| YouTube Channel

सिद्धिस्थानं (siddhisthAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
सिद्धिस्थानं,
क्ली,
(सिद्धेः स्थानम् ।) पुण्यस्थान-विशेषः यथा, --“अतः परं प्रवक्ष्यामि सिद्धिस्थानानि यानि तुयस्मिन्नाराधिता देवी क्षिप्रं भवति सिद्धिदा
तुङ्गारं शतशृङ्गञ्च त्रिकूटं पर्व्वतं तथा ।विन्ध्या गङ्गा सरिद्यत्र रेवातीरमथापि वा
पयोष्णी असुराख्या तु अथवा मण्डलेश्वरे ।शङ्करेश्वररामेशे अथवा अमरेश्वरे
वेत्रवत्यास्तटे रम्ये हरिश्चन्द्रे तथा प्रिये ।सरस्वतीतटे पुण्ये सुगन्धायतनेऽपि वा ।स्थानेष्वेषु जपं कुर्य्यात् नन्दाहे कृतमानसः ।भैरवं शूलभेदञ्च चण्डीशं त्रिपुरान्तकम्
अष्टचक्रं चक्रोच्छासं कपालाक्षाग्रनामकम् ।अजाविकं खरोष्ट्राख्यं स्थानान्येतानि वर्जयेत्
”इति देवीपुराणे कुण्डप्रवेशनामाध्यायः