| YouTube Channel

साम्परायिकं (sAmparAyikaM)

 
शब्दकल्पद्रुमः
Sanskrit
साम्परायिकं,
क्ली,
(संपरायाय विपदे प्रभव-तीति संपराय + “तस्मै प्रभवति सन्तापा-दिभ्यः ।” १०१ इति ठञ् ।) युद्धम् ।इत्यमरः १०४
(सम्पराय उत्तर-काले हितम् सम्पराय + ठक् ।) पार-लौकिके, त्रि यथा, --“प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते ।न साम्परायिकं तस्य दुर्म्मतेर्व्विद्यते फलम्
”इति मनुः ११ ३० ।(सम्परायं युद्धमर्हतीति तदर्हतीति ठक् ।युद्धार्हे, त्रि यथा, रघुः १७ ६२ ।“पित्रा संवर्द्धितो नित्यं कृतास्त्रः साम्परायिकःतस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत
”)