| YouTube Channel

सामुद्रकं (sAmudrakaM)

 
Apte 1890
English
सामुद्रकं Sea-salt.
शब्दकल्पद्रुमः
Sanskrit
सामुद्रकं,
क्ली,
(सामुद्रमेव स्वार्थे कन् ।) समुद्र-लवणम् इति राजनिर्घण्टः
समुद्रोक्तस्त्रीपुं-लक्षणग्रन्थः तद्विवरणं यथा, --श्रीकृष्ण उवाच ।“कीदृशः पुरुषो वन्द्योऽवन्द्यो वा कीदृशो भवेत्कन्या वा कीदृशी शस्या गर्हिता वापिकीदृशी
महेश उवाच ।शृणु कृष्ण प्रवक्ष्यामि समुद्रवचनं यथा ।लक्षणन्तु मनुष्याणां एकैकेन वदाम्यहम्
वामभागे तु नारीणां दक्षिणे पुरुषस्य ।निर्द्दिष्टं लक्षणं तेषां समुद्रेण यथोदितम्
पूर्व्वमायुः परीक्षेत पश्चाल्लक्षणमेव ।आयुर्हीनं नराणाञ्चेत् लक्षणैः किं प्रयो-जनम्
”अथ पुरुषलक्षणम् ।“पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् ।सप्तरक्तं त्रिगम्भीरं त्रिविशालं प्रशस्यते
बाहुनेत्रद्वयं कुक्षी द्वौ तु नासा तथैव ।स्तनयोरन्तरञ्चैव पञ्चदीर्घं प्रशस्यते
ग्रीवाथ कर्णौ पृष्ठ ह्रस्वे जङ्घे सुपूजिते ।चत्वारि यस्य ह्रस्वानि पूजां प्राप्नोति नित्यशः
सूक्ष्माण्यङ्गलिपर्व्वाणि दन्तकेशनखत्वचः ।पञ्च सूक्ष्माणि येषां हि ते नरा दीर्घजीविनः
नासा नेत्रञ्च दन्ताश्च ललाटञ्च शिरस्तथा ।हृदयञ्चैव विज्ञेयमुन्नतं षट् प्रशस्यते
पाणिपादतलौ रक्तौ नेत्रान्तरनखानि ।तालुकोऽधरजिह्वा सप्तरक्तं प्रशस्यते
स्वरो बुद्धिश्च नाभिश्च त्रिगम्भीरमुदाहृतम् ।उरः शिरो ललाटञ्च त्रिविस्तीर्णं प्रशस्यते
कटिर्बिशाला बहुपुत्त्रभागीविशालहस्तो नरपुङ्गवः स्यात् ।उरो विशालं धनधान्यभागीशिरो विशालं नरपूजितः स्यात्
श्रीस्त्यजति रक्ताङ्गं नार्थः कनकपिङ्गलम् ।दीर्घबाहुं चैश्वर्य्यं मांसोपचितांसकम् ।कदादिद्दन्तुरो मूर्खः कदाचित् लोमशः सुखी ।कदाचित् तुन्दिलो दुःखी कदाचित् चञ्चलासती
नेत्रस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् ।हस्तस्नेहेन चैश्वर्य्यं पादस्नेहेन वाहनम्
अकर्म्मकठिनौ हस्तौ पादावध्वनि कोमलौ ।यस्य पाणितलौ रक्तौ तस्य राज्यं विनिर्द्दिशेत्
दीर्घलिङ्गेन दारिद्रं स्थूललिङ्गेन निर्धनः ।कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपतिः
रेखाभिर्बहुभिर्दुःखं स्वल्पाभिर्धनहीनता ।रक्ताभिः श्रियमाप्नोति कृष्णाभिः प्रेष्यतां व्रजेत्अङ्गुष्ठोदरभध्ये तु यवो यस्य विराजितः ।उन्नतं भोजनं तस्य शतं जीवति मानवः
अङ्कुशं कुलिशं छत्रं यस्य पाणितले भवेत् ।तस्यैश्वर्य्यं विनिर्द्दिष्टं अशीत्यायुर्भवेद्ध्रुवम्
धनुर्यस्य भवेत् पाणौ पङ्कजं वाथ तोरणम् ।तस्यैश्वर्य्यञ्च राज्यञ्च अशीत्यायुर्भवेद्ध्रुवम्
कनिष्ठातर्जनीं यावद्रे खा भवति चाक्षता ।विंशत्यब्दाधिकशतं नरो जीवत्यनामयः
कनिष्ठामध्यमां यावद्रेखा भवति चाक्षता ।शताब्दं वाथ वाशीतिं नरो जीवेन्न संशयः
