| YouTube Channel

सासाधकः-धिका (sAsAdhakaH-dhikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“साध संसिद्धौ”@} 2 साधकः-धिका, साधकः-धिका, 3 सिसात्सकः-त्सिका, सासाधकः-धिका
साद्धा-साद्ध्री, साधयिता-त्री, सिसात्सिता-त्री, सासाधिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकक्षुध्यतिवत् 4 ज्ञेयानि।
ण्यन्तात् नन्द्यादित्वात् ल्युप्रत्यये साधनः, औणादिके 5 उणूप्रत्यये साधुः इति रूपम्।
6 7 मातरि साधुः।
तुमुनि-प्रसाधयितुम् 8।
प्रासङ्गिक्यः
01
=>
(१९०२)
02
=>
(५-स्वादिः-१२६१। अक। अनि। पर।)
03
=>
[[१। अत्र ‘आदेशप्रत्यययोः’ (८-३-५९) इति षत्वे सिषात्सकः इति रूपमाह माधवः। वस्तुतोऽत्र प्रयोगे आदेशभूतसकारस्य, प्रत्ययावयवसकारस्य वा अभावात् इणः परत्वेऽपि षत्वं नैव प्राप्तमिति चिन्त्यमिदम्।]]
04
=>
(३१५)
05
=>
[द। उ। १-८६]
06
=>
[पृष्ठम्१३७३+ २७]
07
=>
[[१। “‘साध्वसाधुप्रयोगे सप्तमी वक्तव्या’ (वा। २-३-४३) इति सप्तमी। अनर्चार्थ- मिदं वार्त्तिकम्। अर्चायां तु ‘साधुनिपुणाभ्यामर्चायाम्’ (२-३-४३) इत्येव सिद्धम्। तस्मादत्र अर्चाग्रहणं निपुणार्थं संपद्यते। ‘साधुर्भृत्यो राज्ञः’ इत्यत्र मृत्यापेक्षया षष्ठी, साध्वपेक्षयेति वाक्यार्थज्ञा आहुः’ इति कैयटादौ प्रतिपा- दितम्” इति माधवः।]]
08
=>
[[आ। ‘… धाराः प्रसाधयितुमव्यतिकीर्णरूपाः।’ शि। व। ५-६०।]]