| YouTube Channel

साहित्यं (sAhityaM)

 
Apte 1890
English
साहित्यं 1 Association, fellowship, combination, society.
2 Literary or rhetorical composition
साहित्यसंगीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः Bh. 2. 12.
3 The science of rhetoric, art of poetry
Vikr. 1. 11
साहित्यदर्पणं &c.
4 A collection of materials for the production or performance of anything (a doubtful sense).
शब्दकल्पद्रुमः
Sanskrit
साहित्यं,
क्ली,
स्त्री,
(सहित + ष्यञ् ।) मेलनम् ।सहितस्य भावः इत्यर्थे ष्ण्यप्रत्ययेन निर्ष्पन्नम्
परस्परसापेक्षाणां तुल्यरूपाणां युगपदेक-क्रियान्वयित्वं साहित्यम् इति श्राद्धविवेकः
तुल्यवदेकक्रियान्वयित्वम् बुद्धिविशेषविशेषत्वंवा इति शब्दशक्तिप्रकाशिका
साहित्यंएकक्रियान्वयित्वम् तद्यथा धवखदिर-पलाशांश्छिन्धि इत्यत्र धवखदिरपलाशप्रति-योगिकं यत् साहित्यं तन्निरूपितं यद्वयव-विभागरूपफलं तज्जनिका या छिदिक्रियातदनुकूलकृतिमांस्त्वम् इति सारमञ्जरी
मनुष्यकृतश्लोकमयग्रन्थविशेषः तु भट्टि-रघु-कुमारसम्भव-माघ-भारवि-मेघदूत-विदग्धमुख-मण्डनशान्तिशतकप्रभृतयः