| YouTube Channel

सान्निध्यं (sAnnidhyaM)

 
शब्दकल्पद्रुमः
Sanskrit
सान्निध्यं,
क्ली,
(सन्निधिरेव सन्निधि + “चातु-र्व्वर्ण्यादीनां स्वार्थ उपसंख्यानम् ।” ।१२४ इत्यस्य वार्त्तिकोक्त्या स्वार्थे व्यञ् ।)निकटम् यथा, --“अच्चेकस्य तपोयोगात् अर्च्चनस्यातिशायनात् ।आभिरूप्याच्च विम्बानां देवः सान्निध्य-मृच्छति
”इति तिथ्यादितत्त्वम्