| YouTube Channel

सान्त्वं (sAntvaM)

 
शब्दकल्पद्रुमः
Sanskrit
सान्त्वं,
क्ली,
(सान्त्व सान्त्वने + घञ् ।) अत्यर्थ-मधुरम् तत्तु कर्णमनःप्रीतिजनकं वाक्यम् ।(यथा, महाभारते १४० ।“कानि सान्त्वानि गोविन्दः सूतपुत्त्रे प्रयुक्त-वान्
”)साम तच्च प्रियवादार्थप्रदानसम्बन्धादिभिःक्रोधोपशमनम् इत्यमरभरतौ
(यथा, माघे ५४ ।“चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया ।स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति
”दाक्षिण्यम् इति मेदिनी