मध्यमसाह-सम् ॥
”सामन्तानां मध्यमसाहसं दण्डमभिधाय ।“शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकर्म्माणि ।प्रत्येकन्तु जघन्यास्ते विनेयाः पूर्व्वसाहसम् ॥
”तत्संयुक्तादिषु प्रथमं साहसमुक्तवान् । मौला-दीनामपि तमेव दण्डमाह ।“मौलवृद्धादयस्त्वन्ये दण्डगत्या पृथक् पृथक् ।विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥
”इति ।आदिग्रहणेन गोपशाकुनिकव्याधवनगोचराणांग्रहणम् ॥
* ॥
यदपि शाकुनिकादीनां पाप-रतत्वाल्लिङ्गदर्शन एवोपयोगो न साक्षात्सीमा-निर्णये तथापि लिङ्गदर्शन एव मृषाभाषित्व-सम्भवात् दण्डविधानमुपपद्यत एव । अनृते तुपृथग्दण्ड्या इत्यतद्दण्डविधानमज्ञानविषयम् ।“बहूनान्तु ग्रहीतॄणां न सर्व्वे निर्णयं यदि ।कुर्य्युर्भयाद्वा लोभाद्वा दण्ड्यास्तूत्तमसाहसम् ॥
”इति ज्ञानविषये साक्ष्यादीनां कात्यायनेनदण्डान्तरविधानात् ॥
* ॥
तथा साक्षिवचन-भेदेऽप्ययमेव दण्डस्तेनैवोक्तः । कीर्त्तिते यदिभेदः स्याद्दण्ड्यास्तूत्तम-साहसमिति । एव-मज्ञानादिना अनृतवदने साक्ष्यादीन् दण्ड-यित्वा पुनः सीमाविचारः प्रवर्त्तयितव्यः । अज्ञा-नोक्तौ दण्डयित्वा पुनः सीमां विचारयेदित्युक्त्वा“त्यक्त्वा दुष्टांस्तु सामन्तानन्यान् भौलादिभिःसह ।संमिश्रः कारयेत् सीमामेवं धर्म्मविदो विदुः ॥
”इति निर्णयप्रकारस्ते नैवोक्तः ॥
* ॥
यदा पुनःसामन्तप्रभृतयो ज्ञातारश्चिह्नानि च न सन्तितदा कथं निर्णय इत्यत आह ।“अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्त्तिता ॥
ज्ञातॄणां सामन्तादीनां लिङ्गादीनाञ्च । वृक्षा-दीनामभावे राजैव सीम्नः प्रवर्त्तिता प्रवर्त्त-यिता । अन्तर्भावितोऽत्र ण्यर्थः । ग्रामद्वय-मध्यवर्त्तिनीं विवादास्पदीभूतां भुवं समंप्रविभज्यास्येयं भूरस्येयमित्युभयो समर्प्यतन्मध्ये सीमालिङ्गानि कुर्य्यात् । यदा तस्यांभूमावन्यतरस्योपकारातिशयो दृश्यते तदातस्यैव ग्रामस्य सकला भूः समर्पणीया । यथाहमनुः ।“सीमायामविषह्यायां स्वयं राजैव धर्म्मवित् ।प्रदिशेद्भू मिमेकेषामुपकारादिभिः स्थितिः ॥
” *असत्यामप्यतद्भावाशङ्कायामस्याः स्मृतेर्न्याय-मूलतां द्योतयितुमतिदेशमाह ।“आरामायतनग्रामनिपानोद्यानवेश्मसु ।एष एव विधिर्ज्ञेयो बर्षाम्बुप्रवहादिषु ॥
”आरामः पुष्पफलोपचयहेतुः भूभागः । आयतनंनिवेशनं पलालकूटाद्यर्थं विभक्तो प्रदेशः ग्रामःप्रसिद्धः । ग्रामग्रहणञ्च नगराद्युपलक्षणम् ।निपानं पानीयस्थानं कूपवापीप्रभृतिकम् ।उद्यानं क्रीडार्थाभूमिः । वेश्म गृहम् । एतेष्वा-रामादिष्वयमेव सामन्तसाक्ष्यादिलक्षणो विधिर्ज्ञातव्यः । तथा प्रवषणोद्भूतेषु जलप्रवाहेषुअनयोर्गृहयोर्मध्ये न जलौघः प्रवहत्यनयो-र्वेत्येवं प्रकारे विवादे आदिग्रहणात् प्रासा-दादिष्वपि प्राचोन एव विधिर्ज्ञेयः वेदितव्यः ।तथा च कात्यायनः ।“क्षेत्रकूपतडागानां केदारारामयोरपि ।गृहप्रसादावसथनृपदेवगृहेषु च ॥
” इति ॥
* ॥
सीमानिर्णयमुक्त्वा तत्प्रसङ्गेन मर्य्यादाप्रभेद-नादौ दण्डमाह ।“मर्य्यादायाः प्रभेदे तु सीमातिक्रमणे तथा ।क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥
”अनेकक्षेत्रव्यवच्छेदिका साधारणी भूर्मर्य्यादातस्याः प्रकर्षेण भेदनेसीमातिक्रमणे सीमामति-लङ्घ्य कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणेयथाक्रमेणाधमोत्तममध्यमदण्डा वेदितव्याः ।क्षेत्रग्रहणञ्च गृहारामाद्युपलक्षणार्थम् । यदापुनः स्वीयभ्रान्त्या क्षेत्रादिकमपहरति तदाद्विशतो दमो वेदितव्यः ॥
यथाह मनुः ।“गृहं तडागमारामं क्षेत्रं वा भीषया हरन् ।शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः ॥
”इति ॥
अपह्रियमाणक्षेत्रादि भूयस्त्वपर्य्यालोचनयाकदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः । अतएवाह ।“वधः सर्व्वस्वहरणं पूरान्निर्वासनाङ्कने ।तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥
”इति ॥
* ॥
यः पुनः परक्षेत्रे सेतुकूपादिकं प्रार्थनया अर्थ-दानेन वा लब्धानुज्ञो निर्मातुमिच्छति तं निषे-धतः क्षेत्रस्वामिन एव दण्ड इत्यत आह ।“न निषेध्योऽल्पवाधस्तु सेतुः कल्याणकारकः ।परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥
”परकीयां भूमिमपहरन्नाशयन्नपि सेतुर्जल-प्रवाहबन्धः क्षेत्रस्वामिना न प्रतिषेध्यः सचेदीषत्पीडाकरो बहूपकारकश्च भवति ।कूपश्चाल्पक्षेत्रव्यापित्वेनाल्पवाधो बहूदकत्वेनबहूपकारको नैव निवारणीयः । कूपग्रहणञ्चवापीपुष्करिण्याद्युपलक्षणार्थम् । यदा पुन-रसौ सर्व्वक्षेत्रवर्त्तितया बहुवाधो नद्यादिसमीपक्षेत्रवर्त्तितया वा अल्पोपकारकस्तदासौ निषध्यइत्यर्थादुक्तम्भवति ॥
* ॥
सेतोश्च द्वैविध्यमुक्तंनारदेन ।“सेतुश्च द्विविधो ज्ञेयः खेयो बन्ध्यस्तथैव च ।तोयपवर्त्तनात् खेयो बन्ध्यः स्यात्तन्निवर्त्तनात् ॥
इति ॥
यदा त्वन्यनिर्म्मितं सेतुं भेदनादिना नष्टं स्वयंसंस्करोति तदा पूर्व्वस्वामिनं तद्वं श्यनृपं वास्पृष्ट्वैव संस्कुर्य्यात् । यथाह नारदः ।“पूर्व्वप्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनन्तु यः ।सेतुं प्रवर्त्तयेत् कश्चित् न स तत्फलभाक् भवेत्मृते तु स्वामिनि पुनस्तद्वं श्ये वापि मानवे ।राजानमामन्त्र्य ततः कुर्य्यात् सेतुप्रवर्त्तनम् ॥
”इति ॥
* ॥
क्षेत्रस्वामिनं प्रति उपदिष्टमिदानीं सेतोःप्रवर्त्त यितारं प्रति आह ।“स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्त्तयेत् ।उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥
”क्षेत्रस्वामिनमनभ्युपगम्य तदभावे राजानं वायः परक्षेत्रे सेतुं प्रवर्त्तयत्यसौ न फलभाग्भव-त्यपि तु तदुत्पन्ने फले क्षेत्रस्वामिनो भोग-स्तदभावे राज्ञः । तस्मात् प्रार्थनयार्थदानेन वाक्षेत्रस्वामिनं तदभावे राजानं वाप्यनुज्ञाप्यैवपरक्षेत्रे सेतुः प्रवर्त्तनीय इति तात्पर्य्यार्थः ॥
* ॥
क्षेत्रस्वामिना सेतुर्न प्रतिषेध्य इत्यक्तमिदानींतस्यैव प्रसक्तानुप्रसक्त्या क्वचिद्विध्यन्तरमाह ।“फालाहतमपि क्षेत्रं न कुर्य्याद्यो न कारयेत्स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ॥
