| YouTube Channel

सारस्वतकल्पः (sArasvatakalpaH)

 
शब्दकल्पद्रुमः
Sanskrit
सारस्वतकल्पः,
पुं,
(सारस्वतः कल्पः ।) सरस्व-त्युपासनाप्रकरणम् यथा, --ब्रह्मोवाच ।“शृणु ब्रह्मन् परं गुह्यं कल्पं सारस्वतं मम ।यस्य विज्ञानमात्रेण जाड्यापहरणं भवेत्
सर्व्वशास्त्रप्रकाशश्च सर्व्वज्ञो जायतेऽचिरात् ।अभ्यासाच्च भवेद्यस्य वाचश्चित्रा भवन्ति हि
अवापुस्त्रिदशा व्याप्तं वागीशत्वं बृहस्पतिः ।द्वैपायनोऽपि यां ज्ञात्वा वेदव्यासोऽभवन्मुनिः
मन्त्रोद्धारं प्रवक्ष्यामि साङ्गावरणपूजनैः ।अनन्तं बिन्दुना युक्तं वामगण्डान्तभूषितम्
जपेत् द्वादशलक्षन्तु मूकोऽपि वाक्पतिर्भवेत्नाभौ शुभ्रारविन्दञ्च ध्यायेद्दशदलं सुधीः
तन्मध्ये भावयेम्मन्त्री मण्डलानां त्रयं चिरम् ।रत्नसिंहासनं तत्र वर्णज्योत्स्नामयं पुनः
तस्योपरि पुनर्ध्यायेद्देवीं वागीश्वरीं ततः ।मुक्ताकान्तिनिभां देवीं ज्योत्स्नाजाल-विकाशिनीम्
मुक्ताहारयुतां शुभ्रां शशिखण्डविमण्डिताम् ।बिभ्रतीं दक्षहस्ताभ्यां व्याख्यां वर्णस्य मालि-काम्
अमृतेन तथा पूर्णं घटं दिव्यञ्च पुस्तकम् ।दधतीं वामहस्ताभ्यां पीनस्तनभरान्विताम्
मध्ये क्षीणां तथा स्वच्छां नानारत्नविभूषिताम्आत्माभेदेन ध्यात्वैवं ततः संपूजयेत् क्रमात्
आद्येन दीर्घयुक्तेन कुर्य्यादङ्गानि हस्तयोः ।हृदयादौ तथा कुर्य्याद्वीजेनाङ्गक्रिया पुनः
भ्रुवोर्म्मध्ये तथा नाभौ गुह्ये देशिकस्तथा ।न्यसेद्वीजं पुनर्वस्तौ व्यापकं विन्यसेत्ततः
पीठन्यासं तनी कुर्य्यात् देवताभावशुद्धये ।मांतृकायान्तु यत् प्रोक्तं पीठमभ्यर्च्च्य यत्नतः
बर्णाब्जेनासनं दद्यात् मूर्त्तिं मूलेन कल्पयेत ।आवाह्य पूजयेत्तस्यां देवीं वागीश्वरीं ततः
अङ्गैः प्रथमा वृत्तिः स्यात् द्वितीया शक्ति-भिस्ततः ।दलाग्रेषु समभ्यर्च्च्य ब्रह्माण्याद्या यथाविधि
लोकपाला बहिः पूज्यास्तेषामस्त्राणि तद्ध्वहिः ।एवं सम्पूजयेन्मन्त्री जपहोमरतस्तदा
कवित्वं लभते वाग्मी लक्षैर्द्वादभिर्ध्रुवम् ।प्रातर्जप्त्वा सहस्रन्तु पिबेद्ब्राह्मीं वचान्विताम्न विस्मरति मेधावी श्रुतान् वेदागमानपि ।कण्ठमात्रोदके स्थित्वा ध्यायेन्मार्त्तण्डमण्डले
ज्योतिःपुञ्जनिभां देवीं परिवारसमन्विताम् ।वराभययुतां हस्ते मुद्रापुस्तकधारिणीम्
जपन् सहस्रमाणेन षण्मासं विजितेन्द्रियः ।भीमां सम्प्राप्य वाक्सिद्धिं कवीनामग्रणीर्भवेत्अथ योगं प्रवक्ष्यामि जाड्यनाशकरं परम् ।रात्रिशेषे समुत्थाय शुचिर्भूत्वा समाहितः
शुद्धभावेन चात्मानं गुरुञ्च परिकल्पयेत् ।तत्प्रभापटलव्याप्तं जगत् सर्व्वं विचिन्तयेत्
मूलाधारे स्थितां देवीं कुण्डलीं परदेवताम् ।सुप्तां प्रोत्थाप्य तां शक्त्या क्रमाच्चक्राणि भेदयेत्ततः परशिवे नीत्वा सौधीञ्च प्रापयेत्ततः ।ऊर्द्धग्रन्थिं विनिर्भिद्य जिह्वां दीपस्वरूपिणीम्बीजरूपस्वशक्त्या तु प्रोल्लसन्तीं परात्मिकाम् ।शब्दब्रह्मस्वरूपाञ्च निश्चलां चिन्तयेत् पुनः
तत्प्रभापटलव्याप्तं शरीरं चिन्तयेत्ततः
नित्यं सहस्रमाणेन जपेत् संबत्सरं यदि ।ततः संजायते मन्त्री वाचस्पतिरिवापरः
छन्दोऽलङ्कारतर्कादिनानाशास्त्रार्थविद्भवेत् ।कवित्वं ज्ञानशक्त्या तु पाण्डित्यमधिकं भवेत्
*अथापरं प्रवक्ष्यामि योगं भुवि सुदुर्ल्लभम् ।नाभिचक्रस्थितां सौम्यां रक्ताकारां विचि-न्तयेत्
क्षौमाबद्धनितम्बाञ्च रक्ताभरणभूषिताम् ।पाशाङ्कुशधरां दिव्यां वराभययुतां पुनः
दृष्ट्या चामृतवर्षिण्या पूरयन्तीं मनोरथान् ।एवं ध्यात्वा जपेल्लक्षं मनुजो विहितं ततः
होमं कुर्य्यात् त्रिमध्वक्तं रक्तोत्पलयुतैर्द्विजः ।ततः सन्तर्पयेद्देवीं दुग्धयुक्तेन सर्पिषा
पायसेन बलिं दद्यात् दधिपिष्टमधुप्लुतैः ।एवं कृत्वा विधानन्तु साक्षाद्वै श्रवणो भवेत्
सिद्धार्थैस्त्रिमधुरोपेतैर्हु त्वा जगद्वशं नयेत् ।पद्मदानेन महतीं प्राप्नुयात् श्रियमूर्जिताम्
देवीहृदयविद्याया नास्ति किञ्चित् सुदुर्ल्लभम्स्नेहभावेन सम्प्र्रोक्तं देयं यस्य कस्यचित्
एतत्ते कथितं दिव्यं विद्योत्पत्तेश्च कारणम् ।विष्णुना दत्तमस्मभ्यं मया तुभ्यं द्विजोत्तम
सिद्धमन्त्री यदा मन्त्री वालिशस्यापि मूर्द्धनि ।हस्तं दत्त्वा जपेत् सोऽपि सौधीं वाचमन-र्गलाम्
”इति स्वायम्भुवमातृकातन्त्रे सारस्वतः पटलः ।इति तन्त्रसारः