| YouTube Channel

सीमन्तोन्नयनं (sImantonnayanaM)

 
शब्दकल्पद्रुमः
Sanskrit
सीमन्तोन्नयनं,
क्ली,
(सीमन्तस्य उन्नयनं उत्तो-लनं यत्र ।) संस्कारविशेषः इति जटाधरः
तद्विधानञ्च यथा, --अथ सीमन्तोन्नयनम् ।“यदि पुंसवनं कृतं तदा तस्मिन्नेव दिनेप्रायश्चित्तात्मकमहाव्याहृतिहोमं कृत्वा पुंस-वनञ्च कृत्वा सीमन्तोन्नयनं कार्य्यम् तथा चनारदः ।‘येषान्तु कृताः पित्रा संस्कारविधयः क्रमात् ।कर्त्तव्या भ्रातृभिस्तेषां पैतृकादेव तद्धनात्
अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः ।अवश्यकार्य्याः संस्कारा भ्रातृभिः पूर्व्वसंस्कृतैः
क्रमात् भ्रातॄणां संस्काराणाञ्च पौर्व्वापर्य्यक्रमात्भ्रातृक्रमस्तु सोदरविषय एव विवाहे तथादर्शनात् छन्दोगपरिशिष्टम् ।देवतानां विपर्य्यासे जुहोतिषु कथं भवेत् ।सर्व्वं प्रायश्चित्तं कृत्वा क्रमेण जुहुयात् पुनः
संस्कारा अतिपत्येरन् स्वकालाच्चेत् कथञ्चन ।हुत्वैतदेव कुर्व्वीत ये तूपनयनादधः
’एतदित्यनेन सर्व्वं प्रायश्चित्तमनुकृष्टं तच्च प्रागेवविवृतम् उभयकरणे तन्त्रेणैव मातृका-पूजादि ।‘गणशः क्रियमाणे तु मातृभ्यः पूजनं सकृत् ।सकृदेव भवेत् श्राद्धमादौ पृथगादिषु
’इति छन्दोगपरिशिष्टात्
*
गोभिलः अथ सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थेमासि षष्ठे ऽष्टमे वा अथ पुंसवनानन्तरम् ।सीमन्तः केशरचनाविशेषः वाशब्देक्यान्न चतु-र्थादिमासानां तुल्यवद्विकल्पः किन्तु पूर्व्वपूर्व्व-कालः प्रशस्तः समर्थस्य क्षेपायोगात् इतिन्यायात् ततश्च नवममासादौ प्रायश्चित्तं कृत्वैवकर्त्तव्यम् प्रथमगर्भ इत्युपादानात् यदिकथञ्चिदकृत एतस्मिन् संस्कारे गभनाशे पुन-र्गर्भोत्पत्तौ अयं कालनियमो किन्तु गर्भस्पन्दनेसीमन्तोन्नयणं यावन्न वालप्रसबः इति शङ्ख-लिखितोक्तकालो ग्राह्यः वृहद्राजमार्त्तण्डे ।‘या नार्य्यकृतसीमन्ता प्रसूते कथञ्चन ।अङ्के विधाय तं बालं पुनः संस्कारमर्हति
*
षष्ठे मासेऽष्टमेऽह्नीज्यकुजदिनकृतां नन्दभद्रेतिथौ चेमैत्रेमूले मृगाङ्के करपितृपवनेपौष्णविष्णुत्रियुग्मपुष्याश्वादित्यरौद्रे युवतिहरिझसे वृश्चिके वापिलग्ने ।चन्द्रे तारानुकूले शुभमपि नियतं स्याच्चसीमन्तकर्म्म
मृगाजरहिते लग्ने नवांशे पुंग्रहस्य ।केचिद्वदन्ति सीमन्तं तथा रिक्तेतरे तिथौ
