| YouTube Channel

सिसहिषिता-त्री (sisahiSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“षह मर्षणे”@} 2 ज्वलादिः।
‘मर्षणे सहते, यौ तु साहयेत् सहति द्वयम्।
श्यनि सह्यति शक्यार्थे--।।’ 3 इति देवः।
साहकः-हिका, साहकः-हिका, 4 सिसहिषकः-षिका, सासहकः-हिका
5 सोढा- 6 सोढ्री-सहिता-त्री, साहयिता-त्री, सिसहिषिता-त्री, सासहिता-त्री
इति समस्तान्यपि रूपाणि भौवादिकवहतिवत् 7 बोध्यानि।
8 परिषहमाणः-निषहमाणः-विषहमाणः, 9 विसहनेकृत्य, 10 साह्वान्, 11 सह्यम्, 12 पृतनाषाट्-ऋताषाट्-तुराषाट्, 13 सहनः, 14 सहमानः, 15 सहिष्णुः, 16 साहयः, 17 सर्वसहः-शत्रुंसहः, 18 सर्वंसहा, भोक्तुं 19 सहमानः, 20 21 सासहिः, 22 साहः-सहः, 23 उत्साही, 24 सहित्रम्, 25 सिसाहयिषुः, 26 षट्, 27 सहसानः, इतीमानि विशेषरूपाणि।
प्रासङ्गिक्यः
01
=>
(१८२७)
02
=>
(१-भ्वादिः-८५२। सक। सेट्। आत्म।)
03
=>
(श्लो। १९७)
04
=>
[[४। अत्र उत्तरस्वण्डस्य षत्वं क्षीरतरङ्गिणीटिप्पणकार अभिप्रैति। तत्र निदानं पश्यानः। प्रत्युत ‘स्तौतिण्योरेव--’ (८-३-६१) इति नियमात् षत्वनिषेध एव प्रामाणिकः।]]
05
=>
[पृष्ठम्१३४०+ ३२]
06
=>
[[१। तादेरार्धधातुकस्य ‘तीषसह--’ (७-२-४८) इतीड्विकल्पः। इट्पक्षे सहिता। इडभावपक्षे ‘सहिवहोरोद् अवर्णस्य’ (६-३-११२) इत्योकारः। ‘हो ढः’ (८-२-३१) इति ढत्वम्। तकारस्य धत्वम्, तस्य ष्टुत्वेन ढकारः। ‘ढो ढे लोपः’ (८-३-१३) इति पूर्वढकारस्य लोपः। ‘पर्जन्यवल्लक्षणं प्रवर्तते’ (परि। १२०) इति न्यायेन ओकारस्य ‘ढ्रलोपे--’ (६-३-१११) इति दीर्घः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
07
=>
(१५८२)
08
=>
[[२। ‘परिनिविभ्यः सेवसितसयसिवुसह--’ (८-३-७०) इति षत्वम्।]]
09
=>
[[३। ‘विसहने’ इति साक्षात्प्रभृतिषु (१-४-७४) पाठात् विपूर्वकत्वेऽपि ‘परिनि- विभ्यः--’ (८-३-७०) इति षत्वं न। विपूर्वकात् सहतेः ल्युटि साक्षात्प्रभृतिषु पाठात् कृञो योगे गतिसंज्ञायाम्, ‘समासेऽनञ्पूर्वे--’ (७-१-३७) इति क्त्वाप्रत्य- यस्य ल्यबादेशे, गणे निपातनादेव एदन्तत्वम्। विसहनेकृत्य = क्षान्त्वा इत्यर्थः।]]
10
=>
[[४। ‘दाश्वान् साह्वान् मीढ्वांश्च’ (६-१-१२) इत्यत्र निपातनात् छन्दसि, लोके सहतेः क्वसौ परस्मैपदम्, उपधादीर्घत्वम्, अद्विर्वचनत्वम्, अनिट्त्वं च। ‘साह्वान् = वलाहकः’ इति काशिका (६-१-१२)।]]
