| YouTube Channel

सामान्या (sAmAnyA)

 
Monier Williams Cologne
English
सामान्या (आ),
f.
a common female, prostitute,
L.
L R Vaidya
English
sAmAnya {% (I) a. (f. न्या) %} 1. Common, general, equal, आहारनिद्राभयमैथुनं सामान्यमेतत्पशुभिर्नराणाम् Hit.i., K.S.vii.44
2. entire, whole
3. vulgar, ordinary, commonplace, insignificant.
शब्दकल्पद्रुमः
Sanskrit
सामान्या,
स्त्री,
(सामान्य + टाप् ।) साधारणीनायिका अस्या लक्षणम् धनमात्रलाभार्थ-सकलपुरुषाभिलासा
सा त्रिधा अन्यसम्भोग-दुःखिता वक्रोक्तिगर्व्विता मानवती ।वक्रोक्तिगर्व्वितापि द्विविधा प्रेमगर्व्वितासौन्दर्य्यगर्व्विता एता नायिका अवस्थाभेदेनप्रत्येकं अष्टप्रकारा भवन्ति यथा ! प्रोषित-भर्त्तृका खण्डिता कलहान्तरिता विप्र-लब्धा उत्कण्ठिता वासकसज्जा स्वाधीन-पतिका अभिसारिका इति रस-मञ्जरी
(यथा साहित्यदर्षणे ।१११ -- ११२ ।“धीरा कलाप्रगल्भा स्याद्वेश्या सामान्य-नायिका ।निर्गुणानपि द्वेष्टि रज्यति गुणिष्वपि ।वित्तमात्रं समालोक्य सा रागं दर्शयेद् बहिः
काममङ्गीकृतमपि परिक्षीणधनं नरम् ।मात्रा निष्क्रामयेदेषा पुनः सन्धानकाङ्क्षया
तस्कराः पण्ड्रका मूर्खाः सुखप्राप्तधनास्तथा ।लिङ्गिनश्छन्नकामाद्या आसां प्रायेण वल्लभाः
एषापि मदनासक्ता क्वापि सत्यानुरागिणी ।रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम्
”पण्ड्र को वातरोगपण्ड्रादिः छन्नं प्रच्छन्नं येकामयन्ते ते छन्नकामाः तत्र रागहीना यथानटकमेलकादौ मदनमञ्जर्य्यादिः रक्ता यथामृच्छकटिकादौ वसन्तसेनादिः पुनश्च ।“अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः
स्वाधीनभर्त्तृका तद्वत् खण्डिताथाभिसारिकाकलहान्तरिता विप्रलब्धा प्रोषितभर्त्तृका ।अन्या वासकसज्जा स्याद्विरहोत्कण्ठितातथा
”एतासां लक्षणाणि तु तत्तच्छ्यब्दे विशेषतोद्रष्टव्यानि
)
वाचस्पत्यम्
Sanskrit
सामान्या स्त्री समानैव स्वार्थे ष्यञ् अजा० टाप् साधा-रणस्त्रियां वेश्यायाम् “धनमात्रलाभार्थं सकलपुरुषाभि-लाषा सा त्रिधा अन्यसम्भोगदुःखिता भानवतीवक्रोक्तिगर्विता सापि द्विविधा प्रेमगर्विता सौन्दर्य्यगर्विता च” रसमञ्जरी