| YouTube Channel

साहस्रं (sAhasraM)

 
शब्दकल्पद्रुमः
Sanskrit
साहस्रं,
क्ली,
(सहस्राणां समूहः सहस्र +“भिक्षादिभ्योऽण् ।” ३८ इति अण् ।)सहस्रसमूहः इत्यमरः ४५
(यथा, महाभारते ५८ १३ ।“एतावन्ति दासानां साहस्राण्युत सन्ति मे
”सहस्रमेव स्वार्थे अण् ।) सहस्रमात्रम् ।यथा, --“हरिस्ते साहस्रं कमलबलिमाधाय पदयो-र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषात्रायाणां रक्षायै त्रिपुरहर जागर्त्ति जगताम्
इति महिम्नस्तवः
(सहस्रेण क्रीतमिति “शतमानविंशतिक-सहस्रवसनादण् ।” २७ इति अण् ।)सहस्रेण क्रीते, त्रि
(सहस्रस्येदमिति अण् ।)सहस्रसम्बन्धिनि त्रि
(यथा, विष्णुपादादि-केशान्तवर्णनस्तोत्रे १४ ।“साहस्री वापि संख्या प्रकटमभिहिता सर्व्व-वेदेषु येषाम्
”)