सीमाविवाद (sImAvivAda)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English सीमाविवाद sImAvivAda litigation about boundaries
Wilson
EnglishApte Hindi
Hindiसीमाविवादः
सीमा-विवादः -
सीमासंबंधी झगड़ा या मुकदमेबाजी
Indian Epigraphical Glossary
Englishशब्दकल्पद्रुमः
Sanskritसीमाविवादः, (सीमायाः विवादः ।) ग्रामा-दीनां सीमाविषयककलहः । यथा । अधुनासीमाविवादनिर्णय उच्यते ।“सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरादयःगोपाः सीमाकृषाणा ये सर्व्वे च वनगोचराः ॥
नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः ।सेतुवल्मीकनिम्नास्थिचैत्याद्यैरुपलक्षिताम् ॥
”ग्रामद्वयसम्बन्धिनः क्षेत्रस्य सीम्नी विवादेतथैक-ग्रामान्तर्व्वर्त्तिक्षेत्रमर्य्यादाविवादे च सामन्ता-दयः स्थलाङ्गारादिभिः पूर्व्वकृतैः सीमालक्षणै-रुपलक्षितां चिह्नितां सीमां नयेयुः निश्चिनियुःसीमा क्षेत्रादिमर्य्यादा सा चतुर्व्विधा । जन-पदसीमा १ ग्रामसीमा २ क्षेत्रसीमा ३ गृह-सीमा ४ चेति । सा च यथासम्भवं पञ्चलक्षणातदुक्तं नारदेन ।“ध्वजिनी मत्सिनी चैव नैधानी भयवर्ज्जिता ।राजशासननीता च सीमा पञ्चविधा स्मृता ॥
”ध्वजिनी वृक्षादिलक्षिता । वृक्षादीनां प्रकाश-कत्वेन ध्वजतुल्यत्वात् । मत्सिनी सलिलवतीमत्स्यशब्दस्य स्वधारजललक्षणत्वात् । नैधानीनिखाततुषाङ्गारादिमती । तेषां निखातत्वेननिधानतुल्यत्वात् । भयवर्जिता अर्थिप्रत्यर्थि-परस्परसम्प्रतिपत्तिनिर्म्मिता । राजशासन-नीता । ज्ञातृचिह्नाभावे राजेच्छया निर्म्मिताएवम्भूतायां षोढा विवादः संभवति । यथाहकात्यायनः ।“आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव चअभोगभुक्तिः सीमा च षड्भूवादस्य हेतवः ॥
”इति । तथा हि । ममात्र पञ्चनिवर्त्तनाया भूमे-रधिका भूरस्तीति केनचिदुक्ते पञ्चनिवर्त्तनैवनाधिकेत्याधिक्ये विवादः । पञ्चनिवर्त्तना मदीयांभूरित्युक्तेन ततो न्यूनैवेति न्यूनतायाम् । पञ्च-निवर्त्तनो ममांश इत्युक्तेऽंश एव नास्तीत्यस्ति-नास्तित्वविवादः सम्भवति । मदीया भूः प्राग-विद्यमानभोगैव भुज्यत इत्युक्तेन सन्तता चिर-न्तन्येव मे भुक्तिरित्यभोगभुक्तौ विवादः । इयंमर्य्यादेयञ्चेति सीमाविवाद इति षट्प्रकार एवविवादः सम्भवति । षट्प्रकारेऽपि भूविवादेश्रुत्यर्थाभ्यां सीमाया अपि निर्णीयमानत्वात्सीमानिर्णयप्रकरणे तस्यान्तर्भावः । समन्ता-द्भवाः सामन्ताः । चतसृषु दिक्ष्वनन्तरा ग्रामा-दयस्त च प्रतिसीमं व्यवस्थिताः ।“ग्रामो ग्रामेषु सामन्तः क्षेत्रं क्षेत्रस्य कीर्त्ति-तम् ।गृहं गृहस्य निर्द्दिष्टं समन्तात् परिरभ्य हि ॥
”इति कात्यायनवचनात् । ग्रामादिशब्देन तत्-स्थाः पुरुषा लक्ष्यन्त । ग्रामः पलायत इतियथा । सामन्तग्रहणञ्च तत्संसक्ताद्युपलक्षणा-र्थम् । उक्तञ्च कात्यायनेन ।“संसक्तकास्तु सामन्तास्तत्संसक्तास्तथोत्तराः ।संसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्त्तिताः ॥
”इति । स्थविरा वृद्धाः । आदिग्रहणेन मौलोद्ध-तयोर्ग्र हणम् । वृद्धादिलक्षणञ्च तेनैवोक्तम् ।“निष्पाद्यमानं यैर्दृष्टं तत् कार्य्यं तद्गुणा-न्वितैः ।वृद्धा वा यदि वावृद्धास्ते च वृद्धाः प्रकीत्तिताः ॥
ये तत्र पूर्व्वं सामन्ताः पश्चाद्देशान्तरं गताः ।तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्त्तिताः ॥
उपश्र वणसम्भोगकार्य्याख्यानोपचिह्निताः ।उद्धरन्ति पुनर्यस्मादुद्धतास्ते ततः स्मृताः ॥
”गोपा गोचारकाः ।“सीमाकृषाणाः सीमासंनिहितक्षेत्रकर्षकाः ।”सर्व्वे च वनगोचरा वनचारिणो व्याधादयस्तेच मनुनोक्ताः ।“व्याधान् शाकुनिकान् गोपान् कैवर्त्तान्मूलखातकान् ।व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनगोचरान् ॥
”स्वलमुन्नतो भूप्रदेशः । अङ्गारोऽग्ने रुच्छिष्टम् ।तुषा धान्यत्वचः । द्रुमा न्यग्रोधादयः । सेतु-र्जलप्रवाहबन्धः । चैत्यं पाषाणादिबन्धः ।आद्यशब्देन वेणुवालुकादीनां ग्रहणम् । एतानिच प्रकाशाप्रकाशभेदेन द्विःप्रकाराणि । तथाच मनुः ।“सीमावृक्षांस्तु कुर्व्वीत न्यग्रोधाश्वत्थकिंशुकान्शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पाद-पान् ॥
गुल्मान् वेणूंश्च विविधान् शमी वल्ली स्थलानिच ।शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥
तडागानुदपानानि वाप्यः प्रस्रवणानि च ।सोमासन्धिषु कार्य्याणि देवतायतनानि च ॥
”इति प्रकाशरूपाणि ॥
“उपच्छन्नानि चान्यानि सीमालिङ्गानिकारयेत् ।सीमाज्ञाने नृणां वीक्ष्यनित्यं लोके विपर्य्ययम् ॥
अश्मनोऽस्यीनि गोबालांस्तुषान भस्मकपा-लिकाः ।करीषमिष्टकाङ्गारशर्करावालुकास्तथा ॥
यानि चैवं प्रकाराणि कालाद्भूमिर्न भक्षयेत् ।तानि सन्धिषु सोमाया अप्रकाशानि कारयेत् ॥
एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः ॥
”प्रच्छन्नलिङ्गानि एतैः प्रकाशाप्रकाशरूपैर्लिङ्गैःसामन्तादिप्रदर्शितैः सोमां प्रति विवदमानयोःसीमानिर्णयं कुर्य्याद्राजा ॥
* ॥
यदा पुनश्चि-ह्नानि न सन्ति विद्यमानानि वा लिङ्गालिङ्ग-तया सन्दिग्धानि तदा निर्णयोपायमाह ।“सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वारक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥
”सामन्ताः पूर्व्वोक्तलक्षणाः । समग्रामाश्चत्वा-रोऽष्टौ दशापि वा इत्येवं समसंख्याः प्रत्यासन्न-ग्रामीणाः । रक्तस्रग्विणो रक्ताम्बरधराः मूर्द्धा-रोपितक्षितिखण्डाः सीमानं नयेयुः प्रदर्शयेयुःसामन्ता वेति विकल्पाभिधानं स्मृत्युत्तरोक्त-साक्ष्यभिप्रायम् । यथाह मनुः ।“साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ।”तत्र च साक्षिणां निर्णेतृत्वं मुख्यं तदभावेसामन्तानाम् । तदुक्तम् ।“साक्ष्यभावे तु चत्वारो ग्रामाः सीमन्तवासिनःसीमाविनिणयं कुर्य्युः प्रयता राजसन्निधौ ॥
