| YouTube Channel

सापिण्ड्यं (sApiNDyaM)

 
शब्दकल्पद्रुमः
Sanskrit
सापिण्ड्यं,
क्ली,
(सपिण्डस्य भावः सपिण्ड +ष्यञ् ।) सपिण्डतां सा तु पुं सां सप्तमपुरुष-पर्य्यन्तं अनूढकन्यानां त्रिपुरुषपर्य्यन्तञ्च स्था-यिनी यथा, --“लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनःपिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्इति मत्स्यपुराणम्
अप्रत्तानां त्रिपौरुषम् इति वशिष्ठः
अपि च“पित्रादिषड्भिः सापिण्ड्यं तत्तत्सन्ततिसप्तकैःगोत्रैक्ये सति तत्तु स्यात् षड्भिः पुत्त्रादिभि-स्तथा ।अप्रत्तानान्तु कन्यानां त्रिभिः पित्रादिभिःस्मृतम्
”इति कारिका
अन्यत् सपिण्डशब्दे द्रष्टव्यम्