| YouTube Channel

सिद्धौघः (siddhaughaH)

 
शब्दकल्पद्रुमः
Sanskrit
सिद्धौघः,
पुं,
(सिद्धानामोघः ।) गुरुक्रमविशेषः ।यथा, तन्त्रे ।“अथ तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् ।ऊर्द्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः
दिव्यौघाः सिद्धिदा वत्स सिद्धौघान् शृणुयत्नतः ।वशिष्ठः कूर्म्मनाथश्च मीननाथो महेश्वरः
हरिनाथो मानवौघान् शृणु वक्ष्यामि तद्गु-रून् ।तारावती भानुमती जयाविद्या महोदरी
सुखानन्दः परानन्दः पारिजातः कुलेश्वरः ।विरूपाख्यः फेरवी कथितं तारिणीकुलम् ।आनन्दनाथशब्दान्ता गुरवः सर्व्वसिद्धिदाः ।स्त्रियोऽपि गुरुरूपाश्च अम्बान्ताः परि-कीर्त्तिताः
”इति तन्त्रसारः
अन्यच्च ।“ब्रह्मानन्दः पूर्णदेवश्चलचित्तश्चलाचलः ।कुमारः क्रोधनश्चैव तथा स्वरदीपनः
माया मायावती चैव मानवीघान् शृणु प्रिये ।वशिष्ठः कूर्म्मनाथश्च मीननाथो महेश्वरः ।हरिनाथो मानवौघानथ वक्ष्यामि सद्गुरून्
”इति शक्तिरत्नाकरतन्त्रम्
तथा ।“नारदः काश्यपः शम्भुर्भार्गवः कुलकौशिकः ।एते पञ्च महादेव सिद्धौघाः परिकीर्त्तिताः
”इति तन्त्रम्