| YouTube Channel

साध्यतावच्छेदकं (sAdhyatAvacchedakaM)

 
शब्दकल्पद्रुमः
Sanskrit
साध्यतावच्छेदकं,
क्ली,
(साध्यतामवच्छिनत्तीति ।अव + छिद + ण्वुल् ।) अनुमितिविधेयांशेभासमानो धर्म्मः यथा साध्यतावच्छेदकमितिअनुमितिविधेयतावच्छेदकमित्यर्थः तथाचोक्तव्याप्तिज्ञानाद्दण्ड्यंशे दण्डत्वप्रकारिकादण्ड-त्ववत्त्वानित्येकानुमितिर्न तु दण्डिमान् इत्या-कारा दण्डप्रकारिकापि तस्य व्यापकतावच्छे-दकत्वेनाग्रहात् कारणवाधेन तदसम्भवादितिभावः इति सिद्धान्तलक्षणस्य जागदीशीटीका