| YouTube Channel

सितेतरः (sitetaraH)

 
Wordnet
Sanskrit
Synonyms:
कुलत्थः, कुलत्था, कालवृन्तः, ताम्रवृक्षः, कुलत्थिका, सितेतरः, ताम्रबीजः
noun
धान्यविशेषः, कषायवर्णीयं बीजं यत् भूमिलग्नम् सत् तिष्ठति (आयुर्वेदे तस्य पित्तरक्तकृत्व-कटुकत्वादिगुणाः प्रोक्ताः)
"कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत्[श क]"
शब्दकल्पद्रुमः
Sanskrit
सितेतरः,
पुं,
(सितादितरः ।) श्यामशालिः ।कुलत्थः इति राजनिर्घण्टः
शुक्लेतरवर्णश्च
(यथा, कुमारे ३८ ।“नीविमतिक्रम्य सितेतरस्यतन्मेखलामध्यमणेरिवार्च्चिः
”सितश्च इतरश्च इति विग्रहे कृष्णशुक्लौ ।अत्र द्विवचनप्रयोगः स्यात् यथा, भागवते ।१० ४१ ४१ ।“नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः ।स्वलङ्कृतौ बालगजौ पर्व्वणीव सितेरतौ
”)