”तदभावे तत्संसक्तादीनां निर्णेतृत्वम् । यथाहकात्यायनः ।“स्वार्थसिद्धौ प्रदुष्टेषु सामन्ते ष्वर्थगौरवात् ।तत्संसक्तैस्तु कत्तव्य उद्धारो नात्र संशयः ॥
संसक्तसक्तदाषे तु तत्संसक्ताः प्रकीर्त्तिताः ।कर्त्तव्या न प्रदुष्टास्तु राज्ञा धर्म्मं विजानता ॥
”सामन्ताद्यभावे मौलादयो ग्राह्याः । तेषाम-भावे सामन्ता मौलवृद्धोद्धृतादयः । स्थावरेषट्प्रकारेऽपि कार्य्या नात्र विचारणेति कात्या-यनेन क्रमविधानात् । एते च सामन्तादयःसंख्यागुणातिरेकेन संभवन्ति ।“सामन्ताः साधनं पूर्व्वंनिर्दोषाः स्युर्गुणा-न्विताः ॥
”द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताःइति स्मरणात् ॥
* ॥
ते च साक्षिणः सामन्तादयश्च स्वैः स्वैः शपथैःशापिताः सन्तः सीमां नयेयुः ।“शिरोभिस्ते गृहीत्वोर्व्वीं स्रग्विणो रक्तवाससःसुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समञ्जसम् ॥
इति स्मरणात् ॥
नयेयुरिति बहुवचनं द्वयोर्निरासार्थं नैकस्य ।“एकश्चेदुन्नयेत् सोमां सोपवासः समुन्नयेत् ।रक्तमाल्याम्बरधरो भूमिमादाय मूर्द्धनि ॥
”इति नारदेनेकस्याभ्यनुज्ञानात् । यस्तु ।“नैकः समुन्नयेत् सोमां नरः प्रत्ययवानपि ।गुरुत्वादस्य कार्य्यस्य त्रियेषा बहुषु स्थिता ॥
”इत्येकस्य निषेधः । स उभयानुमतधर्म्मविद्व्यति-रिक्तविषय इत्यविरोधः ॥
* ॥
स्थलादिचिह्नाभावेऽपि साक्षिसामन्तादीनांसीमाज्ञान उपायविशेषो नारदेनोक्तः ।“निम्नगापहृतोथृष्टनष्टचिह्नासु भूमिषु ।तत्प्रदेशानुमानाच्च प्रमाणाद्भोगदर्शनात् ॥
”निम्नगाया नद्या अपहृतेनापहरणेनोत्सृ-ष्टानि स्वस्थानात् प्रच्युतानि नष्टानि वालिङ्गानि यासु मर्य्यादाभूमिषु तत्र तत्प्रदेशा-नुमानात् उत्सृष्टनष्टचिह्नानां प्राचीनप्रदेशा-नुमानाद् ग्रामादारभ्य सहस्रदण्डपरिमितंक्षेत्रमस्य ग्रामस्य पश्चिमे भाग इत्येवं विधानातुप्रमाणाद्वा प्रत्यर्थिसमक्षमविप्रतिपन्नायाःस्मार्त्तकालोपलक्षितैर्भुक्तैव्वा निञ्चिनुयुः । बृह-स्पतिना चात्र विशेषो दर्शितः ।“आगमञ्च प्रमाणञ्च भोगं कालञ्च नाम च ।भूभागलक्षणञ्चैव ये विदुस्तऽत्र साक्षिणः ॥
”एते च साक्षिसामन्तादयः शपथैः शापिताःसन्तः कुलादिसमक्षं राज्ञा प्रष्टव्याः । यथाहमनुः ।“ग्रामेयककुलानान्तु समक्षं सीम्नि साक्षिणः ।प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥
ते पृष्टाः साक्ष्यादयः समस्ता ऐकमत्येन सीम्निनिणयं कुर्य्युः । तैर्निर्णीतां सीमां तत्प्रदर्शित-सकललिङ्गयुक्तां साक्ष्यादिनामान्विताञ्चाविस्म-रणार्थं पत्रे समारोपयेत् । उक्तञ्च मनुना ।“ते पृष्टास्तु यथा ब्रूयुः सामन्ताः सीम्निनिर्णयम् ।निबध्नीयात्तथा सीमां सर्व्वांस्तांश्चैव नामतः ॥
एतेषां साक्षिसामन्तप्रभृतीनां सोमाचंक्रमण-दिनादारभ्य यावत् त्रिपक्षं राजदैविकं व्यसनंचेन्नोपपद्यते तदा तत्प्रदशनात् सोमानिर्णयः ।अयञ्च राजदैविकव्यसनावधिः कात्यायनोक्तः ।“सीमाचंक्रमणे कोषे पादस्पर्शे तथैव च ।त्रिपक्षपक्षसप्ताहं दैवराजिकमिष्यते ॥
” इति ॥
यदा त्वमीषां उक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरेरोगादिर्दृश्यते । अथवा प्रतिवादिनिर्द्दिष्टाभ्य-धिकसंख्यागुण-साक्ष्यन्तरविरुद्धवचनता तदाते मृषाभाषितया दण्डनीयाः । तदाह ।“अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥
अनृते मिथ्यावदने निमित्तभूते सति सर्व्वेसा-मन्ताः प्रत्येकं मध्यमसाहसेन चत्वारिंशदधि-केन पणपञ्चशतेन दण्डनीयाः । सामन्तविष-यता चास्य साक्ष्यमौलादोनां स्मृत्यन्तरेदण्डान्तरविधानादवगम्यते । तथा च मनुः ।“यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥
”नारदोऽपि ।“अथ चदनृतं ब्रूयुः सामन्ताः सीम्नि निर्णये ।सर्व्वे पृथक् पृथक् दण्ड्या राज्ञा मध्यमसाह-सम् ॥
”सामन्तानां मध्यमसाहसं दण्डमभिधाय ।“शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकर्म्माणि ।प्रत्येकन्तु जघन्यास्ते विनेयाः पूर्व्वसाहसम् ॥
”तत्संयुक्तादिषु प्रथमं साहसमुक्तवान् । मौला-दीनामपि तमेव दण्डमाह ।“मौलवृद्धादयस्त्वन्ये दण्डगत्या पृथक् पृथक् ।विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥
”इति ।आदिग्रहणेन गोपशाकुनिकव्याधवनगोचराणांग्रहणम् ॥
* ॥
यदपि शाकुनिकादीनां पाप-रतत्वाल्लिङ्गदर्शन एवोपयोगो न साक्षात्सीमा-निर्णये तथापि लिङ्गदर्शन एव मृषाभाषित्व-सम्भवात् दण्डविधानमुपपद्यत एव । अनृते तुपृथग्दण्ड्या इत्यतद्दण्डविधानमज्ञानविषयम् ।“बहूनान्तु ग्रहीतॄणां न सर्व्वे निर्णयं यदि ।कुर्य्युर्भयाद्वा लोभाद्वा दण्ड्यास्तूत्तमसाहसम् ॥
”इति ज्ञानविषये साक्ष्यादीनां कात्यायनेनदण्डान्तरविधानात् ॥
* ॥
तथा साक्षिवचन-भेदेऽप्ययमेव दण्डस्तेनैवोक्तः । कीर्त्तिते यदिभेदः स्याद्दण्ड्यास्तूत्तम-साहसमिति । एव-मज्ञानादिना अनृतवदने साक्ष्यादीन् दण्ड-यित्वा पुनः सीमाविचारः प्रवर्त्तयितव्यः । अज्ञा-नोक्तौ दण्डयित्वा पुनः सीमां विचारयेदित्युक्त्वा“त्यक्त्वा दुष्टांस्तु सामन्तानन्यान् भौलादिभिःसह ।संमिश्रः कारयेत् सीमामेवं धर्म्मविदो विदुः ॥
”इति निर्णयप्रकारस्ते नैवोक्तः ॥
* ॥
यदा पुनःसामन्तप्रभृतयो ज्ञातारश्चिह्नानि च न सन्तितदा कथं निर्णय इत्यत आह ।“अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्त्तिता ॥
ज्ञातॄणां सामन्तादीनां लिङ्गादीनाञ्च । वृक्षा-दीनामभावे राजैव सीम्नः प्रवर्त्तिता प्रवर्त्त-यिता । अन्तर्भावितोऽत्र ण्यर्थः । ग्रामद्वय-मध्यवर्त्तिनीं विवादास्पदीभूतां भुवं समंप्रविभज्यास्येयं भूरस्येयमित्युभयो समर्प्यतन्मध्ये सीमालिङ्गानि कुर्य्यात् । यदा तस्यांभूमावन्यतरस्योपकारातिशयो दृश्यते तदातस्यैव ग्रामस्य सकला भूः समर्पणीया । यथाहमनुः ।“सीमायामविषह्यायां स्वयं राजैव धर्म्मवित् ।प्रदिशेद्भू मिमेकेषामुपकारादिभिः स्थितिः ॥
” *असत्यामप्यतद्भावाशङ्कायामस्याः स्मृतेर्न्याय-मूलतां द्योतयितुमतिदेशमाह ।“आरामायतनग्रामनिपानोद्यानवेश्मसु ।एष एव विधिर्ज्ञेयो बर्षाम्बुप्रवहादिषु ॥
