| YouTube Channel

साधारणः (sAdhAraNaH)

 
शब्दकल्पद्रुमः
Sanskrit
साधारणः, त्रि, (आधारणं अविशेषेण कार्य्यादि-भारधारणं तेन सह वर्त्तते इति ।) समानः ।सदृशः इत्यमरः १० ३७
(यथा, कुमारे ४२ ।“कण्ठस्य तस्याः स्तनबन्धुरस्यमुक्ताकलापस्य निस्तलस्य ।अन्योन्यशोभाजननात् बभूवसाधारणो भूषणभूष्यभावः
”)सामान्यम् अनेकसम्बन्ध्येकवस्तु इति चामरः ।३ ८२
यथा, --“साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधम् ।शौर्य्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः
”इति दायभागः
तद्वैदिकपर्य्यायः स्वः पृश्निः नाकः ३गौः विष्टप् नभः इति षट् साधा-रणनामानि इति वेदनिघण्टौ
*
पुं,
न्यायमते हेत्वाभासविशेषः यथा, --“अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः ।कालात्ययापदिष्टश्च हेत्वाभासस्तु पञ्चधा
आद्यः साधारणस्तु स्यात् स्यादसाधारणो-ऽपरः ।तथैवानुपसंहारी त्रिधानैकान्तिको भवेत्
यः सपक्षे विपक्षे तु साधारणो मतः ।यस्तूभयस्माद्व्यावृत्तः त्वसाधारणो मतः
तथैवानुपसंहारी केवलान्वयिपक्षकः
”इति भाषापरिच्छेदः
(देशविशेषः
क्ली,
उदकविशेषश्च यथा, --“मिश्रचिह्नस्तु यो देशः हि साधारणः स्मृतः ।तस्मिन् देशे यदुदकं तत्तु साधारणं स्मृतम्
”इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे
“उभयगुणसमेतं नातिरुक्षं स्निग्धंन खरबहुलञ्च स्नेहनं कण्टकाढ्यम् ।भवति जलमल्पं नातिशीतं नचोष्णंसमप्रकृतिसमेतं विद्धि साधारणञ्च
”इति हारीते प्रथमस्थाने चतुर्थेऽध्याये
“जाङ्गलं वातभूयिष्ठमनूपन्तु कफोल्वणम् ।साधारणं सममलं त्रिधा भूदेशमादिशेत्
”इति वाभटे सूत्रस्थाने प्रथमेऽध्याये
)