| YouTube Channel

सिद्धेश्वरी (siddhezvarI)

 
शब्दकल्पद्रुमः
Sanskrit
सिद्धेश्वरी,
स्त्री,
(सिद्धा ईश्वरी ।) देवीविशेषः ।यथा, --“सिद्धां सिद्धेश्वरीं सिद्धविद्याधरगणैर्युताम् ।मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम्
इति मुण्डमालातन्त्रे ११ पटले महाविद्या-स्तोत्रम्
अपि ।“कृष्णेन बलभद्रेण गोपैः कंसजिघांसुभिः ।सङ्के तकं कृतं तत्र मन्त्रनिश्चयकारकम्
तदा सङ्के तकैः सा सिद्धा देवी प्रतिष्ठिता ।सिद्धिप्रदा भोगदा तेन सिद्धेश्वरी स्मृता ।सङ्केतकेश्वरीञ्चैव दृष्ट्वा सिद्धिमवाप्नुयात्
”इति वाराहे मथुरापरिक्रमप्रादुर्भावनामा-ध्यायः
वाचस्पत्यम्
Sanskrit
सिद्धेश्वरी स्त्री देवीविशेषे “सिद्धां सिद्धेश्वरीं सिद्धविद्याधरगणैर्युताम् मन्त्रसिद्धिप्रदां योनिसिद्धिटांलिङ्गशोनिताम्” मुण्डमालात० ११ पटले “कृष्णेनबलभद्रेण गोपैः कसजिघांसुभिः सङ्केतकं कृतं तत्रमन्त्रनि कारकम् तदा सङ्केतकैः सा सिद्धा देवीप्रतिष्ठित सिद्धिप्रदा भोगदा तेन सिद्धेद्वरो-स्मृता सङ्केतकेश्वरीञ्चैव दृष्ट्वा सिद्धिमवाप्नुयात्”इति वाराहपु०