| YouTube Channel

सानन्दूर (sAnandUra)

 
Monier Williams Cologne
English
सानन्दूर
N.
of a Tīrtha,
Cat.
Monier Williams 1872
English
सानन्दूर सानन्दूर, अस्, m., N. of a Tīrtha.
—सानन्दूर-माहात्म्य, अम्, n. ‘the glory of
स्°, N. of a chapter in the Vārāha-Purāṇa.
शब्दकल्पद्रुमः
Sanskrit
सानन्दूरः,
पुं,
तीर्थविशेषः यथा, --धरण्युवाच ।“द्वारकातः परं श्रेष्ठं अस्ति गुह्मं परं क्वचित्ततो महीवचः श्रुत्वा विष्णुः कमललोचनः ।वाराहरूपी भगवान् प्रत्युवाच वसुन्धराम्
वराह उवाच ।सानन्दूरेति विख्यातं भूमे ! गुह्यं परं मम ।उत्तरे तु समुद्रस्य मलयस्य दक्षिणे ।तत्र तिष्ठामि वसुधे उदीचीदिशमाश्रितः
प्रतिमा वै मदीयास्ति नात्युच्चा नातिनीचका ।आयसीं तां वदन्त्येके अन्येताम्रसयीं तथा
कांस्यीं रीतिमयीमन्ये केवित् सीसकनिर्मिताम्शिलामयीमित्यपरे महदाश्चर्य्यरूपिणीम् ।तत्र स्थानानि मे भूमे कथ्यमानं मया शृणु
मनुजा यत्र मुच्यन्ते गताः संसारसागरम् ।तत्राश्चर्य्यं प्रवक्ष्यामि सानन्दूरे यशस्विनि !
सौवर्णं दृश्यते पद्मं मध्याह्ने तु दिवाकरे ।यत्र रामगृहं नाम मम गुह्यं यशस्विनि
तत्रापि शृणु चाश्चर्य्यं यच्चापि परिवर्त्तते ।एवं तत्र लता वृक्षमुच्चस्थूलमहाद्रुमम् ।समुद्रमध्ये तिष्ठन्तं सोऽपि तत्र पश्यति
*
अन्यच्च ते प्रवक्ष्यामि महाश्चर्य्यं शृणुष्व मे ।मम भक्तांश्च पश्यन्ति तिष्ठन्तो हि स्वकर्म्मणा
बहुमत्स्यसहस्राणि कोट्यो ह्यर्व्वुदमेव ।क्षिप्तः पिण्डश्च तन्मध्ये येन केन विकर्म्मिणा
एकस्तत्र स्थूलमत्स्यो भूमिचक्रेण चाङ्कितः ।तावत् कश्चिन्न गृह्णाति यावत्तेन भक्षितः
तत्र रामसरं नाम तस्मिन् क्षेत्रे परं मम ।अगाधञ्चाप्यपारञ्च रक्तपद्मविभूषितम्
तत्र स्नानन्तु कुर्व्वीत एकरात्रोषितो नरः ।बुधस्य भवनं गत्वा मोदते नात्र संशयः
अथ प्राणान् प्रमुच्येत रम्ये रामसरे तथा ।बुधस्य भवनं त्यक्त्वा मम लोकञ्च गच्छति
तत्र रामसरे भूमे महाश्चर्य्यं शृणुष्व मे ।मनुजास्तत्र पश्यन्ति मम कर्म्मपरायणाः
सत्सरः क्रोशविस्तारं बहुगुल्मलताकुलम् ।मनोज्ञं रमणीयञ्च जलजैश्चापि संवृतम्
तत्र मूढालिपद्मानि द्योतयन्ति दिशो दश ।एकन्तु दृश्यते श्वेतमेकं रुक्ममयं तथा
तत्र ब्रह्मसरं नाम गुह्यं क्षेत्रे परं मम ।उत्तरेण तु पार्श्वेन मम क्षेत्रस्य सुन्दरि
तत्र कुण्डं महाभागे पर्व्वते समाश्रितम् ।धारा यत्र पतेच्चैव स्थूला मुषलसन्निभा
तत्र स्नानञ्च कुर्व्वीत षष्ठकालोषितो नरः ।ब्रह्मलोकं समासाद्य मोदते नात्र संशयः
अथ प्राणान् प्रमुच्येत तत्र ब्रह्मसरे मम ।ब्रह्मणा समनुज्ञातो मम लोकञ्च गच्छति
तत्राश्चर्य्यं महाभागे रम्ये ब्रह्मसरे शृणु ।मद्भक्ता यानि पश्यन्ति घोरं संसारमोक्षणम्
चतुर्व्विंशतिद्वादश्यां सा धारा पृथलेक्षणे ।मध्याह्ने पतते भूमे यावत् सूर्य्यः तिष्ठति
परावृत्ते तु मध्याह्ने सा धारा पतेद्भुवि ।एवं तत्र महाश्चर्य्यं पुण्ये ब्रह्मसरे मम
”इति वाराहे सानन्दूरमाहात्म्यनामाध्यायः
वाचस्पत्यम्
Sanskrit
सानन्दूर
पु०
तीर्थविशेषे “सानन्दूरेति विख्यातं भूमे! गुह्यंपरं मम उत्तरे तु समुद्रस्य मलयस्य दक्षिणे तत्रतिष्ठाभि वसुधे! उदीचीं दिशमाश्रितः प्रतिमा वैमदीयास्ति नात्युच्चा नातिनीचका आयसीं तां वद-न्त्येके अन्ये ताम्रमयीं तथा कास्यां रोतिमयीमन्येकेचित् सीसकनिर्मिताम् शिलामयीमित्यपरे महा-श्चर्य्यस्वरूपिणीम्” वराहपु०