कनिष्ठानामिकायाञ्चेत् रेखा भवति चाक्षता ।षष्टिं पञ्चाशदब्दं वा नरा जीवन्त्यसंशयम्
रेखया भिद्यते रेखा स्वल्पायुश्च भवेन्नरः ।कनिष्ठाधःस्थिता रेखाः संख्या यावतिकाःस्मृताः ।तावती पुरुषाणान्तु नारी भवति निश्चितम्
करमध्यगता रेखा ध्रुवा ऊर्द्धम्भवेद् यदि ।नृपो वा नृपतुल्यो वा ख्यातोऽर्थवान् भवेत्
मत्स्यपुच्छप्रकीर्णेन विद्यावित्तसमन्वितः ।पितामहस्य वा किञ्चिद्धनञ्च लभते ध्रुवम्
मध्यमायां यदि यवा दृश्यन्तेऽत्यन्तशोभनाः ।तदान्यसञ्चितं वित्तं प्राप्नोत्यङ्गुष्ठके यवे
यस्याथ चक्रमङ्गुष्ठे यवः पूर्णश्च दृश्यते ।तदा पितामहादीनामर्ज्जितं धनमाप्नुयात्
तर्जन्यामथ चक्रञ्च मित्रद्वारा धनम्भवेत् ।तेनैव विपरीतन्तु व्ययो भवति निश्चितम्
मध्यमायां स्थिते चक्रे देवद्वारा धनं लभेत् ।तेनैव विपरीतन्तु व्ययो भवति निश्चितम्
अनामिकायां भवेच्चक्रं सर्व्वद्वारा भवेद्धनम् ।तेनैव विपरीतन्तु व्ययो भवति निश्चितम्
कनिष्ठायां भवेच्चक्रं बाणिज्येन धनं भवेत् ।तेनैव विपरीतन्तु व्ययो भवति निश्चितम्
ललाटे दृश्यते यस्य चक्ररेखाचतुष्टयम् ।अशीत्यायुः समाप्नोति पञ्चरेखाः शतं समाः
यस्योन्नतं ललाटञ्च ताम्रवर्णञ्च दृश्यते ।रेखाहीनश्च कक्षश्च चोन्मत्तो महीं भ्रमेत्
यस्य जिह्वा भवेद्दीर्घा नासाग्रं लेढि सर्व्वदा ।योगी भवति निर्व्वाणः पृथ्वीं भ्रमति सर्व्वदा
दन्ताश्च विरला यस्य गण्डे कूपोऽपि जायते ।परस्त्रीरमणो नित्यं परवित्तेन वित्तवान्
कर्कशैः कठिनैर्लिङ्गैः प्रमाणान्निर्गतैः सदा ।रमते सदा दासीं निर्धनो भवति ध्रुवम्
कृशलिङ्गेन सूक्ष्मेण रक्तवर्णेन भूपतिः ।बहुस्त्रीरमणो नित्यं नारीणां वल्लभो भवेत्
यस्य पादतले पद्मं चक्रं वाप्यथ तोरणम् ।अङ्कुशं कुलिशं वापि राजा भवति ध्रवम्
कृशातिलोमशा ये स्यः केकराक्षाः कुचेलकाः ।कातरं व्यालजिह्वाश्च ते दरिद्रा संशयः
कपिला मलिनाङ्गाश्च ह्रस्वाश्चैव बृहन्नखाः ।कृशातिदीर्घा मनुजास्ते दरिद्रा संशयः
चिवुके श्मश्रुशून्या ये निर्लोमहृदयाश्च ये ।ते धूर्त्ता नैव सन्देहः समुद्रवचनं यथा
सूचीमुखा भग्नपृष्ठाः कृष्णदन्ता कुचेलकाः ।वक्रनासा वज्रनासास्ते नरा दुष्टमानसाः
दयालवश्च दातारो रूपवन्तो जितेन्द्रियाः ।परोपकारिणश्चैव तेऽपूर्व्वा मानवाः स्मृताः
”इति पुरुषलक्षणम्
*
अथ स्त्रीलक्षणम् ।“यस्याः पादतले रेखा सा भवेत् क्षितिपाङ्गनाभवेदखण्डभोगा या मध्याङ्गलिसङ्गता
उन्नतो मांसलोऽङ्गुष्ठो वर्त्तुलोऽतुलभोगदः ।वक्रो ह्रस्वश्च चिविटः सुखसौभाग्यभञ्जकः
दीर्घाङ्गुलीभिः कुलटा कृशाभिरतिनिर्धना ।ह्रस्वाभिः स्याच्च ह्रस्वायुः भग्नाभिर्भुग्नवर्त्तिनी
चिविटाभिर्भवेद्दासी विरलाभिर्दरिद्रिणी ।परस्परं समारूढा यदाङ्गुल्यो भवन्ति हि
हत्वा बहूनपि पतीन् परप्रेष्या तदा भवेत् ।स्निग्धा समुन्नतास्ताम्रा वृत्ताः पादनखाःशुभाः
