| YouTube Channel

साहचर्य्यं (sAhacaryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
साहचर्य्यं,
क्ली,
(सहचरस्य भावः कर्म्म वा ।सहचर + ष्यञ् ।) सहचरस्य भावः (यथा, कुमारे ११ ।“मधुश्च ते मन्मथ ! साहचर्य्या-दसावनुक्तोऽपि सहाय एवसमीरणो नोदयिता भवेतिव्यादिश्यते केन हुतासनस्य
”)सहगमनम् सहचरशब्दात् ष्ण्यप्रत्ययेन निष्प-न्नम्
सहचारः सामानाधिकरण्यम् ।एकाधिकरणवृत्तित्वम् यथा, --“प्रायशो रूपभेदेन साहचर्य्याच्च कुत्रचित् ।”इत्यमरः
(सहधर्म्माचरणम् इति मल्लिनाथः
यथा, रघुः १६ ८७ ।“तस्याः स्पृष्टे मनुजपतिना साहचर्य्याय हस्तेमाङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य
”)