| YouTube Channel

सार्व्वभौमः (sArvvabhaumaH)

 
शब्दकल्पद्रुमः
Sanskrit
सार्व्वभौमः,
पुं,
(सर्व्वभूमौ विदितः “तत्र विदितःइति ।” ४३ इत्यण् ।) उत्तरदिग्-गजः इत्यमरः
सर्व्वभूमीश्वरः ।तत्पर्य्यायः चक्रवर्त्ती एकजन्मा नृपा-ग्रणीः इति शब्दरत्नावली
(यथा, महाभारते ९३ ।“भरतस्य वीरस्य सार्व्वभौमस्य पार्थिव ! ।ध्रुवं प्राप्स्यति दुष्प्रापान् लोकांस्तीर्थपरि-प्लु तः
”)विदूरथपुत्त्रः यथा, --“परिक्षिरनपत्योऽभूत् सुरथो नाम जाह्नवः ।ततो विदूरथस्तस्मात् सार्व्वभौमस्ततोऽभवत्
”इति श्रीभागवते स्कन्धे २२ अध्यायः
(पुरुवंशीयाहंयातिनृपस्य पुत्त्रः यथा, महा-भारते ९५ १५ -- १६ “अहंयातिःखलु कृतवीर्य्यदुहितरमुपयेमे भानुमतीं नाम ।तस्यामस्य यज्ञे सार्व्वभौमः सार्व्वभौमः खलुजित्वा जहार कैकेयीं सुनन्दां नाम तामुप-येमे
*
) सकलभूमिसम्बन्धिनि, त्रि