| YouTube Channel

साध्यः (sAdhyaH)

 
Apte Hindi
Hindi
साध्यः
पुं*
- साध् + णिच् + यत्
दिव्य प्राणियों का एक विशेष वर्ग
साध्यः
पुं*
- साध् + णिच् + यत्
देवता
साध्यः
पुं*
- साध् + णिच् + यत्
एक मन्त्र का नाम
शब्दकल्पद्रुमः
Sanskrit
साध्यः,
पुं,
(साध्यमस्त्यस्येति अर्शआदित्वादच् ।)गणदेवताविशेषः इत्यमरः १०
तु द्वादशसंख्यकः यथा, भरतः ।“साध्या द्वादशविख्याता रुद्राश्चैकादश स्मृताः
”तेषां नामानि यथा, --“मनो मन्ता तथा प्राणो नरोऽपानश्च वीर्य्यवान् ।विनिर्भयो नयश्चैव दसो नारायणो वृषः ।प्रभुश्चेति समाख्याताः साध्या द्वादश पौर्व्विकाः
”इति वह्निपुराणे गणभेदनामाध्यायः
*
देवः विष्कम्भादिसप्तविंशतियोगान्तर्गतैकविंश-योगः इति मेदिनी
तत्र जातफलम् ।“असाध्यसाध्यः किल साध्यजातःशूरोऽतिधीरो विजितारिपक्षः ।बुद्ध्या ह्युपायैः परिसाधितार्थःपरं कृतार्थः सुतरां विनीतः
”इति कोष्ठीप्रदीपः
साध्यः, त्रि, (साध + ण्यत् ।) साधनीयः इतिमेदिनी
यथा, --“ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।ऊने वाप्यधिके चार्थे प्रोक्ते साध्यं सिध्यति
”इति मिताक्षराधृतकात्यायनवचनम्
साधनार्हाभिमतः तु पक्षः यथा, --“प्रतिज्ञादोषनिर्म्मुक्तं साध्यं सत्कारणान्वितम् ।निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः
”साध्यं साधनार्हाभिमतं पक्षं विदुः यद्यप्यन्नत्रसाध्यं ज्ञाप्यं तद्विशिष्टधर्म्मी पक्ष इति भेद-स्तथाप्यत्र वाक्प्रत्याय्यर्णादिधर्म्मविशेषविशि-ष्टस्य पक्षतया धर्म्मिणोऽधमर्णपदैरेव साध्यत्वात्साध्यपक्षयोरभेदाभिधानम् इति व्यवहार-तत्त्वम्
*
अनुमितिविधेयः यथा साध्यता-वच्छेदकमिति अनुमितिविधेयतावच्छेदक-मित्यर्थः इति सिद्धान्तलक्षणजागदीशीटीका
मन्त्रविशेषः यथा, --“नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् ।चतुर्भिः कोष्ठैरेकैकमिति कोष्ठचतुष्टयम्
पुनः कोष्ठगकोष्ठेषु सव्यतो नाम्न आदितः ।सिद्धः साध्यः सुसिद्धोऽरिः क्रमाज्ज्ञेया मनी-षिभिः
सिद्धः सिध्यति कालेन साध्यस्तु जपहोमतः ।सुसिद्धो ग्रहणमात्रेण अरिर्मूलं निकृन्तति
”इति तन्त्रसारः