”आरामः पुष्पफलोपचयहेतुः भूभागः । आयतनंनिवेशनं पलालकूटाद्यर्थं विभक्तो प्रदेशः ग्रामःप्रसिद्धः । ग्रामग्रहणञ्च नगराद्युपलक्षणम् ।निपानं पानीयस्थानं कूपवापीप्रभृतिकम् ।उद्यानं क्रीडार्थाभूमिः । वेश्म गृहम् । एतेष्वा-रामादिष्वयमेव सामन्तसाक्ष्यादिलक्षणो विधिर्ज्ञातव्यः । तथा प्रवषणोद्भूतेषु जलप्रवाहेषुअनयोर्गृहयोर्मध्ये न जलौघः प्रवहत्यनयो-र्वेत्येवं प्रकारे विवादे आदिग्रहणात् प्रासा-दादिष्वपि प्राचोन एव विधिर्ज्ञेयः वेदितव्यः ।तथा च कात्यायनः ।“क्षेत्रकूपतडागानां केदारारामयोरपि ।गृहप्रसादावसथनृपदेवगृहेषु च ॥
” इति ॥
* ॥
सीमानिर्णयमुक्त्वा तत्प्रसङ्गेन मर्य्यादाप्रभेद-नादौ दण्डमाह ।“मर्य्यादायाः प्रभेदे तु सीमातिक्रमणे तथा ।क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥
”अनेकक्षेत्रव्यवच्छेदिका साधारणी भूर्मर्य्यादातस्याः प्रकर्षेण भेदनेसीमातिक्रमणे सीमामति-लङ्घ्य कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणेयथाक्रमेणाधमोत्तममध्यमदण्डा वेदितव्याः ।क्षेत्रग्रहणञ्च गृहारामाद्युपलक्षणार्थम् । यदापुनः स्वीयभ्रान्त्या क्षेत्रादिकमपहरति तदाद्विशतो दमो वेदितव्यः ॥
यथाह मनुः ।“गृहं तडागमारामं क्षेत्रं वा भीषया हरन् ।शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः ॥
”इति ॥
अपह्रियमाणक्षेत्रादि भूयस्त्वपर्य्यालोचनयाकदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः । अतएवाह ।“वधः सर्व्वस्वहरणं पूरान्निर्वासनाङ्कने ।तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥
”इति ॥
* ॥
यः पुनः परक्षेत्रे सेतुकूपादिकं प्रार्थनया अर्थ-दानेन वा लब्धानुज्ञो निर्मातुमिच्छति तं निषे-धतः क्षेत्रस्वामिन एव दण्ड इत्यत आह ।“न निषेध्योऽल्पवाधस्तु सेतुः कल्याणकारकः ।परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥
”परकीयां भूमिमपहरन्नाशयन्नपि सेतुर्जल-प्रवाहबन्धः क्षेत्रस्वामिना न प्रतिषेध्यः सचेदीषत्पीडाकरो बहूपकारकश्च भवति ।कूपश्चाल्पक्षेत्रव्यापित्वेनाल्पवाधो बहूदकत्वेनबहूपकारको नैव निवारणीयः । कूपग्रहणञ्चवापीपुष्करिण्याद्युपलक्षणार्थम् । यदा पुन-रसौ सर्व्वक्षेत्रवर्त्तितया बहुवाधो नद्यादिसमीपक्षेत्रवर्त्तितया वा अल्पोपकारकस्तदासौ निषध्यइत्यर्थादुक्तम्भवति ॥
* ॥
सेतोश्च द्वैविध्यमुक्तंनारदेन ।“सेतुश्च द्विविधो ज्ञेयः खेयो बन्ध्यस्तथैव च ।तोयपवर्त्तनात् खेयो बन्ध्यः स्यात्तन्निवर्त्तनात् ॥
इति ॥
यदा त्वन्यनिर्म्मितं सेतुं भेदनादिना नष्टं स्वयंसंस्करोति तदा पूर्व्वस्वामिनं तद्वं श्यनृपं वास्पृष्ट्वैव संस्कुर्य्यात् । यथाह नारदः ।“पूर्व्वप्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनन्तु यः ।सेतुं प्रवर्त्तयेत् कश्चित् न स तत्फलभाक् भवेत्मृते तु स्वामिनि पुनस्तद्वं श्ये वापि मानवे ।राजानमामन्त्र्य ततः कुर्य्यात् सेतुप्रवर्त्तनम् ॥
”इति ॥
* ॥
क्षेत्रस्वामिनं प्रति उपदिष्टमिदानीं सेतोःप्रवर्त्त यितारं प्रति आह ।“स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्त्तयेत् ।उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥
”क्षेत्रस्वामिनमनभ्युपगम्य तदभावे राजानं वायः परक्षेत्रे सेतुं प्रवर्त्तयत्यसौ न फलभाग्भव-त्यपि तु तदुत्पन्ने फले क्षेत्रस्वामिनो भोग-स्तदभावे राज्ञः । तस्मात् प्रार्थनयार्थदानेन वाक्षेत्रस्वामिनं तदभावे राजानं वाप्यनुज्ञाप्यैवपरक्षेत्रे सेतुः प्रवर्त्तनीय इति तात्पर्य्यार्थः ॥
* ॥
क्षेत्रस्वामिना सेतुर्न प्रतिषेध्य इत्यक्तमिदानींतस्यैव प्रसक्तानुप्रसक्त्या क्वचिद्विध्यन्तरमाह ।“फालाहतमपि क्षेत्रं न कुर्य्याद्यो न कारयेत्स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ॥
”यः पुनः क्षेत्रस्वामिनः पार्श्वेऽहमिदं क्षेत्रंकृषामि इत्यङ्गीकृत्य पश्चादुत्सृजति न चान्येनकर्षयति तच्च क्षेत्रं यद्यपि फलाहतमीषद्वलेनविदारितं न सम्यग्वीजवापार्हं तथापि तस्या-कृष्टस्यफलंयावत्तत्रोत्पत्त्यर्हं सामन्तादिकल्पितंतावदसौ कर्षको दापनीयः । तच्च क्षेत्रं पूर्वकर्षकादुच्छिद्यान्ये न कारयेत् । इति सीमाविवादप्रकरणम् । इति मिताक्षरा ॥
* ॥
अपि च ।“सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः ।ज्येष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु ॥
सीमावृक्षांश्च कुर्व्वीत न्यग्रोधाश्वत्थकिंशुकान् ।शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पादपान् ॥
गुल्मान् वेणूंश्च विविधान् शमीवल्ली स्थलानि चशरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥
तडागान्युदपानानि वाप्यः प्रस्रवणानि च ।सोमासन्धिषु कार्य्याणि देवतांयतनानि च ॥
उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत्सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्य्ययम्अश्मनोऽस्थीनि गोबालान् तुषान् भस्म कपा-लिकाः ।करीषमिष्टकाङ्गारान् शर्करा वालुकास्तथा ॥
यानि चैवं प्रकाराणि कालाद्भूमिर्न भक्षयेत् ।तानि सन्धिषु सीमायामप्रकाशानि कारयेत् ॥
एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः ।पूर्व्वभुक्त्या च सततमुदकस्यागमेन च ॥
यदि संशय एव स्यात् लिङ्गानामपि दर्शने ।साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ॥
ग्रामीयककुलानाञ्च समक्षं सीम्नि साक्षिणः ।प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥
ते पृष्टास्तु तथा ब्रूयुः समन्ताः सीम्नि निश्चयम्निबध्नीयात्तथा सीमां सर्व्वांस्तांश्चैव नामतः ॥
शिरोभिस्त गृहीत्वोर्व्वीं स्रग्विणो रक्तवाससःसुकृतैः शापिताः स्वै स्वै र्नयेयुस्ते समञ्जसम् ॥
यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥
साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवा-सिनः ।सीमाविनिर्णयं कुर्य्युः प्रयता राजसन्निधौ ॥
सामन्तानामभावे तु मौलानां सीम्नि साक्षि-णाम् ॥
इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान् ॥
व्याधान् शाकुनीकान् गोपान् कैवर्त्तान् मूल-खानकान् ।व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥
ते पृष्टास्तु यथा ब्रूयुः सीमासन्धिषु लक्षणम् ।तत्तथा स्थापयेद्राजा धर्म्मेण ग्रामयोर्द्वयोः ॥
क्षेत्रकूपतडागानामारामस्य गृहस्य च ।सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥
सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम् ।सर्व्वे पृथक् पृथक् दण्ड्या राज्ञा मध्यमसाहसम्गृहं तडागमारामं क्षेत्रं वा भीषया हरन् ।शतानि पञ्च दण्ड्यः स्यादज्ञानाद्दिशतो दमः ॥
सीमायामविषह्यायां स्वयं राजैव धर्म्मवित् ।प्रदिशेत् भूमिमेतेषामुपकारादिति स्थितिः ॥
”इति मानवे ८ अध्यायः ॥
वाचस्पत्यम्
Sanskritसीमाविवाद सीमायां विवादः । अष्टादशसु विवादेषुसध्ये स्वनामख्याते विवादभेदेतत्स्वरूपादिकं वीरमि० दर्शितं यथा“अथ सीमाविवादाख्यव्यवहारपदम् तत्स्वरूपमाहनारदः “सेतुकेदारमर्य्यादाविकृष्टाकृष्टनिश्चयः । क्षेत्रा-घिकारो यत्र स्वादु विवादः क्षेत्रजस्तु सः” । अस्यार्थःसेतुर्जलप्रवाहबन्धः । केदारः क्षेत्रम् । मर्य्यादासीमा । विकृष्टो लाङ्गलप्रहतो देशः अकृष्टस्तद्रहितःएतेषां निश्चयो यत्र विवादे स्यात् स क्षेत्राधिकारःक्षेत्रविषयको विवादः क्षेत्रज उच्यत इति । अयंविवादः षड्विधः तथा च कात्यायनः “आधिक्यं न्यू-नता चांशे अस्तिनास्तित्वमेव च । अभोगभुक्तिःशीमा च षड् भूवादस्य हेतवः” । ममैषाधिका भूरस्ती-त्युक्तेनेति विवाद आधिक्यविवादः । एतावती भूस्तव ने-त्युक्ते ममैतावतीति यो विवादिः स न्यूनताविवादःअत्र ममांशोऽस्तीत्युक्ते यो विवादः सोऽस्तित्वविवादःअत्र तवांशो नास्तीत्युक्ते मम विद्यते इत्येवविधो वि-वादो नास्तित्वविवादः । सीमाविवाद इति षड्विधो विवादइत्यर्थः । तत्र सीमा चतुर्विधा । देशसीमा ग्रामसीमाक्षेत्रसीमा गृहसीमा चेति । तस्याश्चतुर्बिधाया अपियथासम्भवं पञ्चविधत्वमाह नारदः “ध्वजिनी मत्-सिनी चैव नैधानी भयवर्जिता । राजशासननीता चसीमा पञ्चविधा स्मृता” । ध्वजिनी वृक्षादिचिह्नितावृक्षाश्च न्यग्रोधादयः । तदाह मनुः “सीमावृक्षांस्तुकुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलीन् सालता-लांश्च क्षीरिणश्चैव पादपान्” इति । मत्सिनी जल-चिह्निता । नैधानी निखाततुषाङ्गारादिलक्षिता । भय-वर्जिता अर्थिप्रत्यर्थिपरस्परसम्प्रतिपत्तिनिर्मिता । तथाच व्यासः “ग्रामयोरुभयोः सीम्रि वृक्षा यत्रसमुन्नताः । समुच्छ्रिता ध्वजाकारा ध्वजिनी सा प्रकी-र्त्तिता । स्वच्छन्दगा बहुजला झषकूर्मसमन्विता । नित्य-प्रवाहिणी यत्र सीमा सा मत्सिनी मता । तुषाङ्गार-कपालैस्तु कुम्भैरायतनैस्तथा । सीमा प्रचिह्निता कार्य्यानैधानी सा निगद्यते” इति । नित्यप्रवाहिणीत्यनेनकूपवाप्यादीनि प्रकाशचिह्नान्युपलक्ष्यन्ते । तानि चवृहस्पतिना दर्शितानि “वापीकूपतडागानि चैत्या-रामसुरालयाः । स्थलं निम्नं नदीस्रोतः शरगुल्मन-गादयः । प्रकाशचिह्नान्येतानि सीमायां कारयेत् सदा ।निहितानि तथान्यानि यानि भूमिर्न भक्षयेत् । अश्म-नोऽस्थीनि गोबालांस्तुषान् भस्मकपालिकाः । करीष-मिष्टकाङ्गारशर्करावालुकास्तथा । तानि सन्धिपु सी-माया अपकाशानि कारयेत्” । चैत्यं इष्टकादिभिः रचि-तञ्चत्वरादिकम् । स्थलम् उन्नतः भूप्रदेशः । निम्रंपरिखा । नगा अश्वत्थादयो वृक्षाः । आदिशब्देनमार्गादीनां कार्पासवीजानाञ्च ग्रहणम् । अस्थीनिपशुमनुष्याद्यस्थीनि । तुषाङ्गारकपालैरिति करीषादा-नामन्येषां लिङ्गानामप्युपलक्षणम् तानि निधापयेत्“तत्र योगन्तु वालानां प्रयत्नेन प्रदर्शयेत् । वार्द्धके चशिशूनान्ते दर्शयेयुस्तथैव च । एवं परम्पराज्ञाने सीमा-भ्रान्तिर्न व्यायते” इति । प्रदर्शयेदिदन्तु छान्दसं बहूत्वेगवकवचनम् । एतेषां लिङ्गानां कथञ्चिदभावे निश्चयो-पायमाह नारदः “निम्रगापहृतोत्सृष्टनष्टचिह्रासुभूमिषु । तत्प्रदेशानुमानैश्च प्रमाणैर्भोगदर्शनैः” ।निम्नगाया नद्या अपगृतेन अपहरणेन उत्सृष्टानि-स्वस्थानान्नष्टानि चिह्रानि यासान्तास्तथीक्ताः । प्रमाणैःसाक्षिसामन्तादिभिः एवं निरूपितैर्लिंङ्गैर्निर्णयं कुर्य्या-दित्याह मनुः “एतैर्लिङ्गैर्नयेत् सीमां राजा विवद-मानयोः । यदि संशय एव स्याल्लिङ्गानामपि दर्शने ।साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः” । साक्षि-प्रत्ययः साक्षिहेतुकः । लिङ्गाभावपक्षपरिग्रहार्थो-ऽपिशब्दः ते च साक्षिणः सीमाविषयाः सीमालिङ्गवि-मया वा । साक्षिषु विशेषमाह वृहस्पतिः “आगमं चप्रमाणं च भोगकालञ्च नाम च । भूभागलक्षणञ्चैव येविदुस्तेऽत्र साक्षिणः” प्रमाणमियत्ता । उभयेषामपिसाक्षिणामभावे सामन्तवशान्निर्णयं कुर्य्यादित्याह मनुः“साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः । सी-माविनिर्णयं कुर्य्युः प्रयता राजसन्निधौः” । यदा पुनं-लिंङ्गानि न सन्ति वर्त्तमानानि वा सन्दिग्धानि तदानिसयोपायमाह याज्ञवल्क्यः “सामन्ता वा समग्रामा-श्चत्वारोऽष्टौ दशापि वा । रक्तस्रग्वसनाः सीमान्नयेयुःक्षितिधारिणः” । सामन्ताः सन्निहितग्रामक्षेत्राद्युप-भोक्तारः । समग्रामाश्चत्वारोऽष्टौ इत्यादि प्रकारेण सम-सङ्ख्याकाः । तथा च कात्यायनः “ग्रामो ग्रामस्यसामन्तः क्षेत्रं क्षेत्रस्य कीर्त्तितम् । गृंहं गृहस्य नि-र्दिष्टं समन्तात्परिरभ्य हि” । ग्रामस्य समन्ताच्चतसृषुदिक्षुपरिरभ्य सम्बध्य स्थितो ग्रामः सामन्तः क्षेत्रादप्येवंज्ञेयम् । सामन्तानां यदा रागद्वेषादिना प्रकटदोपसद्भाव-स्तदा सामन्तसामन्तवशान्निर्णयः कार्य्यः तदाह कात्या-यनः “स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् । तत्संसक्तैस्तु