| YouTube Channel

सावनः (sAvanaH)

 
Apte Hindi
Hindi
सावनः
पुं*
- सवन + अण्
"यजमान, जो यज्ञ में पुरोहित का वरण करता है"
सावनः
पुं*
- सवन + अण्
"यज्ञ का उपसंहार, वह संस्कार जिसके द्वारा यज्ञ की पूर्णाहुति दी जाती हैं"
सावनः
पुं*
- सवन + अण्
वरुण का नाम
सावनः
पुं*
- सवन + अण्
तीस सौरदिवस का मास
सावनः
पुं*
- सवन + अण्
सूर्योदय से सूर्यास्त तक का दिन
सावनः
पुं*
- सवन + अण्
विशेष वर्ष
वैजयन्तीकोषः
Sanskrit
Word: सावनः
Root: सावन
Gender: पुं
Number: all
अर्थः सावनमासः
Meaning(s):
Month of 30 days
Shloka(s):
2|1|81|1 ज्यौतिषः पुनराचारात् सावनो दिनसंख्यया। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|81|1 सावनः (सावन) (पुं) Month of 30 days त्रिंशदहोरात्रात्मकः कालः
Related word(s):
परा_अपरासंबन्धः मासः
जातिः कालः
शब्दकल्पद्रुमः
Sanskrit
सावनः,
पुं,
(सवनस्यायमिति अण्) यज्ञ-कर्म्मान्तः यजमानः वरुणः इति मेदिनी
दिवसविशेषः यथा, --“तिथिनैकेन दिवसश्चान्द्रमाने प्रकीर्त्तितः ।अहोरात्रेण चैकेन सावनो दिवसः स्मृतः
”इति मलमासतत्त्वम्
मासभेदः त्रिंशदहोरात्रात्मकः यथा, “त्रिंशता सौरदिवसैः सावनः परिकीर्त्तितः ।”इति शब्दरत्नावली
अपि ब्रह्मसिद्धान्ते ।“चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः ।एकराशौ रविर्यावत् कालं मासः भास्करः ।सर्व्वर्क्षपरिवर्त्तैश्च नाक्षत्र इति चोच्यते
”विष्णुधर्म्मोत्तरे ।“सन्निकर्षादथारभ्य सन्निकर्षमथापरम् ।चन्द्रार्कयोर्बुधैर्म्मासश्चान्द्र इत्यभिधीयते ।सावने तथा मासि त्रिंशत्सूर्य्योदयाः स्मृताः
आदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः ।सर्व्वर्क्षपरिवर्त्तैश्च नाक्षत्र इति चोच्यते
*
सावनमासकर्त्तव्यकर्म्मादि यथा, --“सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा ।मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तित्ः
पितामहः ।“आब्दिके पितृकृत्ये मासश्चान्द्रमसः स्मृतः ।विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः
”अत्र आदिपदेन सत्रभृतिवृद्धिप्रायच्चित्तायुर्द्दाया-शौच-गर्भाधान-पुंसवन-सीमन्तोन्नयन-नामकर-णान्नप्राशन-निष्क्रमण-चूडादिग्रहणम् तथा चविष्णुधर्म्मीत्तरम् ।“अध्वायनञ्च ग्रहचारकर्म्मसौरेण मानेन सदाध्यवस्येत् ।सत्राण्युपास्यान्यथ सावनेनलौक्यञ्च यत् स्याद्व्यवहारकर्म्म
”इति मलमासतत्त्वम्
*
वर्षविशेषः यथा, --“सौरेणाब्दस्तु मानेन यदा भवति भार्गव ।सावनेन मानेन दिनषट्कं प्रपूर्य्यते
”सौरसंवत्सरे दिनषट्काधिकः सावनः संवत्-सरो भवतीति इति मलमासतत्त्वम्