| YouTube Channel

सायन्तनः (sAyantanaH)

 
शब्दकल्पद्रुमः
Sanskrit
सायन्तनः, त्रि, (सायं भवः सायम् + “सायं-चिरंप्राह्लेप्रागव्ययेभ्यष्ट्युढ्युलौ तुट् ।” ।२३ इति ढ्युल् तुट् ।) सायंकालभवः ।यथा, --“सन्ध्यां सायन्तनीं कुर्य्यात् द्वादश्यादिष्वपिप्रिये ।अकुर्व्वन्निरयं याति यतो नित्यागमक्रिया
”इति बृहन्नीलतन्त्रे प्रथमपटलः