| YouTube Channel

सिन्दूरं (sindUraM)

 
शब्दकल्पद्रुमः
Sanskrit
सिन्दूरं,
क्ली,
(स्यन्दते इति स्यन्दू क्षरणे +“स्यन्देः सम्प्रसारणञ्च ।” उणा० ६९ ।इति ऊरन् सम्प्रसारणञ्च ।) रक्तवर्णचूर्ण-विशेषः सिँदूर इति भाषा तत्पर्य्यायः ।नागसम्भवम् इत्यमरः १०५
नागरेणुः रक्तम् सीमन्तकम् नागजम् ६नागगर्भम् शोणम् वीररजः गणेश-भूषणम् १० सन्ध्यारागम् ११ शृङ्गारकम् १२सौगाग्यम् १३ अरुणम् १४ मङ्गल्यम् १५ ।अस्य गुणाः कटुत्वम् तिक्तत्वम् उष्णत्वम् ।व्रणविरोपणत्वम् कुष्ठास्रभ्रमकण्डूतिविसर्पशम-नत्वञ्च इति राजनिर्घण्टः
*
अपि ।“सिन्दूरं रक्तरेणुञ्च नागगर्भञ्च सीसजम् ।सीसोपधातुः सिन्दूरं गुणैस्तत् सीसवन्मतम्
संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः ।सिन्दूरमुष्णं वीसर्पकुष्ठकण्डविषापहम् ।भग्नसन्धानजननं व्रणशोधनरोहणम्
*
सिन्दूरस्य शोधनमाह ।“दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः ।”इति भावप्रकाशः
*
सिन्दूरदानमन्त्रो यथा, --“सिन्दूरञ्च वंरं रम्यं भाले शोभाविवर्द्धनम् ।पूरणं भूषणानाञ्च सिन्दूरं प्रतिगृह्मताम्
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २१ अध्यायः
*
तस्य धारणात् पत्युरायुर्व्वृद्धिर्भवति यथा, --“हरिद्रां कुङ्कु मञ्चैव सिन्दूरं कज्जलं तथा ।कार्पासकञ्च ताम्बूलं माङ्गल्याभारणं शुभम्
केशसंस्कारकवरीकरकर्णविभूषणम् ।भर्त्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता
”इति काशीखण्डे अध्यायः