| YouTube Channel

साध्यसिद्धिपादः (sAdhyasiddhipAdaH)

 
शब्दकल्पद्रुमः
Sanskrit
साध्यसिद्धिपादः,
पुं,
(साध्यस्य सिद्धिर्यत्र तादृशःपादः ।) व्यवहारस्य चतुर्थपादः निर्णय-पादः यथा प्रत्यर्थिनोऽग्रतो लेख्यमितिभाषापादः प्रथमः श्रुतार्थस्योत्तरं लेख्यमित्यु-त्तरपादो द्वितोयः ततोऽर्थो लेखयेत् सद्य इतिक्रियापादस्तृतीयः तत्सिद्धौ सिद्धिमाप्नोतिइति साध्यसिद्धिपादश्चतुर्थः यथा, --“भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः ।आक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते
”इति मिताक्षरा