| YouTube Channel

सान्तपनं (sAntapanaM)

 
शब्दकल्पद्रुमः
Sanskrit
सान्तपनं,
क्ली,
(सन्तपतीति सम् + तप + ल्युः ।ततः स्वार्थे अण् ।) व्रतविशेषः इत्यमरः ।७ ५२
यथा, --“गोमूत्रं गोमयं क्षिरं दधि सर्पिः कुशोदकम्
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम्
”इति मानवे ११ अध्यायः
गोमूत्रामति गोमूत्रादि एकीकृत्य एकस्मिन्न-हनि भक्षयेत् नान्यत् किञ्चिदद्यात् अपरदिनेचोपवासः इत्येतत् सान्तपनं कृच्छ्रं स्मृतम् ।यदा तु गोमूत्रादिषट् प्रत्येकं षड्दिनान्युप-भुज्यते सप्तमे दिने चोपवासः तदा महासान्त-पनं भवति तथा याज्ञवल्क्यः ।“कुशोदकञ्च गोक्षीरं दधि मूत्रं शकृद् घृतम्जग्ध्वा परेऽह्न्युपवसेत् कृच्छ्रं सान्तपनञ्चरन्
पृथक्सान्तपनद्रव्यैः षडहःसोपवासिकः ।सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनं स्मृतम्
”इति कुल्लूकभट्टः
गारुडे १०५ अध्यायेऽप्येवम्
(सन्तापके, त्रि
यथा, ऋग्वेदे ५९ ।“सान्तपना इदं हविर्मरुतस्तज्जुजुष्टन
”“सान्तपनाः शत्रूणां संतापका हे मरुतः
”इति तद्भाष्ये सायणः
सन्तपनस्य सूर्य्यस्येद-मिति अण् सूर्य्यसम्बन्धिनि त्रि यथा, वाजसनेयसंहितायाम् १७ ८५ ।“स्वतवाँश्च प्रघासी सान्तपनश्च गृहमेधी ।”‘सन्तपनः सूर्य्यस्ततसम्बन्धी सान्तपनः ।’ इतितद्भाष्यम्
)