कर्त्तव्य उद्धारो नात्र संशयः” । तत्संसक्तैःसामन्तसंसक्तैः । सोमाया लद्धारः सीमायानिर्णयइत्यर्थः । तथा चैतदुक्त भवनि । चतसृषुं दिस्रु स्थित-सामन्तग्रामादिभ्योऽनन्तरत्वेन तद्दिशिस्थितग्रामादिभो-क्तारस्तत्संसक्तास्तत्प्रदर्शितसीमालिङ्गैर्ग्रांमादेः सीमा-न्निर्णयेयुरिति । यदा तु सामन्तसामन्तानामपि प्रकट-दोषस्तदा तत्सामन्तैर्निर्णयस्तदाह कात्यायनः “संर्सक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्त्तिता” इति । तत्संसक्ताः संसक्तसक्तसं सक्ता इत्यर्थः । एवं चैतदुक्तं भवतिचतसृषु दिक्ष स्थितसंसक्तग्रामादिभ्योऽनन्तरत्वेन तद्दि-शिस्थितग्रामादिनाक्तारः संसक्तास्तैः प्रदर्शितसीमा-लिङ्गैर्ग्रामादेः सीमान्निर्णयेयुरिति । यदा पुनरेते-षामपि प्रकटदोषत्वन्तदा मौलादवशान्निणयः कार्य्यइत्यप्याह स एव “कर्त्तव्या न प्रदुष्टास्तु राज्ञा धर्मंविजानता । त्यक्त्वा दुष्टांस्तु सामन्तानन्यां मौलादिभिःसह । सम्मिश्र्य कारगेत् सीमामेवं धर्मविदो विदुः” ।अन्यान् सामन्तव्यतिरिक्तान् सीमालिङ्गाभिज्ञान् नग-रादोनित्यर्थः । नगरादयश्च दर्शिता नारदेन “नगर-ग्रामगणतोये च वृद्धतमा नराः” । सीमालिङ्गज्ञातारइति शेषः । मौलादिभिः मौलवृद्धोद्ध्वृतैः । सम्मिश्र्यमेलयित्वा । मौलादीनाञ्च लक्षणं दर्शितं कात्यायनेन“ये तत्र पूर्वं सामन्ताः पश्चाद्देशान्तरङ्गताः । तन्मूल-त्वात् तु ते मौली ऋषिभिः षरिकीर्त्तिताः । निष्पाद्य-मानं यैर्दृष्टं तत् कार्य्यं नृगुणान्वितैः । वृद्धा वायदि वाऽवृद्धास्ते च वृद्धाः प्रकीर्त्तिताः” । नृगुणान्वितैःपुरुषगुणान्वितैः । वाकारोऽनास्थायां वयोवृद्धत्वस्या-प्रयोजकत्वात् । ये परम्परया कार्य्यज्ञातारस्ते उद्धर्त्तारइत्याशयः । तथा च संसक्तसक्तेषु स्फुटदोषदुष्टेषु पूब-सामन्ताद्युपेतनागरिकग्राम्यजनश्रेणिवयोवृद्धदर्शितैः स-म्यक् लिङ्गैः सीमानिर्णयः कार्य्यः । यदा तु प्रति-वादिना सामन्तेषु कश्चिद्दोष उद्भावितः ते च न प्रकटदोष-युक्तास्तदोक्तो विशेषो मनुना “सामन्ताः साधनं पूर्वम-निष्टोक्तौ गुणात्विताः । द्विगुणास्तूत्तरा ज्ञेयास्ततो-ऽन्ये त्रिगुणा मताः” । अनिष्टोक्तौ प्रतिवादिना गुप्त-दोषाभिधाने तत्सामन्तास्ततो द्विगुणग्राह्याः । तत्रापितथात्वे मौलवृद्धादयः सामन्तत्रिगुणाग्राह्या इत्यर्थः ।सास्थादीनामेतेषां यदा अभावस्तदा त्वाह मनः “साम-त्तानामभावे तु मौलानां सीम्नि साक्षिणाम् । इमा-नप्यनुयुञ्जीत पुरुषान् वनगोचरान । व्याधान् शाकुनि-कान् गोपान् कैवर्त्तान् मलखानकान् । व्यालग्राहानु-ञ्छवृत्तीनन्यांश्च वनगोचरान्” । वनगोचराणां ग्रहणंसीमासन्निहितदेशकर्षकाणामसत्त्वे विज्ञेयम् । अत-एवोक्तं नारदेन “सीमासु च बहिर्य्ये स्युर्य्येऽपि तत्कृषिजीविनः । गोपाः शाकुनिका व्याधा ये चान्येवनगोचराः” इति । अत्र च सर्वत्र स्थावरविवादे से-त्वादिविवादे च सामन्तादयो निर्णायकाः तथा चकात्यायनः “तेषामभावे सामन्ता मौलवृद्धोद्धृतादयः ।स्थावरे षट्प्रकारेऽपि कार्य्या नात्र विचारणा । क्षेत्रवास्तुतडागेषु आरामवनसेतुषु । समेतभावात् सा-मन्तैः कुर्य्यादत्र विनिर्णयम् । ग्रामसीमासु च तथातद्वन्नगरसेशयोः” । तेषां साक्षिणाम् । याज्ञवल्क्यो-ऽपि “आरामायतनग्रामनिपानीद्यानवेश्मसु । एषएव विधिर्ज्ञेयो वर्षाम्बुप्रवहादिषु” । आयतनन्निवेश-नन्निपानं पानीयस्थानं वर्षाम्बुप्रवहो वृष्ट्युद्भूत जल-प्रवाहः । पुनः कात्यायनोऽषि “क्षेत्रकूपतडागनां केदा-रारामयोरपि । गृहप्रसदावसथनृपदेवगृह्णेषु च” ।केदारः क्षुद्रसेतुयुक्तः क्षेत्रविशेषः । गोवलीवर्दन्यायेनभिन्नोक्तिः प्रसदः प्रासादः । वृहस्पतिरपि “सर्वत्र स्थाव-रे वादे विधिरेष प्रकीर्त्तितुः” । राज्ञा ग्रामीणानां वादि-प्रतिवादिनोश्च समक्षं सामन्तादयः प्रष्टव्याः तैर्यदुक्तंतत्पत्रे लेखनीयमित्याह मनुः “ग्रामीयककुलानान्तुसमक्षं सीम्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानि तयो-श्चैव विवादिनोः । ते पृष्टास्तु यथा ब्रूयुः समस्ताःसीम्नि निर्णयम् । निवघ्नीयात्तथा सीमां सर्वास्तांश्चैवनामतः” । साक्ष्यभिप्रायेण सीमलिङ्गानीत्युक्तम् ।सीमासाक्षिणस्तु सीमां ब्रूयुः । तथा च वृहस्पतिः“शपथैः शापिताः स्वैः स्वैर्ब्रूयुः सीमाविनिर्ण-यम् । दर्शयेयुश्च लिङ्गानि तत्प्रमाणमिति स्थितिः” ।स्वैः स्वैः । सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः”इत्यादिनोक्तव्यवस्थानतिक्रमेणेत्यर्थः । यदा तु सी-मालिङ्गसाक्षिणः सीमाचिह्नानि दर्शयितुन्न शक्नु-वन्ति केवलं सीमामात्रं जानन्ति तदा ते कथं ब्रूयु-रित्याकाङ्क्षायामाह मनुः “शिरोभिस्ते गृहीत्वोर्वीस्रग्विणो रक्तवाससः । सुकृतैः शापिताः स्वैः स्रैर्नये-युस्ते समञ्जसम्” इति । उर्वीं मृदम् । सीमाक्रम-माणा इति शेषः । नयेयुरिदं द्वयोर्निरासार्थं बहुवचन-न्नत्वेकस्य, नारदेन “एकश्चेदुन्नयेत् सीमां सोपवासःसमुन्नयेत् । रक्तमाल्याम्बरधरो भूमिमादाय मूर्द्धनि”इति एकस्याभ्यनुज्ञानात् । वृहस्यतिरपि “ज्ञातृचिह्नै-र्विना साधुरेकोऽप्युभयसम्मतः । रक्तमाल्याम्बरधरोमृदमादाय मूर्द्ध्वनि । सत्यव्रतः सोपवासः सीमां तां दर्श-येन्नरः” । ज्ञातृचिह्नैर्विना सीमायाः ज्ञातॄणां लिङ्गा-नाञ्चासत्त्वे । ननु कथमेकस्य सीमानिर्णायकत्वम् “नैकःसमुन्नयेत् सीमान्नरः प्रत्ययवानपि । गुरुत्वादस्य कार्य्यस्यक्रियैषा बहुषु स्थिता” इत्येकस्य नारदेन निषेधा-दिति चेन्मैवम् स उभयानुमतधमेविद्व्यतिरिक्तविषयइति न काप्यनुपपत्तिः । अयञ्च निर्णयः सीमाक्रमण-दिनादारभ्य पक्षत्रयपर्य्यन्तं साक्षिसामन्तादीनान्दैचिक-राजिकोपद्रवाभावे अवसेयः न तु सीमाक्रमणाव्यवाह-तोत्तरमेव । तथा च कात्यायनः “सीमाचङ्क्रमणे क्रोशेपादस्पर्शे तथैव च । त्रिपक्षपक्षसप्ताहं दैवराजिक-मिष्यते” । यथासङ्ख्यमिति शेषः । यदा तु साक्ष्या-दीनां