राज्ञीत्वसूचकं स्त्रीणां पादपृष्टं समुन्नतम् ।समपार्ष्णी शुभा नारी पृथुपार्ष्णी सुदुर्भगा
कुलटोन्नतपार्ष्णी स्यात् दीर्घपार्ष्णी दुःख-भाक् ।रोमहीने समे स्निग्धे जङ्घे क्रमवर्त्तुले
सा राजपत्नी भवति विशिरे सुमनोहरे ।वृत्तं पिशितसंलग्नं जानुयुग्मं प्रशस्यते
निर्म्मांसं स्वैरचारिण्या दरिद्रायाश्च विश्लथम् ।विशिरैः करभाकारैरूरुभिर्मसृणैर्घनैः ।सुवृत्तै रोमरहितैभवेयुर्भूपवल्लभाः
चतुर्भिरङ्गु लैः शस्ता कटिर्विं शतिसंयुतैः ।समुन्नतनितम्बाढ्या चतुरस्रा मृगीदृशाम्
नितम्बविम्बो नारीणां उन्नतो मांसलः पृथुः ।महाभोगाय संप्रोक्तः तदन्योऽशर्म्मणाय
गम्भीरा दक्षिणावर्त्ता नाभिः स्यात् सुखसम्पदेवामावर्त्ता समुत्ताना व्यक्तग्रन्थी शोभना
उदरेणाभितुच्छेन विशिरेण मृदुत्वचा ।योषित् भवति भोगाढ्या नित्यमिष्टान्नसेविनी
कुम्भाकारं दरिद्राया जठरञ्च मृदङ्गवत् ।कुष्माण्डाभं यवाभञ्च दुष्पूरं जायते स्त्रियाः
निर्लोम हृदयं यस्याः समं निम्नत्ववर्जितम् ।ऐश्वर्य्यं चाप्यवैधव्यं प्रियप्रेमा सा भवेत् ।घनौ वृत्तौ दृढौ पीनौ समौ शस्तौ पयोधरौ ।स्थूलाग्रौ विरलौ सूक्ष्मौ वामोरूणां शर्म्मदौ
दक्षिणोन्नतवक्षोजा पुत्त्रिणीष्वग्रणीर्मता ।वामोन्नतकुचा सूते कन्यां सौभाग्यसुन्दरीम्
मूले स्थूलौ क्रमकृशावग्रे तीक्ष्णौ पयोधरौ ।सुखदौ बाल्यकाले तु पश्चादत्यन्तदुःखदौ
अम्भोजमुकुलाकारमङ्गुष्ठाङ्गुलिसम्मुखम् ।हस्तद्वयं मृगाक्षीणां बहुभोगाय जायते
मृदुमध्योन्नतं रक्तं तलं पाण्योररन्ध्रकम् ।प्रशस्तं शस्तरेखाढ्यमल्परेखं शुभप्रदम्
विधवा बहुरेखेण विरेखेण दरिद्रिणी ।भिक्षुकी सुशिराढ्येन नारी करतलेन वै
मत्स्येन सुभगा नारी स्वस्तिकेन सुप्रजा ।पद्मेन भूपतेः पत्नी जनयेत् भूपतिं सुतम्
चक्रवर्त्तिस्त्रियाः पाणौ नन्द्यावर्त्तप्रदक्षिणः ।शङ्खातपत्रकमठा राजमातृत्वसूचकाः
कृशीबलस्य पत्नी स्याच्छकटेन युगेन वा ।चामराङ्कु शकोदण्डैः राजपत्नी भवेद् ध्रुवम्
अङ्गुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम् ।यदि स्यात् पतिहन्त्री सा दूरतस्तां त्यजेत्सुधीः
त्रिशूलासिगदाशक्तिदुन्दुभ्याकृतिरेखया ।नितम्बिनी कीर्त्तिमती करेण पृथिवीतले
पाटलो वर्त्तुलः स्निग्धो रेखाभूषितमध्यभूः ।सीमन्तिनीनामधरो राज्ञां चैव प्रियो भवेत्
श्यामः स्थूलोऽधरोष्ठः स्यात् वैधव्यकलहप्रदः ।मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः
पीताः श्यामाश्च दशनाः स्थूला दीर्घा द्विपङ्क्तयः ।शुक्त्याकाराश्च विरला दुःखदौर्भाग्यकारणम् ।अधस्तादधिकैर्दन्तै मातरं भक्षयेत् स्फुटम्
पतिहीना विकटैः कुलटा विरलैर्भवेत् ।समवृत्तपुटा नासा लघुच्छिद्रा शुभावहा
स्थूलाग्रा मध्यनम्रा प्रशस्ता समुन्नता ।ललना लोचने शस्ते रक्तान्ते कृष्णतारके
