| YouTube Channel

सायंसन्ध्या (sAyaMsandhyA)

 
शब्दकल्पद्रुमः
Sanskrit
सायंसन्ध्या,
स्त्री,
(सायं सायाह्ने या सन्ध्या ।)सायंकालोपास्या देवता सायंकालकर्त्तव्यो-पासना सायंसन्ध्योपासनाकालश्च तत्प्रमाणंसन्ध्याशब्दे द्रष्टव्यम् पश्चिमा सन्ध्या तस्याउत्पत्तिर्यथा, --मार्कण्डेय उवाच ।“नारायणः स्वयं सन्ध्यां पस्पर्शाथाग्रपाणिना ।ततः पुरोडाशमयं तच्छरीरमभूत् क्षणात्
महामुनेर्म्महायज्ञे तस्मिन् विश्वोपकारिणि ।नाग्निः क्रव्यादतां यातीत्येतदथ तथा कृतम्
एवं कृत्वा जगन्नाथस्तत्रैवान्तरधीयत ।सन्ध्याप्यगच्छद्यत्रेजे तत्र मेधातिथिर्मुनिः
अथ विष्णोः प्रसादेन केनाप्यनुपलक्षिता ।प्रविवेश तदा यज्ञं सन्ध्या मेधातिथेर्मनेः
वशिष्ठे पुरा या तु वर्णीभूता तु सा सुता ।उपदिष्टा तपश्चर्त्तुं वचनात् परमेष्ठिनः
तमेव कृत्वा मनसि तपश्चर्य्योपदेशकम् ।पतित्वेन तदा सन्ध्या ब्राह्मणं ब्रह्मचारिणम्
समिद्धेऽग्नौ महायज्ञे मुनिभिर्नोपलक्षिता ।तदा विष्णोः प्रसादेन सा विवेश विधेः सुता
तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः ।दग्धं पुरोडाशगन्धं व्यस्तारयदलक्षितम्
वह्निस्तस्याः शरीरं तद्दग्ध्वा सूर्य्यस्य मण्डले ।शुद्धं प्रवेशयामास विष्णोरेवाज्ञया पुनः
सूर्य्यो द्विधा विभज्याथ तत्शरीरं तदा रथे ।स्वके संस्थापयामास प्रीतये पितृदेवयोः
यदूर्द्धभागं तस्यास्तु शरीरस्य द्विजोत्तमाः ।प्रातःसन्ध्याभवत् सा तु अहोरात्रादिमध्यगा
यच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगा ।सा सायमभवत् सन्ध्या पितृप्रीतिप्रदा सदा
सूर्य्योदयाच्च प्रथमं यदा स्यादरुणोदयः ।प्रातःसन्ध्या तदोदेति देवानां प्रीतिकारिणी
अस्तं गते ततः सूर्य्ये शोणपद्मनिभा सदा ।उदेति सायंसन्ध्या सा पितॄणां मोदकारिणी
”इति श्रीकालिकापुराणे अरुन्धतीजन्मकथने२२ अध्यायः
वाचस्पत्यम्
Sanskrit
सायंसन्ध्या स्त्री सायम् दिनान्ते सन्ध्या, तत्र सन्ध्यायतेसम् + ध्यै--घञर्थे वा दिनान्तसन्ध्यायाम् अमरः ।२ दिनान्ते उपास्यदेवताभेदे भावे अङ् तत्रो-पासनायाम्