| YouTube Channel

सावर्णिः (sAvarNiH)

 
Apte
English
सावर्णिः [sāvarṇiḥ], A metronymic of the eighth Manu (son of the sun by Savarṇā)
सावर्णिः सूर्यतनयो यो मनुः कथ्यते$ष्टमः Mārk.
P.
Apte 1890
English
सावर्णिः A metronymic of the eighth Manu (son of the sun by Savarṇā).
Apte Hindi
Hindi
सावर्णिः
पुं*
- सवर्णा + इञ्
आठवें मनु का मातृपरक नाम
शब्दकल्पद्रुमः
Sanskrit
सावर्णिः,
पुं,
(सवर्णाया अपत्यमिति इञ् ।)अष्टममनुः सूर्य्यपुत्त्रः यथा, --“विवस्वतश्च द्वे जाये विश्वकर्म्मसुते उभे ।संज्ञा छाया राजेन्द्र ये प्रागभिहिते तव
तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः ।यमो यमी श्राद्धदेवश्छायायाश्च सुतान् शृर्णु
सावर्णिस्तपती कन्या भार्य्या संवरणस्य या ।शनैश्चरस्तृतीयोऽभूदश्विनौ बडवात्मजौ
अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः ।निर्म्मोकविरजस्काद्याः सावर्णितनया नृप
तत्र देवाः सुतपसो विरजा अमृतप्रभाः ।तेषां विरोचनसुतो वलिरिन्द्रो भविष्यति
दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् ।राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति
योऽसौ भमवता बद्धः प्रीतेन सुतले पुनः ।निवेशितोऽधिके स्वर्गादधुनास्ते स्वराडिवगालवो दीप्तिमान्रामो द्रोणपुत्त्रः कृपस्तथा ।ऋष्यशृङ्गः पितास्माकं भगवान् वादरायणः ।इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः
इदानीमासते राजन् स्वे स्वे आश्रममण्डले ।देवगुह्यात् सरस्वत्यां सार्व्वभौम इति प्रभुः ।स्थानं पुरन्दराद्वृत्वा वलये दास्यतीश्वरः
”इति श्रीभागवते १३ -- १७
(अस्य विशेषविवरणन्तु मार्कण्डेपुराणे देवी-माहात्म्ये द्रष्टव्यम्
) गोत्रविशेषः यथा ।वात्स्यसावर्णिगोत्रयोरौर्व्वच्यवनभार्गवजामद-ग्न्याप्नुवत्प्रवराः इत्युद्वाहतत्त्वम्