| YouTube Channel

साध्यसम (sAdhyasama)

 
Spoken Sanskrit
English
साध्यसम sAdhyasama
m.
petitio principii
स्वाश्रय svAzraya
m.
begging the question [ petitio principii ]
साध्यसम sAdhyasama
m.
assertion identical with the point to be proved
साध्यसम sAdhyasama
m.
petitio principii
Monier Williams Cologne
English
साध्य—सम
m.
an assertion identical with the point to be proved, petitio principii,
Sarvad.
Nyāyad.
वाचस्पत्यम्
Sanskrit
साध्यसम
पु०
हेत्वाभासभेदे “साध्याविशिष्टः साध्यत्वात् सा-ध्यसमः” गौ० सू० “द्रव्यं छायेति साध्यम् गतिमत्त्वा-दिति हेतुः साध्येनाविशिष्टः साधनीयत्वात् साध्य-समः अयमप्यसिद्धत्वात् साध्यवत् प्रतिज्ञापयितव्यः ।साध्यं तावदेतत् किं पुरुषवच्छायापि गच्छति? आहोस्विदावरकद्रव्ये संसर्पत्यावरणसंतानादसंनिघिसंतानोऽयंतेजसो गृह्यत इति? सर्पता खलु द्रव्येण यो यस्ते-जोभाग आव्रियते तस्य तस्यासंनिधिरेवावच्छिन्नोगृह्यत इति आवरणं तु प्राप्तिप्रतिषेधः” वात्स्या०२ जात्युत्तरभेदे “उभयसाध्यत्वात् साध्यसमः” गौ०सू० “हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः तंदृष्टान्ते प्रसजतः साध्यसमः यदि यथा लोष्टस्तथात्माप्राप्तस्तर्हि यथात्मा तथा लोष्ट इति साध्यश्चायमात्माक्रियावानिति कामं लोष्टोऽपि साध्यः अथ नैवम् ।न तर्हि यथा लोष्टस्तथात्मा” वात्स्या० तच्च “पक्षदृष्टान्वादेः प्रकृतसाध्यतुल्यतापादनम्” गौ० पृ० दृष्टान्तस्य-पक्षतुल्यताकथनम् यथा, आत्मा सक्रियः क्रियाहेतु-गुणवत्त्वादित्यादौ यदि यथा लोष्टस्तथात्मेति त्वयोच्यतेतदा यथात्मा तथा लोष्ट इत्यप्यायातम् तथा चयद्यात्मनि क्रियावत्त्वं साव्यते तर्हि लोष्टेऽपि तत्-साधनीयम् नेति चेत्तर्हि यथा लोष्टस्तथात्मेति नवाच्यम लोष्टसदृश आत्मात्ममदृशो लोष्ट इत्यत्र निया-मकाभावादिति” नीलकण्ठः