पक्षत्रयाभ्यन्तरे दैविकराजिकोपद्रवः अन्यथा वामिथ्यावादित्वनिश्चयस्तदा ते पणशतद्वयं दण्डं प्रत्येकंदाप्याः । तथा च मनुः “यथोक्तेन नयन्तस्ते पूयन्तेसत्यसाक्षिणः । विपरीतन्नयन्तस्तु दाप्याः स्युर्द्विशतंदमम्” । यथोक्तेन शिरोमिस्ते गृहीत्वोर्वीमित्यादि-नोक्तप्रकारेण नयन्तो निर्णयं कुर्वन्तः यथाभूतेनार्थे-नेति शेषः । द्विशतं पणशतद्वयम् प्रत्येकम् दाप्याइत्यर्थः । सामन्तानां मिथ्यावादित्वे राज्ञा ते मध्यमसा-हसाख्येन दण्डेन दण्डनीयाः । तथा चाह याज्ञ-वल्क्यः “अनृते तु पृथक् दण्ड्याराज्ञा मध्यमसाह-सम्” । सामन्ता यद्यनृतं मिथ्याभूतं सीमानिर्णयं कुर्य्युतदा मध्यमसाहसं कार्षापणानां चत्वारिंशदधि-कानि पञ्च शतानि दण्डनीयाः । नारदोऽपि “अथचेदनृतं ब्रूयुः सामन्ताः सीम्रे निर्णये । सर्वे पृथक्पृथक् दण्ड्या राज्ञा मध्यमसाहसम्” । सामन्तव्यति-रिक्तानां तत्संसक्तादीनां मिथ्यावादित्वे पूर्वसाहसाख्येनदण्डेन प्रत्येकं ते दण्डनीयाः । तथा च नारदः“शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकर्मणि । प्रत्येकन्तुजघन्यास्ते विनेयाः पूर्वसाहसम्” इति । मौलादी-नामनृतवादित्वे तमेव दण्डं स एवाह “मौलवृद्धा-दयश्चान्ये दण्डनीयाः पृथक् पृथक् । विनेयाः प्रथ-मेनैव साहसेनानृते स्थिताः” इति । आदिग्रहणेनगोपशाकुनकादिवनगोचराणां ग्रहणम् । दण्डनीयाःमिथ्यावादित्वेन दण्डयितुमर्हाः मैलवृद्धादयः पृथक्पृथक् प्रथमेन साहसेन विनेया दण्ड्या इत्यर्थः ।यद्यपि सामन्तादीनां साक्ष्यपेक्षया दण्डाल्पत्वमुक्तंमथापि तेषां वाचनिकं दण्डाधिक्यमिति न कोऽपिदोषः । यद्यपि शाकुनिकादयो बहुधा पापरतत्वात् लिङ्गप्रदर्शनोपयोगेनान्यथा सिद्धा न साक्षात् सीमानिर्णयेउपयुज्यन्ते तथापि वृक्षादिलिङ्गप्रदर्शन एव मिथ्या-भाषित्वसम्भवात्तदभिप्रायेणैव दण्डविधानम् । लोभा-दिना भेदेनोक्तौ अनुक्तौ च साक्ष्यादीनां दण्डमाहकात्यायनः “बहूनान्तु गृहीतानां न सर्वे निर्णयंयदि । कुर्युर्भयाद् वा लोभाद् वा दाप्यास्तूत्तमसाह-सम्” । एवमज्ञानादिना अनृतवचने साक्षादीन् द-ण्डयित्वा पुनः सीमाविचारः प्रवर्त्तयितव्यः तथा चस एवाह “अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचा-रयेत् । कीर्त्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाह-सम्” । साक्ष्यादीनां सर्वेषाम् अज्ञानोक्तौ भेदेनोक्तौ चपुनर्विचारणं लेख्यप्रमाणेन कर्त्तव्यम् । अतएव शङ्ख-लिखितावपि “सामन्तविरोधे लेख्यप्रत्ययः” इति । यदापुनः सामन्तप्रभृतयो ज्ञातारश्चिह्नानि च न सन्ति तदाराजा स्वेच्छया निर्णयं कुर्य्यात् तथा च याज्ञवल्क्यः“अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्त्तिता” । ज्ञा-तॄणां सामन्तादीनां लिङ्गादीनाञ्च वृक्षादीनामभावे रा-जैव स्वातन्त्र्येण सीमानं प्रवर्त्तयेत् । नारदोऽपि“यदा च न स्युर्ज्ञातारः सीमाया न च लक्षणम् । तदाराजा द्वयोः सीमामुन्नयेदिष्टतः स्वयम्” । इष्टतः इच्छयासार्वविभक्तिकस्तसिः । ग्रामद्वयमध्यवर्त्तिनीं विवादा-स्पदीभूताम्भुवं समं प्रविभज्यास्येयम्भूरित्युभयोःसमर्प्य तन्मध्ये सीमालिङ्गानि कुर्य्यात् । यदा तस्यांभूमावुपकारातिशयो यत्र दृश्यते तदा तत्रैव सा सकलाभूर्योजनीया न तूभयत्र । तथा च मनुः “सीमाया-मविषह्याया स्वयं राजैव धर्मवित् । प्रदिशेद्धूमिमेतेषा-मुपकारादिति स्थितिः” इति । अविषह्यायां ज्ञातृचिह्न-रहितायाम् । प्रदिशेत् प्रवेशयेदित्यर्थः । अयञ्च निर्णयोराज्ञा निर्णयान्तरवदव्यवहितोत्तरमेव न कर्त्तव्यः किन्तुसीमालिङ्गानि यदा आवरकाद्यभावात् स्थूटं दृश्यन्तेतदा कर्त्तव्यः । तथा च मनुः “सीमां प्रति समुत्पन्नेविवादे ग्रामयोर्द्वयोः । ज्यैष्ठे मासि नयेत् सीमां सुप्र-काशेषु सेतुषु । द्वयोर्ग्रामाधिपयोर्विवादे सीमां प्रति-समुत्पन्ने ज्यैष्ठे मासीत्युपलक्षणं मासान्तरेऽपि सेतुवृतिषु सीमालिङ्गेषु व्यक्तेषु विवादाध्यासितां सीमा-न्निर्णयेदित्यर्थः । ग्रामग्रहणं नगरादेरुपलक्षणार्थम् ।अतएव कात्यायनः “सामन्ताश्चेत्तु सामन्तैः कुर्य्यात्क्षेत्रादिनिर्णयम् । ग्रमसीमादिषु तथा तद्वन्नगरदेशयोः”इति । यदा पुनः ग्रामादीनां सीमात्वेन परिकल्पितानदी कदाचित् ग्रामान्तरं भित्त्वा प्रवहन्ती दक्षिणभागेस्थितां पूर्वं काञ्चिद् भूमिं वामभागनिविष्टां करोतितथा तत्रैकग्रामसम्बन्धिनी भूरन्यत्र राज्ञा योज्यते तत्रनिर्णयोपायमाह वृहस्पतिः “अन्यग्रामात् समाहृत्यदत्ताऽन्यस्य यदा मही । महानद्यथ राज्ञा च कथ-न्तत्र विचारणा । नद्योत्सृष्टा राजदत्ता यस्य तस्यैवसा मही । अन्यथा न भवेल्लाभो नराणां राजदैविकः ।क्षयोदयौ जीवनञ्च दैवराजवशान्नृणाम् । तस्मात् सर्वेषुकार्य्येषु तत्कृतन्न विचालयेत्” । न च नदीकृतस्य दैव-कृतत्वाभावः शङ्कनीयः दैवशब्दस्य भाग्यवाचित्वान्नदी-कृतमपि दैवकृतं भवत्येव । तथा चाह स एव “ग्रामयोरुभयोर्यत्र मर्य्यादा कल्पिता नदी । कुरुते दानहरणंभाग्याभाग्यवशान्नृणाम् । एकत्र कूलपातन्तु भूमेरन्यत्रसंस्थितिम् । नदी तीरे प्रकुरुते तस्य तान्न विचालयेत्” ।तस्य नदीवशात् प्राप्तभूमिकस्य तां प्राप्तां भूमिन्न विचा-लयेत् नान्यया कुर्य्यात् पूर्वस्वामी नापच्छिन्द्यादित्यर्थः ।एतदनुप्तशस्यतीरविषयम् । उप्तशस्यविपये पुनः सएवाह “क्षेत्रं सशस्यमुल्लङ्घ्य भूमिश्छिन्ना यदा भवेत् ।नदीस्रोतःप्रवाहेण पूर्वस्वामी लभेत ताम्” । तांसशस्यां भूमिं पूर्वस्वामी यावदुत्पन्नस्य शस्यफलप्राप्ति-स्तावल्लभेतेत्यर्थः । फलप्राप्तेरूर्द्ध्वं पुनः पूर्वचनविषयसमानता । राजदत्तविषये क्वचित् प्रतिप्रसवमाह सएव “या राज्ञा क्रोधलोभेन छलन्यायेन वा हृता ।