| YouTube Channel

सारं (sAraM)

 
शब्दकल्पद्रुमः
Sanskrit
सारं,
क्ली,
पुं,
(सार त् दौर्ब्बल्ये + अच् सृ गतो+ घञ् इति वा ।) जलम् धनम् (यथा, रघुः ७९ ।“परस्परेण विज्ञातस्तेषूपायनपाणिषु ।राज्ञा हिमवतः सारो राज्ञः सारो हिमा-द्रिणा
”)न्याय्यम् इति मेदिनी
(सरात् जातम् ।सर + अण् ।) नवनीतम् इति राजनिर्घण्टः
(यथा, सुश्रुते उत्तरतन्त्रे २६ ।“क्षीरशेषञ्च तन्मथ्यं शीतं सारमुपाहरेत्
”अमृतम् यथा, भागवते २५ ।“धर्म्मादयः किमगुणेन काङ्क्षितेनसारंजुषां चरणयोरुपगायतां नः
”)लौहम् इति भावप्रकाशः विपिनम् इतिशब्दरत्नावली
*
सारवस्तूनि यथा, --“सारं रसानान्तु घृतं घृतसारं हुतञ्च यत् ।हुतस्य सारं स्वर्गञ्च स्वर्गात् सारन्तु योषितः
अतो राजन् प्रदेयाः स्युः स्त्रियः स्वर्गमभीप्-सतः ।तथैवेह सुखं ताभिः सह राज्यं नृपोत्तम
”इति वह्निपुराणे दासीदानाध्यायः
अपि ।“असारे खलु संसारे सारमेतच्चतुष्टयम् ।काश्यां वासः सतां सङ्गो गङ्गाम्भः शम्बु-सेवनम्
”इति कवितारत्नाकरधृतपुराणवचनम्