| YouTube Channel

सिन्धुवारः (sindhuvAraH)

 
Apte Hindi
Hindi
सिन्धुवारः
पुं*
- "सिन्धु + क, = सिन्दूवारः, दस्य धः"
एक वृक्ष का नाम
Wordnet
Sanskrit
Synonyms:
सिन्धुवारः, इन्द्रसुरसः, इन्द्राणी, इन्द्राणिका, चन्द्रसुरसः, निर्गुण्टी, निर्गुण्डी, निसिन्धुः, ननीलसिन्धुकः, श्वेतपुष्पः, श्वेतरावकः, सिन्धुरावः, सिन्धुवारकः, सिन्धुवारितः, सिन्धुकः, सुरसः, स्थिरसाधनकः, अर्थसिद्धकः
noun
एकः वृक्षः।
"सिन्धुवारस्य पत्राणि बीजाः औषध्यां प्रयुज्यन्ते।"
Synonyms:
निर्गुण्डी, शेफालिका, शेफाली, नीलिका, मलिका, सुवहा, रजनीहासा, निशिपुष्पिका, सिन्धुकः, सिन्द्रकः, सिन्द्ररावः, इन्द्रसुषिरः, इन्द्राणिका, सिन्धुवारः, इन्द्रसुरसः, निर्गुण्ठी, इन्द्राणी, पौलोमी, शक्राणी, कासनाशिनी, विसुन्धकः, सिन्धकम्, सुरसः, सिन्धुवारितः, सुरसा, सिन्धुवारकः
noun
षड् आरभ्य द्वाविंशतिः पादोन्नतः नित्यहरितक्षुपः यस्मिन् भवति तुवर्याः इव पञ्चपत्राणि एवं शाखायां लघूनि रोमाणि च।
"निर्गुण्ड्याः पत्रमूलानि तु औषधेषु उपयुज्यन्ते।"
Synonyms:
शीतसहा, सिन्धुवारकः, निर्गुण्डी, कपिका, स्थिरसाधनकः, सिन्धुकः, नीलसिन्धुकः, इन्द्रसुरसः, सिन्धुवारिका, श्वेतपुष्पः, निर्गुण्टी, चन्द्रसुरसः, सुरसः, सिन्धुरावः, नीलाशी, सिन्धुवारितः, श्वेतरावकः, निसिन्धुः, सिन्धुवारः, शेपालः, निर्गुण्डिः, सिन्दुवारः, निसिन्धुकः, नीलकः, अर्थसिद्धकः, इन्द्राणिका, इन्द्राणी, श्वेतसुरसा
noun
कुन्दजातीया श्वेतपुष्पविशिष्टा लता।
"शीतसहा वर्षाकाले विकसति।"
शब्दकल्पद्रुमः
Sanskrit
सिन्दु(न्धु)वारः,
पुं,
सिन्धुं गजमदं वारयति तिक्त-त्वात् वृ + अण् पाक्षिको धस्य दः ।) वृक्ष-विशेषः निसिन्दा इति भाषा इनछुर इतिच क्वचित् तत्पर्य्यायः सिन्दुकः इन्द्र-सुरिसः निर्गुण्डी इन्द्राणिका इत्यमरः ।२ ६८
सिन्धुकः सिन्धुवारकः इन्द्राणी८ पौलोमी शक्राणी १० कासनाशिनी ११ ।इति रत्नकोषः
श्वेतपुष्पः १२ सिन्दुवारकः२३ स्थिरसाधनकः १४ अनन्तः १५ सिद्धकः१६ अर्थसिद्धकः १७ अस्य गुणाः कटुत्वम् ।तिक्तत्वम् कफवातक्षयकुष्ठकण्डूतिशूलना-शित्वम् कायसिद्धिदत्वञ्च इति राजनिर्घण्टः
अपि ।“सिन्धुकः स्मृतिदस्तिक्तः कषायः कटुको लघुःकेश्यो नेत्रहितो हन्ति शूलशोथाममारुतान्
कृमिकुष्टारुचिश्लेष्मव्रणान् नीलापि तद्विधा ।सिन्धुवारदलं तत्तु वातश्ले ष्महरं लघु
”इति भावप्रकाशः
*
“स्यन्दं वारयति सिन्दुवारः षण् निपातनात् जिःअत उच्च सिन्दुकसिन्दुवारौ दन्त्यसादी तवर्ग-तृतीयवन्ताविति बहवः केचित्तु सिन्धुं समुद्र-मपि वारयति शोषयति तीक्ष्णरसत्वेन कफघ्न-त्वात् सिन्धुवारः सिन्धुकसिन्धु वारौ तवर्गचतुर्थ-वन्तावित्याहुः ।” इति भरतः