| YouTube Channel

सिंहासनचक्र (siMhAsanacakra)

 
Monier Williams Cologne
English
सिंहासन—चक्र
n.
N.
of three astrological diagrams shaped like a man and marked with the 27 Nakṣatras,
MW.
शब्दकल्पद्रुमः
Sanskrit
सिंहासनचक्रं,
क्ली,
(सिंहासनमिव चक्रम् ।)सप्तविंशति-नक्षत्राङ्कित-नराकार-चक्र-त्रयम् ।यथा, --“अथातः संप्रवक्ष्यामि चक्रं सिंहासनत्रयम् ।सप्तविंशतिनक्षत्रैरेकैकञ्च नवात्मकम्
अश्विनीमघमूलाद्यं पञ्चनाडीविभेदतः ।अश्विन्याद्युत्तरे भागे मघाद्यं पूर्व्वतः स्थितम् ।मूलाद्यं दक्षिणे भागे ज्ञातव्यं नृपतित्रयम् ।इतरेषु राज्येषु नृपनामर्क्षतो वदेत्
शुभाशुभमिदं सर्व्वं यत्र यस्य शनिः स्थितः ।नाडिकापञ्चवेधेन एकैकस्यासनं भवेत्
आधारमासनं पट्टं सिहं सिंहासनं तथा ।ग्रहैर्व्वेधवशाज्ज्ञेयं सौम्यः क्रूरैः शुभाशुभम्
ऋक्ष आधारगे राजा अभिषिक्तो आसने ।पराधीनगतं राज्यं कुरुते नात्र संशयः
आसनस्थेन ऋक्षेण नीतियुक्तो भवेन्नृपः ।प्रधानपुरुषो देवः प्रजाशान्तिकरो भवेत्
पट्ट ऋक्षे यदा राजा उपविष्टो नृपासने ।पूर्व्वराजस्थितेस्तुल्यश्चिरं पालयते महीम्
सिंहरूपी भवेद्राजा सिंहर्क्षेणासने स्थितः ।संग्रामस्य प्रियो नित्यमसाध्यो मन्त्रिमण्डलैः
सिंहासनगते धिष्ण्ये तेजस्वी भीषणाकृतिः ।चलच्चित्तो महाक्रोधी प्रजापीडाकरो नृपः
तत्कालेन्दुगते ऋक्षे क्रूरनिर्व्वेधनाडिके ।शुभावस्था शुभे लग्ने संस्थाप्यो नृप आसने
ईदृशे समायोगे उपविष्टो आसने ।उच्छाद्य शत्रुसंघातमेकच्छत्रं करोति सः
क्रू रग्रहगतां नाडीमुपविष्टो आसने ।बन्धनं भूमिनाशश्च तथा मृत्युः प्रजायते
आधार ऋक्षगः सौरिरनावृष्टं करोति ।दुर्मिक्षं रौरवं तत्र प्रजापीडा जायते
आसने यदा सौरिर्युद्धे भङ्गप्रदो भवेत् ।)अथवा व्याधिपीडा मनोदुःखं प्रजायते
पट्ट ऋक्षे यदा सौरिः पट्टराज्ञी विनश्यति ।प्रियो वाथ कुमारो वा मन्त्रिबन्धुक्षयोऽपि वा
सिंहे सिंहासने वापि यदा तिष्ठति सूर्य्यजः ।तदा मृत्युर्न सन्देहो यदि शक्रसमो नृपः
शनिराह्वर्कमाहेया यदा चन्द्रेण संयुताः ।यस्यासनगता एते तस्य राज्ञो भयङ्कराः
क्रूरयुक्तोऽथ वक्रस्तु क्रूरनाडीगतोऽपि वा
आसने चन्द्रयोगेन कालरूपी शनैश्चरः
एवं शुभफलं दद्याद्दे वमन्त्री संशयः ।करोति विपुलं राज्यं यस्यासनगतो गुरुः
”इति ज्योतिस्तत्त्वम्