| YouTube Channel

सायुज्यं (sAyujyaM)

 
Apte 1890
English
सायुज्यं 1 Intimate union, identification, absorption, especially into a deity (one of the four states of Mukti).
2 Similarity, likeness.
शब्दकल्पद्रुमः
Sanskrit
सायुज्यं,
क्ली,
(सयुजो सहयोगस्य भावः ।ब्राह्मणादित्वात् ष्यञ् ।) सहयोगः एकत्वम् ।तत्तु पञ्चधामुक्त्यन्तर्गतमुक्तिविशेषः यथा, --“सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।दीयमानं गृह्णन्ति विना मत्सेवनं जनाः
”इति श्रीभागवते २९ १३
“भक्तानां निष्कामतां कैमुतिकन्यायेनाह ।सालोक्यं मया सह एकस्मिन् लोके वासम् ।सार्ष्टिं समानैश्वर्य्यम् सामीप्यं निकटवर्त्ति-त्वम् सारूप्यं समानरूपताम् एकत्वंसायुज्यम् उत अपि दीयमानमपि गृह्णन्तिकुतस्तत्कामना इत्यर्थः ।” इति श्रीधरस्वामी
“एकत्वं भगवत्सायुज्यं ब्रह्म सायुज्यञ्च अनयो-स्तल्लीलात्मकत्वेन तत्सेवनार्थत्वाभावात् ग्रह-णावश्यकत्वमेवेति भावः ।” इति क्रमंसन्दर्भः