वदत्ताऽन्यस्य दुष्टेन न सा सिद्धिमवाप्नुयात्” । स्वत्व-हेतुप्रतिग्रहादिलब्धक्षेत्रविषयथेतत् । स्वत्वहेतुप्रति-ग्रहादिप्रमाणाभावे पुनः स एवाह “प्रमाणरहितांभूमिं भुञ्जानो यस्य या हृता । गुणाधिकाय वै दत्तातस्य तान्न विचालयेत् । प्रमाणरहितां स्वत्वहेतुप्रति-ग्रहादिप्रमाणरहिताम् । गृहादिविषयकं निर्णयमाहस एव “निवेशकालादारभ्य गृहचर्य्यापणादिकम् ।येन यावद्यथा भुक्तं तस्य तन्न विचालयेत” । येनस्वामिना यावत् प्रचारभूम्यादियुक्तं तथा येन पूर्वादि-दिगभिमुखद्वारादियुक्तत्वादिरूपेणोपभुक्तं तत्तस्य स्वा-मिनः सकाशान्न बिचालयेत् नान्यथा कुर्य्यादित्यर्थःअत्र नियेशकालादारभ्येत्यभिघानान्मध्ये कृताया व्यव-स्थाया निवर्त्त्यत्वं दर्शितम् । निवेशकालादारभ्य स्थि-तानि गवाक्षादिकानि प्रातिवेशिकाद्यनिष्टकारीण्यपिन निवर्त्त्यन्ते इत्युक्तं तेनैव “वातायनं प्रणालीं चतथा निर्व्यूहवेदिकाम् । चतुःशालस्यन्दनिकां प्राङ्नि-विष्टां न चालयेत्” । वातायनं गवाक्षः । प्रणालीपाषाणादिनिर्मित जलनिर्गमोपायः । निर्य्यूहो द्वार-निर्गतकाष्ठविशेष इति कृत्यकल्पतरौ । निर्य्यूहो गृह-कोण इति स्मृतिचन्द्रिकायाम् । वेदिका रथ्यादिप्रदेशसंस्कृतोत्तरा भूमिः । चतसृणां शालानां समाहारःचतुशालम् । तस्मात् स्यन्दनिका वृष्टिजलनिपातः ।कात्यायनोऽपि “मेखलाभ्रमनिष्काशगवाक्षान्नोपरो-धयेत् । प्रणालीं गृहवास्तुञ्च पीडयन् दण्डभाग्भवेत्” ।मेखला कुडवमूलबन्धः । भ्रमोजलनिर्गमः । निष्काशःहर्म्यादिभित्तिषु निर्गतं काष्ठादिनिर्मितमस्पृष्टभूमिक-मुपवेशनस्थानम् । नोपरोधयेत् न निरुन्ध्यात् । गृह-वास्तुः वासभूमिः । पूर्वमविद्यमानाः परानिष्टकारिणएते न कर्त्तव्या इत्यप्याह स एव “निवेशनभयादूर्द्ध्व-न्नैते योज्याः कदाचन । दृष्टिपातं प्रणालीञ्च न कुर्य्यात्परवेश्मसु” । दृष्टिपातो गवाक्षः । परवेश्मसु पर-वेश्मामिमुख्येन । परकुड्यनिकटे पुरीषोत्सर्गादिकमपित कर्त्तव्यम् तथा च वृहस्पतिः “वर्चःस्थानं वह्निचयङ्गर्त्तोच्छष्टाम्बुसेचनम् । अत्यारात् परकुड्यस्यन कर्त्तव्यं कथञ्चन” । वर्चःस्थानम् पुरीषोत्सर्ग-स्यानम् । अत्यारादतिसर्गीपे अरत्निद्वयसम्मितप्रदेशइत्यर्थः । तथा च कात्यायनः “विण्मूत्रोदकसेकञ्चवह्निश्वभ्रनिवेशनम् । अरत्निद्वयमुतसृज्य परकुड्यान्नि-येशयेत्” । संसरणशब्दार्थनिर्वचनपुरःसरन्तस्यानिरो-द्धव्यत्वमाह वृहस्पतिः “यान्त्यायान्ति जना येन पश-वश्चानिवारिताः । तदुच्यतं संसरणन्नरोद्धव्यन्तु केनचित्” ।तथा च सम्यगनिवारितं सरन्त्यस्मिन्निति संसरणनिर्व-चनमित्यर्थः । चतुष्पथादयोऽपि न निरोद्धव्याः तथाच नारदः “अवस्करस्थलश्वभ्रभ्रभ्रमस्यन्दनिकादिभिः ।चतुष्पथसुरस्थानराजमार्गान्न रोधयेत्” । अवस्करःपुरीषम् । गृहादिशोघनार्थं पांशुसमूह इति हरि-हरादयः । स्थलं येदिका श्वभ्रङ्गर्त्तः । भ्रमो जलनिर्गममार्गः । स्यन्दनिका पदलप्रान्तः । अन्यदपि आदि-शब्देन ताद्दशं ग्राह्यम् । रथ्यामार्गो राजमार्गो नतु चतुष्पथ इति कल्पतरुः । न च चतुष्पथराजमार्ग-योरभेद इति शङ्कनीयं तयोर्भेदात् । तथा च कात्या-यनः “सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः ।अनिषिद्धा, यथाकालं राजमार्गः स उच्यते” । अनि-षिद्धा इत्यस्य पूर्वेणान्वयः । यत्र राजकीयैरकालेगमनं प्रतिषिध्यते स राजमाघं इत्यर्थः । क्षेत्रस्यससीपे मध्ये वा यस्य सर्वदा मार्गोऽस्ति तत्र निरोधोन कर्त्तव्यः । तथा च शङ्खलिखितौ “मार्गक्षेत्रेपथि विसर्गो राजमार्गे रथस्य परिवर्त्तनमिति” पथिवि-सर्गः पथोविसर्गः । राजमार्गे यावता प्रदेशेन रथैःपरिवर्त्तते तावान् प्रदेशस्त्यक्तव्य इत्यर्थः । संसरणा-नामवरोधकारिणान्तु दण्डो माषैको दाप्यः यथाहवृहस्पतिः “यस्तत्र सङ्करं श्वभ्रं वृक्षारोपणमेव च ।कामात् पुरीषं कुर्य्याच्च तस्य दण्डस्तु माषकः” । सङ्क-रोऽत्र शकटादिसङ्कीर्णता वृक्षापादानं लतादीनामप्युप-लक्षकम् । माषोऽत्र ताम्रिकः, दण्डस्य अपराधानु-सारेण कल्पयितुमुचितत्वात् । ये तु राजमार्गे पुरी-षोत्सर्गादिकं कुर्वते तेषामधिको दण्डः तथा चमनुः “समुत्सृजेद्राजमर्गे यस्त्वमेध्यमनापदि । स द्वौकार्षापणौ दद्यादमेध्यं चाशु शोधयेत्” । आपद्गतादिषुतु दण्डस्तेनैवोक्तः “आपद्गतस्तथा वृद्धो गर्भिणी बालएव च । परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः” ।परिभाषणं क्रूरभाषणम् । तडागादौ ततोऽप्यधिकोदण्डः । तथा च कात्यायनः “तडागोद्यानतीर्थानियोऽमेध्येन विनाशयेत् । अमेध्यं शोधयित्वा तु दण्ड-येत् पूर्वसाहसम्” । ये पुनर्मलिनवस्त्रप्रक्षालनादिना-तीर्थानि दूषयन्ति तस्याप्ययमेव दण्ड इत्याह स एव“दूषयेत् सिद्धतीर्थानि स्थापितानि महात्मभिः । ण्यानि पावनीयानि प्राप्नुयात् पूर्वसाहसम्” । मर्य्यादाप्रभेदनादौ दण्डमाह याज्ञवल्क्यः “मर्य्यादायाः प्रभेदेतु सीमातिक्रमणे तथा । क्षेत्रस्य हरणे दण्डाः अधमोत्तममध्यमाः” । अनेकक्षेत्रव्यवच्छेदिका साधारणीभूर्मर्य्यादा सीमा तस्याः प्रकर्षेण भेदन सामातिक्रमणेसीमामतिलङ्घ्य कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणेयथाक्रमेणाधमोत्तममध्यमसाहसटण्डा वेदितव्याः । यत्तु विष्णुवचनम् “सीमामेत्तारसुत्तमसाहसं टण्डयित्वापुनः सीमां कारयेदिति” । तत्र हि सीमामतिलङ्घ्यकर्षतः पुनः सीमाकरणं पुनस्तत्र कर्षणस्याकरणमित्येवं व्याख्येयम् । तेन न पूर्ववचनविरोधः क्षेत्रग्रहणंगृहाद्युपलक्षणार्थम् । अज्ञानात् क्षेत्रादिहरणेऽधमएव यथाह मनुः “गृहं तडागमारामं क्षेत्रं वाभीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतोदमः” । वृद्धमनुः “स्थापितां चैव मर्य्यादामुभयो र्ग्रा-मयोस्तथा । अतिक्रामन्ति ये पापास्ते दण्ड्या द्विशतंदसम्” । अपह्रियमाणक्षेत्रादिभूयस्त्वे उत्तमोऽपिदण्डः प्रयोक्तव्यः “बधः सर्वस्वहरणं पुरान्निर्वासना-ङ्कने । तदङच्छेद इत्युक्तो दण्ड उत्तमसाहसम्” इतिस्मरणात् । यत् तु शङ्खलिखिताभ्याम् सीमातिक्रमणेदण्डाधिक्यमुक्तम् “सीमाव्यतिक्रमे त्वष्टसहस्रमिति” तत्सम्पूर्णसीमातिक्रमविषयम् । सीमासन्धिषूतपन्नवृक्षा-दिफलं