| YouTube Channel

सामान्यलक्षणा (sAmAnyalakSaNA)

 
Spoken Sanskrit
English
सामान्यलक्षणा sAmAnyalakSaNA
f.
one of the three alaukika or transcendental perceptions or saMnikarSas
Monier Williams Cologne
English
सामान्य—लक्षणा (आ),
f.
(in Nyāya) one of the three A-laukika or transcendental perceptions or Saṃnikarṣas,
MW.
N.
of various works.
Aufrecht Catalogus Catalogorum
English
सामान्यलक्षणा ny. Pheh 12. 13. Oppert 7708.
--by Raghunātha. Oudh XV, 96.
सामान्यलक्षणा CS 3, 244 (fr.). C. Hz. 825.
--by Raghunātha Śiromaṇi. CS 3, 484 (fr.).
--by Gadādhara. Lz. 953 (on Raghunātha). CS 2,
248 (fr.).
--by Jagadīśa. CS 3, 255 (inc.). 258. 463. 483 (inc.).
491 (inc.). 512 (inc.).
Wordnet
Sanskrit
Synonyms:
सामान्यलक्षणा
noun
कृतिविशेषः
"सामान्यलक्षणा इति नामकानां नैकासां कृतीनाम् उल्लेखः कोषे अस्ति"
शब्दकल्पद्रुमः
Sanskrit
सामान्यलक्षणा,
स्त्री,
(सामान्यं साधारणधर्म्मःलक्षणं यस्याः ।) अलौकिकसन्निकर्षविशेषः ।स तु आश्रयज्ञापकसामान्यज्ञानम् यथा ।एकघटदर्शने सकलघटज्ञानं भवति ईदृशघट-त्वादिज्ञानम् तत्समाणं यथा, भाषापरि-च्छेदे ।“अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः ।सामान्यलक्षणा ज्ञानलक्षणा योगजस्तथा
आसर्त्तिराश्रयाणान्तु सामान्यज्ञानमिष्यते ।तदिन्द्रियजतद्धर्म्मबोधसामग्र्यपेक्षते
वाचस्पत्यम्
Sanskrit
सामान्यलक्षणा स्त्री सामान्यं साधारणधर्मः लक्षणंयस्याः न्यायोक्ते अलौकिकप्रत्यक्षसाधने उपायभेदेसन्निकर्षशब्दे दृश्यम् यथा एकघटज्ञाने घटत्वरूपसा-मान्यधर्मज्ञानात् सकलस्य घटत्ववतो ज्ञानम् ।तस्याः प्रत्यासत्तित्व मणिकृता व्यवस्थापितं यथा“व्याप्तिग्रहश्च सामान्यलक्षणाप्रत्यासत्त्या सकलधूमादि-विषयकः कथमन्यथा पर्वतीयधूमे व्याप्त्यग्रहे तस्मादनु-मितिः सा चेन्द्रियसम्बद्धविशेषणतातिरिक्तैव वा तद्-विशेष्यकप्रत्यक्षे तदिन्द्रियसन्निकर्षस्य हेतुत्वेनानागतादौसंयोगादेरभावादिति वदन्ति” ।तस्याः अप्रत्यासत्तित्वमाशङ्क्य सिद्धान्तितं तत्रैव चिन्तमणि-कृता “उच्यते यदि सामान्यलक्षणा नास्ति तदानुकूलत-र्कादिकं विना धूमादौ व्यभिचारसंशयो स्यात् प्रसिद्ध-धूमे वह्निसम्बन्धावगमात् कालान्तरीयदेशान्तरीयधूमस्यमानाभावेनाज्ञानात् सामान्येन तु सकलधूमोपास्थितौधूमान्तरे विशेषादर्शनेन संशयो युज्यते” ।अत्र दोधितिः “अत्र सामान्यं लक्षणं स्वरूपं यस्याइत्यर्थे सामान्यमेव प्रत्यासत्तिः सामान्यं लक्षणं निरू-पकं यस्या इत्यर्थे तु तज्ज्ञानम् तत्राद्यमाह साचेन्द्रियेति इन्द्रियेण सम्बद्धं धूमादि तस्य विशेषणं तद्-विशेष्यकज्ञानप्रकारो धूमत्वादिरित्यर्थः विशेषणतेत्यत्रभावार्थो बिवक्षितः तत्र विशेषणत्वं यस्या इति बहु-व्रीहिवां सम्बद्धपदस्यैव वा परम्परासम्बन्धस्तत्सम्बन्ध-विशेष्यकज्ञानप्रकारोऽर्थः तथाच सैव विशेषणतेत्यर्थः ।अत्र बहिरिन्द्रियस्य लौकिकः सम्बन्धो ज्ञानस्यतदिन्द्रियजन्यत्वञ्च नियामकम् एवञ्चाणुत्वेन यत्किञ्चि-दणूपस्थितावपि सकलाणुगोचरो मानलो बोध इतिवदन्ति एतेन धूलीपटले धूमभ्रमे तत्र वह्निव्याप्तिग्रहेतत्रासता धूमत्वेन धूमेषु व्याप्त्यग्रहाद्धूमदर्शनाद्वह्न्यनु-मितिर्न स्यात् हेत्वभावेन परामर्शानुत्पादात् किञ्च धर्मिशिदोषवशान्नयनेनागृह्यमाणेन स्मरणप्रकारीभवता सामा-न्येन गृह्यमाणेन वा लौकिकसन्निकर्षविगमेऽपि चा-क्षुषज्ञानापत्तिरिति परास्तम् सामान्यञ्च सखण्डा-खण्डभेदेन द्वेधा सखण्डे चाखण्डमेव परम्परया सम्बद्धंप्रत्यासत्तिः येन सम्बन्धेन चेन्द्रियसम्बद्धे सामान्यं ज्ञा-यते तेन सम्बन्धेनाधिकरणानां ग्रत्यासत्तिरिति” ।दीधीतिकृता तु स्वमते सामान्यलक्षणायाः प्रत्यासत्तित्वंनिराकृतं तत्र दृश्यम् तच्च विस्तरभयादिह नोक्तम्