| YouTube Channel

सिंहद्वारं (siMhadvAraM)

 
शब्दकल्पद्रुमः
Sanskrit
सिंहद्वारं,
क्ली,
(सिंहचिह्नितं द्वारमिति मध्य-पदलोपिकर्म्मधारयः ।) प्रवेशद्वारम् तत्-पर्य्यायः प्रवेशनम् इति हेमचन्द्रः
(यथा, कथासरित्सागरे ४३ १७५ ।“सिंहद्वारे युवा देवि दृष्टोऽस्माभिर्महाब्रती ।सद्वितीयोऽपि यो धत्ते सौन्दर्य्येणाद्वितीयताम्
”)