नैवैकेन ग्राह्यं यथाह कात्यायनः “सीमाभध्ये तुजातानां वृक्षाणां क्षेत्रयोर्द्वयोः । फलं पुष्पञ्च सामान्यंक्षेत्रस्वामिषु निदिशेत् । सामान्यं साधारणं क्षेत्रयोःस्वामिषु क्षेत्रस्वामिषु । तथा चान्यतरेणैव तद्वृक्षीय-फलादिग्रहणे तदनुरूपेण दण्ड इति ध्वनितम् । यदापुनरन्यक्षेत्रे वृक्षादिरुत्पन्नोऽन्यक्षेत्रे शाखाः प्र-सृताः तत्र कः स्वामीत्याकाङ्क्षायां स एवाह “अन्यक्षेत्रे तु जातातां शाखा यत्रान्यसंस्थिताः । स्वामिनंतं विजानीयाद् यस्य क्षेत्रे तु संश्रिताः । संश्रिताःप्ररूढाः । परक्षेत्रे प्रार्थनया क्रियमाणं सेतुकूपा-दिकं क्षेत्रस्वामिना न निषेद्धव्यं तथाह याज्ञवल्क्यः“न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः । पर-भूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः” । अल्पबाधःअल्पपीडाकरः कल्याणकारको वहूपकारकः । स्वल्पक्षेत्रः स्वल्पक्षेत्रवर्त्तो आभ्यां विशेषणाभ्यां यः सेतुःक्षेत्रमध्यवर्त्तितया वहुपीडाकरस्तदा दिक्षु सन्नि-हितक्षैत्रवर्त्तितया अल्पोपकारको वा तदा निषेद्धव्यइति दर्शतम् । तत्र नारदोऽपि “परक्षेत्रस्य मध्ये तुसेतुर्न प्रतिषिध्यते । महागुणोऽल्पदोधश्चेद् वृद्धिरिष्टा क्षये सति” क्षये अल्पक्षेत्रक्षये सत्यपि वृद्धिर्यतइष्टा अतो महागुणः स्वक्षेत्रेऽपि उपकारकरोऽल्प-दाषश्चेत्तदा न प्रतिषेद्धव्य इत्यथं । अन्यक्षेत्रे सेतुकूपा-दिपवर्त्तनं तत्स्वाम्याद्य ज्ञां लब्धा कर्त्तव्यमित्याहयाज्ञवल्क्यः स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रव-र्त्तवेत् । उत्पन्ने स्वामिनो भोगस्तदभावे मसीपदः” ।यस्तु क्षत्रस्वामिनं तद्वंश्यं तदभावे राजानं वा प्रार्थ्यअर्थादानेन वा तत्क्षेत्रे सेत्वादिकं करोति स सेत्वाद्युत्-पन्नफलोपभोगं दृष्टमदृष्टेवा न लभते किन्तु तत्स्वाम्येवतल्लभते तदभावे राजा । अतस्तदाज्ञां गृहीत्वा सेत्वा-दिकं कर्त्तव्यमित्यर्थः । जीर्णानाम् अन्यदीयसेत्वादीनाम्उद्धारोऽपि तत्स्वाम्याद्यनुज्ञां गृहीत्वा कार्य्य इत्याहनारदः “पूर्वप्रवृत्तनुत्पन्नमपृष्ट्वा स्वामिनन्तु यः । सेतुंप्रवर्त्तयेद् यस्तु न स तत्फलभाग्भवेत् । मृते तु स्वा-मिनि पुनस्तद्वंश्ये वापि मानवे । राजानमामन्त्र्य ततःकुर्य्यात् सेतुप्रवर्त्तनम् । अतोऽन्यथा क्लेशमायान्मृग-व्याधनिदर्शनात्” । मृगव्याधदृष्टान्तः स्फुटीकृतस्तैनैव, “इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति” । तस्य मृग-व्याधस्य । कात्यायनोऽपि “अस्वाम्यनुमतेनैव संस्कारंकुरुते तु यः । गृहोद्यानतडागानां संस्कर्त्ता लभतेन तु । देयं स्वामिनि चायाते तन्निवेद्य नृपे यदि ।अथावेद्य प्रयुक्तस्तु तद्गतं लभते व्ययम्” । नृपे अनावेद्यकृतं यत्तडागादिसंस्कारार्थं व्ययन्तत् स्यामिनि ग्रामा-न्तरादागते तेन देयमपि न प्राप्नोति । नृपे निवेद्य-संस्करणे तदर्थं व्ययं प्राप्नोति । फलन्तु स्वाम्यनुमत्य-लाभे न प्राप्नोतीत्यर्थः । यः परक्षेत्रमहमिदं कृषा-मीत्यूरीकृत्य पश्चाद् न कृषति नाप्यन्येन कर्षयति तंप्रत्याह याज्ञवल्क्यः “फालाहतमपि क्षेत्रं यो नकुर्य्यान्न कारयेत् । स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कार-येत्” । यद्यपि फालाहतं किञ्चिद् हलेन विदारितंसम्यग्वोजावापयोग्यं न भवति तथाप्यकृष्टक्षेत्रस्य फलंयावत् तत्रोत्पत्तियोग्यं स मन्तादिकल्पितं तावदसौस्वामिने दापनीयः तच्च पूर्वकर्षकादाच्छिद्याऽपरेण कार-येत् । व्यासोऽपि “क्षेत्रं गृहीत्वा यः कश्चिन्न कुर्य्यान्नच कारयेत् । स्वामिने स शदं दाप्यो राज्ञे दण्डञ्च तत्-समम्” । शदं क्षेत्रफलम् । तत्समं तदनुरूपमि-त्यर्थः । स्वामिग्राह्यं क्षेत्रफलमपि कियदित्याका-ङ्क्षायां स एवाह “चिरावसन्ने दशमं कृष्यमाणे तथा-ष्टकम् । सुसंस्कृतेऽपि षष्ठं स्यात् परिकल्प्यं यथा-स्थिति” इति । चिरावसन्ने चिरकालमकृष्टे क्षेत्रैऽहमिदं कृषामीत्यूरीकृत्योपेक्षिते सामन्तैर्य्यथास्थितिक्षेत्रस्थित्यनुसारेणैतावदत्रोत्पत्तु योग्यमिति परिकल्प्य क्षेत्रस्वामिने तस्य दशमभागं, कृष्यमाणे अचि-रावन्ने स्वीकृत्यानुपेक्षिते तु अष्टमं भ गं सुमंस्कते तूपे-क्षित षष्ठं भागं दाप्य इत्यर्थः । यस्तु क्षेत्रस्वामिनःसामर्थ्यवैकल्यादिनाऽर्द्धखिलावस्थां प्राप्ते क्षेत्रेस्वाम्यनिवारतः सन् स्वयमेव तत्कर्षणादिकं करोतितदा स क्षेत्रस्वामिने फलं न दापनीयः । किन्तु तस्यफलं स्वयमेव गृह्णीयादित्याह नारदः “अशक्तप्रेत-नष्टेषु क्षेत्रिकेष्वनिवारितः । क्षेत्रं चेद्विकृषेत् कश्चि-दश्नुवीत स तत्फलम्” । प्रेता मृताः नष्टाः कुत्रचिद्-गता इति चिरमपरिचिताः । क्षेत्रिकेषु क्षेत्रस्वामिषुतेन क्षत्रस्वामिना तत्पुत्रादिना वा समागतेनैव विधायकर्षादिखिलभञ्जनार्थं व्ययं दत्त्वैव स्वीयं क्षेत्रं ग्राह्यमितिस एवाह “विकृष्यमाणे क्षेत्रे तु क्षेत्रिकः पुनराव्रजेत्खिलोपचारं तत् सर्वं दत्त्वा क्षेत्रमवाप्नुयात्” । अर्द्धखिलाद्यवस्था कदा क्षेत्रस्य भवतीत्याकङ्क्षायां स एवाह“संवत्सरेणार्द्धखिलमीहितं वत्सरैस्त्रिभिः । पञ्चवर्षावसन्नान्तु क्षेत्रं स्यादटवीसमम्” । कर्षणरहितं संवरे-णाऽर्द्धखिलं भवति यत्नसाध्यं भवति वर्षत्रये तु ईहितंखिलं महायत्नसाध्यं भवति । वर्षपञ्चके न ईहितंक्षेत्रम् अटवीतुल्यं स्यात् अतिदुष्कर्षं भवदित्यर्थः ।खिलभञ्चनार्थं ष्ययदानासामर्थ्ये क्षेत्रस्वामिनःक्षेत्रफलस्याष्टमो भागः कर्षकेण वर्षाष्टकं स्वामिने देयःअवशिष्टं सर्वं स्वयमेव ग्राह्यम् । क्षेत्रं च वर्षाष्टका-नन्तरन्तत्स्वामिने देयम् । तथा च कात्यायनः “अश-क्तितो न दद्याच्च खिलाथें यः कृतो व्ययः । तदष्टभाग-हीनन्तु कर्षकः फलमाप्नुयात्” इति । “वर्षाण्यष्टौ सभोक्ता स्यात्परतः स्वामिने तु तत् इति” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
