| YouTube Channel

सारस्वतव्रत (sArasvatavrata)

 
Monier Williams Cologne
English
सारस्वत—व्रत
n.
a partic. observance in honour of Sarasvatī,
Cat.
शब्दकल्पद्रुमः
Sanskrit
सारस्वतव्रतः,
पुं,
(सारस्वतः सरस्वतीदेवताकःव्रतः ।) सरस्वत्या व्रतविशेषः यथा, --मनुरुवाच ।“मधुरा भारती केन व्रतेन मधुसूदन ।तथैव जनसौभाग्यमतिविद्यासुकौशलम्
अभेदश्चापि दम्पत्योस्तथा बन्धुधनेन ।आयुश्च विपुलं पुंसां तन्मे कथय माधव
मत्स्य उवाच ।सम्यक् पृष्टं त्वया राजन् शृणु सारस्वतं व्रतम्यस्य सङ्कोर्त्तनादेव तुष्यतीह सरस्वती
यो यद्भक्तः पुमान् कुर्य्यादेतद्व्र तमनुत्तमम् ।तद्वासरादौ संपूज्य विप्रानेतत् समारभेत्
अथवादित्यवारेण ग्रहताराबलेन वा ।पायसं भोजयेद्विद्वान् कृत्वा ब्राह्मणवाचनम्
शुक्लवस्त्राणि दत्त्वा सहिरण्यानि शक्तितः ।गायत्तीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपणैः
यथा देवो भगवान् ब्रह्मा लोकपितामहः ।त्वां परित्यज्य सन्तिष्ठे त्तथा भव वरप्रदा
वेदाः शास्त्राणि सर्व्वाणि नृत्यगीतादिकञ्च यत्न विहीनं त्वया देवि तथा मे सन्तु सिद्धयः
लक्ष्मीर्म्मेधा धरा पुष्टिर्गौरीतुष्टिः प्रभामतिः ।एताभिः पाहि तनुभिरष्टाभिर्म्मां सरस्वति
एवं सम्पूज्य गायर्त्त्रां वीणाक्षमाल्यधारिणीम् ।शुक्लपुष्पाक्षतैर्भक्त्या सकमण्डलुपुष्पकम्
मौनव्रतेन भुञ्जीत सायं प्रातश्च धर्म्मवित् ।पञ्चम्यां प्रतिपक्षञ्च पूजयेत् शब्दवासिनाम्
तथैव तण्डुलप्रथ्यं घृतपात्रेण संयुतम् ।क्षीरं दद्याद्धिरण्यञ्च गायत्त्री प्रीयतामिति
सन्ध्यायाञ्च तथा मौनमेतत् कुर्व्वन् समाचरेत् ।नान्तराभोजनं कुर्य्यात् यावन्मासास्त्रयोदश
समाप्ते तु व्रते दद्यात् भोजनं शुक्लतण्डुलैः ।सुवर्णं वस्त्रयुग्मञ्च गाञ्च विप्राय शोभनाम ।देव्या वितानं घण्टाञ्च सितनेत्रपटावृताम् ।चन्दनं वस्त्रयुग्मञ्च दध्यन्ने शिखरं पुनः ।तथोपदेष्टारमपि भक्त्या सम्पूजयेद्गुरुम्
वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः ।अनेन विधिना यस्तु कुर्य्यात् सारस्वतं व्रतम् ।विद्यावानर्थयुक्तश्च व्यक्तकण्टश्च जायते
सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते ।नारी वा कुरुते या तु सापि तत्फलभागिनीब्रह्मलोके वसेद्राजन् यावत् कल्पायुतत्रयम् ।सारस्वतं व्रतं यस्तु शृणुयादथवा पठेत् ।विद्याधरपुरे सोऽपि वसेदब्दायुतत्रयम्
”इति मत्स्यपुराणे ६६ -- २४