गोभिलः प्रातः सशिरस्काप्लुतोदगग्रेषु दर्भेषुपश्चादग्नेः प्राच्युपविशति उक्तार्थमेतत् पश्चात्पतिरवस्थाय युगमन्तमौडम्बरं शलाटुग्रथ्नमाव-ध्नाति अयमूर्ज्जावतो वृक्ष इति अग्नेः पश्चात्पतिः स्थित्वा युगानि फलानि यस्मिन् शला-टुग्रथ्ने नीलस्तवके युगमान् तं मतुवन्तम् ।तथा भट्टनारायणधृतं छन्दोगपरिशिष्टम् ।‘शलाटु नीलमित्युक्तं ग्रथ्नस्तवक उच्यते ।कपुष्णिकाभितः केशा मूर्द्ध्नि पश्चात् कपुच्छलःएतद्वचनं नारायणोपाध्यायेन धृतम् उडु-म्बरभवमौडम्बरम् अयमूर्ज्जावतो वृक्ष इतिमन्त्रेण भार्य्यायाः कण्ठे बध्नाति
*
अथसीमन्तमूर्द्धं नयति भूरिति दर्भपिञ्जलीभिरेवप्रथमं भुव इति द्वितीयं स्वरिति तृतीयम् ।अथानन्तरं यत्र सिन्दूरं स्त्री ददाति तं सीमन्तंललाटोर्द्ध्वं नयति भूरिति मन्त्रेण दर्भपिञ्जली-भिस्तिसृभिः एकवारकरणाद्यावन्त्युन्नयनानितावतीभिरेव तिसृभिरित्यर्थः प्रथमादिपदानितु व्याहृतीनां पिञ्जलीनाञ्च पृथङ्नियोगार्थम्पिञ्जली पवित्रम् तथा छन्दोगपरिशिष्टम्‘अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव ।प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ।एतदेव हि पिङ्गल्या लक्षणं समुदाहृतम्
’गोभिलः अथ वीरतरेण येनादितेरित्येतयर्च्चाबीरास्तरन्त्यनेन युद्धमिति वीरतरः शरः
तथा छन्दोगपरिशिष्टम् ।‘श्वाविच्छलाका शलली तथा वीरतरः शरः ।तिलतण्डुलसम्पाकः कृषरः सोऽभिधीयते
’ततश्च शरेण येनादितेरिति मन्त्रेण सीमन्तमूर्द्ध्वंनयति इति पूर्व्वसूत्रादनुवर्त्तते
*
अथपूर्णेन सूत्रचात्रेण वाकामहमित्येतयर्च्चा चात्रंतर्कुः तेन सूत्रपूर्णेन वाकामहमिति मन्त्रेणसीमन्तमूर्द्ध्वं नयतीति शेषः त्रिः श्वेतयाशलल्या यास्ते वाके सुमतय इति स्थानत्रितयेशुक्लेन शेजाजन्तुकण्टकेन यास्ते इति मन्त्रेणसीमन्तमूर्द्ध्वं नयतीति शेषः कृषरः स्थाली-पाक उत्तरघृतस्तमवेक्षयेत् कृषर उक्तः ।स्थालीपाकश्चरुः उपरि दत्तघृतस्तं बध्वाःप्रदर्शयेत् स्थालीपाकपदं चरुस्थाल्यां कृष-रस्य श्रपणार्थम् मनुष्यार्थत्वात् द्विःप्रक्षालनम्ततश्च यः कश्चिन्महानसे श्रपयित्वा स्थापयेत् ।किम्पश्यसीत्युक्त्वा प्रजामिति वाचयेत् किं पश्य-सीति पतिरुक्त्वा प्रजामित्यादि मन्त्रं गभिणींवाचयेत् तं सा स्वयं भुञ्जीत तमेवेक्षितंकृषरम् वीरसूर्जीवसूर्ज्जीवपत्नीति ब्राह्मण्योमङ्गल्यादिभिर्व्वाग्भिरुपासीरन् बीरान् विक्रा-न्तान् पुत्त्रान् सूत इति वीरसूस्त्वं भवेति वाक्य-शेषः प्रतिपदं स्यात् जीवतो दीर्घायुषःपुत्तान् सूत इति जीवसूः जीवतः पत्नी जीव-पत्री अविधवेत्यर्थः एवं प्रकाराभिर्व्वाग्भि-रनुनयेयुः क्रमश्च महाव्याहृतिभिर्हुत्वाऔडुम्बरफलस्तवकं कण्ठे बद्ध्वा प्रजामितिवाचयेदित्यन्तं तन्त्रं कृत्वा व्याहृतिभिर्होमादि-तन्त्रं समापयेत् ततो ब्राह्मस्य उपासीरन् ।”इति संस्कारतत्त्वम्