| YouTube Channel

सावनं (sAvanaM)

 
शब्दकल्पद्रुमः
Sanskrit
सावनं,
क्ली,
(सवनं सोमयज्ञस्नानं तस्येदमित्यण्)सवनसम्बन्धिदिनम् यथा सोमयागे सवन-त्रयस्याहोरात्रसाध्यत्वात् तत्सम्बन्धि दिनंसावनम् इति माधवाचार्य्यः
अपि ।ब्रह्मसिद्धान्ते सावनं दण्डाः षष्टिरहःस्वलग्न-स्वगुणांशाढ्यास्तदैनं भवेत् इति मलमास-तत्त्वम्
(यथाच सूर्य्यसिद्वान्ते ।“उदायादुदयं भानोः सावनं तत् प्रकीर्त्तितम् ।सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः
”)