”यः पुनः क्षेत्रस्वामिनः पार्श्वेऽहमिदं क्षेत्रंकृषामि इत्यङ्गीकृत्य पश्चादुत्सृजति न चान्येनकर्षयति तच्च क्षेत्रं यद्यपि फलाहतमीषद्वलेनविदारितं न सम्यग्वीजवापार्हं तथापि तस्या-कृष्टस्यफलंयावत्तत्रोत्पत्त्यर्हं सामन्तादिकल्पितंतावदसौ कर्षको दापनीयः । तच्च क्षेत्रं पूर्वकर्षकादुच्छिद्यान्ये न कारयेत् । इति सीमाविवादप्रकरणम् । इति मिताक्षरा ॥
* ॥
अपि च ।“सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः ।ज्येष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु ॥
सीमावृक्षांश्च कुर्व्वीत न्यग्रोधाश्वत्थकिंशुकान् ।शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पादपान् ॥
गुल्मान् वेणूंश्च विविधान् शमीवल्ली स्थलानि चशरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥
तडागान्युदपानानि वाप्यः प्रस्रवणानि च ।सोमासन्धिषु कार्य्याणि देवतांयतनानि च ॥
उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत्सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्य्ययम्अश्मनोऽस्थीनि गोबालान् तुषान् भस्म कपा-लिकाः ।करीषमिष्टकाङ्गारान् शर्करा वालुकास्तथा ॥
यानि चैवं प्रकाराणि कालाद्भूमिर्न भक्षयेत् ।तानि सन्धिषु सीमायामप्रकाशानि कारयेत् ॥
एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः ।पूर्व्वभुक्त्या च सततमुदकस्यागमेन च ॥
यदि संशय एव स्यात् लिङ्गानामपि दर्शने ।साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ॥
ग्रामीयककुलानाञ्च समक्षं सीम्नि साक्षिणः ।प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥
ते पृष्टास्तु तथा ब्रूयुः समन्ताः सीम्नि निश्चयम्निबध्नीयात्तथा सीमां सर्व्वांस्तांश्चैव नामतः ॥
शिरोभिस्त गृहीत्वोर्व्वीं स्रग्विणो रक्तवाससःसुकृतैः शापिताः स्वै स्वै र्नयेयुस्ते समञ्जसम् ॥
यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥
साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवा-सिनः ।सीमाविनिर्णयं कुर्य्युः प्रयता राजसन्निधौ ॥
सामन्तानामभावे तु मौलानां सीम्नि साक्षि-णाम् ॥
इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान् ॥
व्याधान् शाकुनीकान् गोपान् कैवर्त्तान् मूल-खानकान् ।व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥
ते पृष्टास्तु यथा ब्रूयुः सीमासन्धिषु लक्षणम् ।तत्तथा स्थापयेद्राजा धर्म्मेण ग्रामयोर्द्वयोः ॥
क्षेत्रकूपतडागानामारामस्य गृहस्य च ।सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥
सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम् ।सर्व्वे पृथक् पृथक् दण्ड्या राज्ञा मध्यमसाहसम्गृहं तडागमारामं क्षेत्रं वा भीषया हरन् ।शतानि पञ्च दण्ड्यः स्यादज्ञानाद्दिशतो दमः ॥
सीमायामविषह्यायां स्वयं राजैव धर्म्मवित् ।प्रदिशेत् भूमिमेतेषामुपकारादिति स्थितिः ॥
”इति मानवे ८ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