11
=>
[[५। ‘शकिसहोश्च’ (३-१-९९) इति यत्। ण्यतोऽपवादः।]]
12
=>
[[६। ‘छन्दसि सहः’ (३-२-६३) इति ण्विप्रत्ययः। णित्त्वादुपधावृद्धिः। प्रत्ययः सर्वलोपी। ‘अन्येषामपि दृश्यते’ (६-३-१३७) इति पूर्वपदस्य दीर्घः। ‘सहेः साढः सः’ (८-३-५६) इति मूर्धन्यादेशः। द्वितीयादिषु तु ‘सहेः पृतनर्ताभ्यां च’ (८-३-१०९) इति षत्वम्। एवं जलाषाट् इत्यादिषु चेति बोध्यम्।]]
13
=>
[[७। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
14
=>
[[८। सोढुं शक्रोतीत्यर्थे ‘ताच्छील्यवयोवचनशक्तिषु--’ (३-२-१२९) इति चानश्।]]
15
=>
[[९। तच्छीलादिषु कर्तृषु ‘अलंकृञ… सहचर इष्णुच्’ (३-२-१३६) इतीष्णुच्प्रत्ययः।]]
16
=>
[[१०। ण्यन्तात् कर्तरि, ‘अनुपसर्गात्… साहिभ्यश्च’ (३-१-१३८) इति शप्रत्ययः। प्रत्ययस्य शित्त्वात् ‘कर्तरि शप्’ (३-१-६८) इति शप्। साहयतीति साहयः।]]
17
=>
[[११। सर्वं सहते इति सर्वसहः। ‘संज्ञायां भृतॄवृजिधारिसहि--’ (३-२-४६) इति खच्प्रत्ययः। ‘अरुर्द्विषत्--’ (६-३-६७) इति पूर्वपदस्य मुमागमः। सर्वसहः = अतीव सूक्ष्मबुद्धिः। एवं शत्रुंसह इत्याद्यपि।]]
18
=>
[[१२। ‘पूःसर्वयोर्दारिसहोः’ (३-२-४१) इति खच्। पूर्ववत् नुम्। सर्वसहा = वसुमती। संज्ञाऽत्र।]]
19
=>
[[१३। ‘शकधृषज्ञाग्लाघटरभलभक्रमसह--’ (३-४-६५) इति सहधातौ उपपदे धातो- स्तुमुन्।]]
20
=>
[पृष्ठम्१३४१+ २८]
21
=>
[[१। ‘सहिवहिचलिपतिवदिभ्यो यङन्तेभ्यः--’ (वा। ३-२-१७१) इति किः किन् वा प्रत्ययः। प्रत्ययस्य लिड्वद्भावात् द्विर्वचनादिकम् इति केचित्। वस्तुतो यङन्तादेव विधानात् ‘सन्यङोः’ (६-१-९) इति द्विर्वचनमिति न्याय्यम्।]]
22
=>
[[२। ज्वलादित्वात् (३-१-१४०) कर्तरि णप्रत्ययः। तस्य वैकल्पिकत्वात् पक्षे पचाद्यच्।]]
23
=>
[[३। उत्पूर्वकादस्माद् ग्रह्यादि (३-१-१३४) पाठात् कर्तरि णिनिः।]]
24
=>
[[४। ‘अर्तिलूधूसूखनसह--’ (३-२-१८४) इति करणे इत्रप्रत्ययः।]]
25
=>
[[५। ण्यन्तात् सनि उप्रत्यये रूपमेवम्। उत्तरखण्डे ‘सः स्विदिस्वदिसहीनां च’ (८-३-६२) इति सत्वम्
\n\n ‘स्तौति--’ (८-३-६१) इति नियमस्य बाधकोऽयम्।]]
26
=>
[[६। ‘सहेः षष् लुक् च’ (द। उ। ९-७) इति धातोः षषादेशः, कनिन्प्रत्ययस्य लुक् च। षट् = संख्याविशेषः।]]
27
=>
[[७। औणादिके (द। उ। ५-३०) असानच्प्रत्यये रूपम्। सहसानः = क्षमावान्।]]