| YouTube Channel

सिद्धियोगिनी (siddhiyoginI)

 
Monier Williams Cologne
English
सिद्धि—योगिनी
f.
a kind of Yoginī,
L.
शब्दकल्पद्रुमः
Sanskrit
सिद्धियोगिनी,
स्त्री,
(सिद्धिप्रिया योगिनी ।)योगिनीभेदः यथा, --“प्रणवाद्याश्च या विद्याः शूद्रादौ समीरिताःअस्याञ्चैव विशेषो यत् योषिच्चेत् समुपासयेत्
डाकिनी सा भवत्येव डाकिनीभिः प्रजायते ।पतिहीना पुत्त्रहीना यथा स्यात् सिद्धियोगिनी”इति तन्त्रसारः
*
दक्षस्य पञ्चाशत् कन्याः तथा, --“सती ज्योतिः स्मृतिः स्वाहा ह्यनसूया स्वधातथा ।प्रीतिः क्षमा संभूतिः सन्नतिश्च अरुन्धती
कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिःबुद्धिर्लज्जा वपुःशान्तिस्तुष्टिः सिद्धिस्तथा रतिः
अरुन्धती वसुर्यामी लम्बा भानुर्मरुन्धती ।सङ्कल्पा मुहूर्त्ता साध्या विश्वा नामतःअदितिश्च दितिश्चैव दनुः कालादनायुषा ।सिंहिका सुरसा कद्रुर्विनता सुरभिः श्वसा
क्रोधा इरा प्राधा दक्षकन्याः प्रकीर्त्तिताःपञ्चाशत् सिद्धियोगिन्यः सर्व्वलोकस्य मातरः
”इति वह्निपुराण्णे गणभेदनामाध्यायः