गोक्षीरवर्णविशदे सुस्निग्धे कृष्णपक्ष्मिणी ।उन्नताक्षी दीर्घायुः वृत्ताक्षी कुलटा भवेत्
मेषाक्षी महिषाक्षी केकराक्षी शोभना ।कामगृहीता नितरां गोपिङ्गाक्षी सुदुर्म्मदा
पारावताक्षी दु शीला रक्ताक्षी भर्त्तृघातिनी ।कोटरानयना दुष्टा गजनेत्रा शोभना
पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका ।मधुपिङ्गाक्षी रमणी धनधान्यसमृद्धिभाक् ।प्रलम्बमलिकं यस्या देवरं हन्ति सा ध्रुवम्
रोमशेन शिरालेन प्रांशुना रोगिणी मता
स्थूलमूर्द्धा विधवा दीर्घशीर्षा बन्धकी ।विशालेनापि शिरसा भवेद्दौर्भाग्यभाजनम्
केशा अलिकुलच्छायाः स्निग्धाः सूक्ष्माः सुको-मलाः ।किञ्चिदाकुञ्चिताग्राश्च कुटिलाश्चातिशोभनाः
भ्रु वोरन्तो ललाटे वा मशको राज्यसूचकः ।वामे कपोले मशकः शोणो मिष्टान्नदः शुभः
तिलकं लाञ्छनं वापि हृदि सौभाग्यकारणम् ।यस्या दक्षिणवक्षोजे भवेत् तिलकलाञ्छनम्
कन्याचतुष्टयं सूते सूते सा सुतद्वयम् ।तिलकं लाञ्छनं शोणं यस्या वामकुचे भवेत्
एकं पुत्त्रं प्रसूयादौ अन्ते विधवा भवेत् ।गुह्यस्य दक्षिणे भागे तिलकं यदि योषितः
तदा क्षितिपतेः पत्नी सूते क्षितिपं सुतम् ।नासाग्रे मशकः शोणो महिष्या एव जायते
कृष्णः एव भर्त्तृघ्न्याः पुंश्चल्या वा प्रकी-र्त्तितः ।नाभेरधस्तात् तिलकं मशको लाञ्छनं शुभम्
मशकस्तिलकं चिह्नं गुल्फदेशे दरिद्रकृत्
सुलक्षणापि दुःशीला कुलक्षणशिरोमणिः
कुलक्षणापि या साध्वी सर्व्वलक्षणभूस्तु सा ।कृष्णा कपिलकेशी मिलितभ्रूकुटिस्तथा ।गमनं सत्वरञ्चैव त्यक्तव्या स्यात् सदा बुधैः
यस्या गमनमात्रेण भूमौ कम्पः प्रजायते ।बह्वाशिनीं प्रलोभाञ्च तां नारीं परिवर्जयेत्
विरला दशना यस्याः कृष्णोष्ठी कृष्णजिह्विकाभर्त्तारं प्रथमं हन्ति द्वितीयञ्चैव विन्दति
अङ्गुली विरला यस्याः सलीमा गात्रकर्कशा ।भेका भेकस्तनी क्षुद्रा दूरतः परिवर्जयेत्
त्रीणि यस्याः प्रलम्बानि ललाटं उदरं भगम् ।त्रीणि सा भक्षयेन्नारी श्वशुरं देवरं पतिम्
ललाटे श्वशुरं हन्यात् जठरे देवरं तथा ।भगञ्च हन्याद्भर्त्तारं महादोषास्त्रयः स्मृताः
यस्या अत्युत्कटं नार्य्या वक्षश्च विस्तृतं भवेत् ।उत्तरोष्ठे लोमानि शीघ्रं सा भक्षयेत्पतिम्
चरणानामिका यस्याः क्षितिं स्पृ शते यदि ।द्वितीया वा तृतीया वा सा कन्या सुख-वर्ज्जिता
नासाग्रे दृश्यते यस्याः तिलकं मशकोऽपि ।कृष्णदन्ता कृष्णजिह्वा दशाहेन पतिं हरेत्
सूक्ष्मकेशा तु या कन्या गीरवर्णा या भवेत्अष्टौ जनयते पुत्त्रान् प्राप्नोति विपुलं सुखम्
”इति सामुद्रके स्त्रीलक्षणं समाप्तम्
(समुद्रसम्बन्धिनि, त्रि यथा, महाभारते ।५ ३५ ४४ ।“सामुद्रकं बाणिजकञ्च चौरंशलाकवृत्तिञ्च चिकित्सकञ्च ।अरिञ्च मित्रञ्च कुशीलवञ्चनैतान् साक्ष्ये त्वधीकुर्व्वीत सप्त
”)