| YouTube Channel

सावित्रीव्रतं (sAvitrIvrataM)

 
शब्दकल्पद्रुमः
Sanskrit
सावित्रीव्रतं,
क्ली,
(सावित्र्या व्रतम् ।) ज्यैष्ठ-कृष्णचतुर्द्दश्यां स्त्रीकर्त्तव्यनियमविशेषः तद्वि-वरणं यथा, पराशरः ।“मेषे वा वृषभे वापि सावित्रीं तां विनिर्द्दिशेत्
”तां चतुर्द्दशीम् ।“ज्यै ष्ठकृष्णचतुर्द्दश्यां सावित्रीमर्च्चयन्ति याः ।वटमूले सोपवासा ता वैधव्यमाप्नु युः
”राजमार्त्तण्डकृत्यचिन्तामण्योः ।“ज्यैष्ठे मासि चतुर्द्दश्यां सावित्रीव्रतमुत्तमम् ।अवैधव्याय कुर्व्वन्ति स्त्रियः श्रद्धासमन्विताः
”व्रतमात्रे तु अनन्तचतुर्द्दशीव्रतोक्तमाचरन्ति ।दृष्टपरिकल्पनान्यायात् तदुक्तं मत्स्यपुराणे ।“गर्भिणी सूतिका नक्तं कुमारी रजस्वला ।यदाशुद्धा तदान्येन कारयेत् क्रियते सदा
”उपवासाशक्तौ नक्तं भोजनं कुर्य्यात् ।“उपवासेष्वशक्तानां नक्तं भोजनमिष्यते ।”इति तद्धृतवचनान्तरात् अशुद्धा चेत् पूजांकारयेत् कायिकञ्चोपवासादिकं सदा शुद्वयाअशुद्धया स्वयं क्रियते एवं स्मृ तिपरि-भाषायां वर्द्धमानोपाध्यायाः नारदः ।“दिवाभागे त्रयोदश्यां यदा चतुर्द्दशी भवेत् ।तत्र पूज्या महासाध्वी देवी सत्यवता सह
”दिवाभागे दण्डद्वयमात्रसत्त्वेऽपि अतएव प्रदोषेव्रतमाचरन्ति पूर्व्वाहे तद्विधत्वेऽपि पराहेत्रिसन्ध्यव्यापित्वे पराह एव त्रिसन्ध्यव्यानीतिवचनात् यदा तु पूर्व्वापरयोर्न तथाविधा ।तदापि पराह एव यथा ज्योतिषे ।“चतुर्द्दश्याममावास्या यदा भवति नारद ! ।उपोष्य पूजनीया सा चतुर्द्दश्यां विधानतः
”सा सावित्री ततश्चामावास्यायां सावित्रीव्रत-विधानं शिवा घोरा तथा प्रेतेति वचनञ्चैतत्-परम् पराशरः ।“सावित्रीमर्च्चयित्वा तु फलाहारा परेऽहनि ।ततश्चाविधवा नारी वित्तभोगान् लभेत सा
”इति तिथ्यादितत्त्वम्
अन्यत् वनपर्व्वीयसावित्रीव्रतकथायां द्रष्टव्यम्