| YouTube Channel

साहसं (sAhasaM)

 
Apte 1890
English
साहसं [सहसा बलेन निर्वृत्तं अण्] 1 Violence, force, rapine
Ms. 7. 48.
2 Any criminal act (such as robbery, rape, felony &c.), a heinous crime, an aggressive act.
3 Cruelty, oppression
Śi. 9. 59.
4 Boldness, daring, daring courage
साहसे श्रीः प्रतिवसति Mk. 4.
5 Precipitation, rashness, temerity, an inconsiderate or reckless act, a rash or daring act
तदपि साहसाभासं Māl. 2
किमपरमतो निर्व्यूढं यत्करार्पणसाहसं 9. 10
Pt. 1. 191
Ki. 17. 42.
6 Punishment, chastisement, fine (m. also in this sense), see Ms. 8. 138
Y. 1. 66, 365.
Comp.
अंकः {1} an epithet of king Vikramāditya. {2} of a poet. {3} of a lexicographer.
अध्यवसायिन् a. acting rashly or with inconsiderate haste.
एकरसिक a. wholly intent on violence, ferocious, brutal.
कारिन् a. {1} bold, audacious. {2} rash, inconsiderate.
लांछन a. characterized by boldness.
शब्दकल्पद्रुमः
Sanskrit
साहसं,
क्ली,
(सहसा बलेन निर्वृत्तम् सहस् +“तेन निर्वृ त्तम् ।” ६८ इति अण् ।)दण्डः इत्यमरः २१
त्रिविधः ।यथा, याज्ञवल्क्यः ।“साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।तदूर्द्धं मध्यमः प्रोक्तस्तदर्द्धमधमः स्मृतः
”इति प्रायश्चित्ततत्त्वम्
बलात्कारकृतकार्य्यम् इति मेदिनी
(यथा, “वेगरोधात् क्षयाच्चैव साहसाद्विषमाशनात् ।त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात्
”इति माधवकरसंगृहीतरुग्विनिश्चये यक्ष्माधि-कारे
“साहसादिति साहसो बलवद्विग्रहादि-रूपः क्षोभहेतुत्वेन कारणत्वम्
इति तट्टी-कायां विजयरक्षितः
*
दुष्कृतकर्म्म अवि-मृष्यकृतिः (यथा, महाभारते ४२ ।“यद्येतत् साहसं तात ! यदि वा दुष्कृतं कृतम्प्रियं वाप्यप्रियं वा ते वागुक्ता मृषा भवेत्
”)द्वेषः इति हेमचन्द्रः
प्रश्चाद्दोषमनालोच्यकरणम् तत्तु चीर्य्यपरदारगमनादि इतिमुग्धबोधटीकायां दुर्गादासः
*
साहसमाहनारदःमनुष्यमारणं स्तेयं परदाराभिमर्षणम् ।पारुष्यमनृतञ्चैव साहसं पञ्चधा स्मृतम्
”अत्र सद्य एवोत्तरदापनम् यथा, --साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः
”विवादयेत् सद्य एवोत्तरं दापयेत् इति शूल-पाणिः
तत्र दासादयोऽपि साक्षिणो भवन्तियथा, उशना ।“दासोऽन्धो वधिरः कुष्ठी स्त्रीबालस्थविरा-दयः ।एतेऽप्यनभिसम्बन्धाः साहसे साक्षिणो मताः
”इति व्यवहारतत्त्वम्
(तद्युक्ते, त्रि यथा, हरिवंशे भविष्यपर्व्वणि ।३९ ३७ ।“न जाने इति यद्ब्रूषे किमतः साहसं वचः
”)