| YouTube Channel

सामुद्रं (sAmudraM)

 
शब्दकल्पद्रुमः
Sanskrit
सामुद्रं,
क्ली,
(समुद्रे भवम् अण् ।) समुद्र-लवणम् इति हेमचन्द्रः
करकच् इतिभाषा तत्पर्य्यायः ।“सामुद्रं यत्तु लवणं त्रिकुटं कडकञ्च तत्
”इति रत्नमाला
अस्य गुणाः ।“सामुद्रं लवणं पाके नात्युष्णमविदाहि ।भेदनं मधुरं स्निग्धं शूलघ्नं नातिपित्तलम्
”इति राजवल्लभः
अन्यत् समुद्रलवणशब्दे द्रष्टव्यम्
*
समुद्रफेनम् इति राजनिर्घण्टः
(समुद्रेणऋषिणा प्रोक्तमिति अण् ।) देहचिह्नम् ।इति मेदिनी
(तल्लक्षणान्वितग्रन्थविशेषः ।इति केचित्
) समुद्रजाते, त्रि इति चमेदिनी
(पुं, समुद्रगामी बणिक् यथा, याज्ञवल्क्ये ३८ ।“कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् ।दद्युर्व्वा स्वकृतां वृद्धिं सर्व्वे सर्व्वासु जातिषु
”मशकविशेषः यथा, सुश्रुते ।“मशकाः सामुद्रः परिमण्डलो हस्तिमशकःकृष्णः पार्व्वतीय इति पञ्च तैर्दष्टस्य तीव्रकण्डू-र्दंशः शोफश्च पार्व्वतीयस्तु कीटैः प्राणहरै-स्तुल्यलक्षणः
*
देशविशेषः यथा, मार्क-ण्डेये ५८ १३ ।“प्राग्ज्योतिषाः सलौहित्याः सामुद्राः पुरुषा-दंकाः ।* * * *वर्द्धमानाः कोशलाश्च मुखे कूर्म्मस्य संस्थिताः
”)