साधनं (sAdhanaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritसाधनं, (साध + ल्युट् ।) करणकारक-विशेषः । तत्र तृतीया स्यात् । इति व्याकर-रणम् ॥
साध्यते कर्म्म निष्पाद्यतेऽनेनेति साध-नम् । इति दुर्गादासः ॥
(कारणम् । हेतुः ।यथा, मनुः । ११ । २३८ ।“औषधान्यगदो विद्या दैवी च विविधास्थितिः ।तपसव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥
”)मारणम् । (यथा, किराते । १४ । १७ ।“अथो शरस्तेन मदर्थमुज्झितःफलञ्च तस्य प्रतिकायसाधनम् ।अविक्षते तत्र मयात्मसात् कृतेःकृतार्थता नन्वधिका चमूपतेः ॥
”)मृतसंस्कारः । अग्निदानम् । गतिः । गमनम् ।द्रव्यम् । धनम् । अर्थदापनम् । अर्थस्य धन-भूम्यादेर्द्दापनम् । निर्व्वर्त्तनम् । निष्पादनम् ।(यथा, रघुः । ४ । १६ ।“वार्षिकं सञ्जहारेन्द्रः धनुर्जैत्रं रघुर्दधौ ।प्रजार्थसाधने तौ हि पर्य्यायोद्यतकार्म्मुकौ ॥
”)उपकरणम् । सामग्री । यथा युद्धोपकरणंहस्त्यश्वादिः । (यथा, ऋतुसंहारे । ६ । ३४ ।“रम्यः प्रदोषसमयः स्फुटचन्द्रभासःपुंस्कोकिलुस्य विरुतं पवनः सुगन्धिः ।मत्तालियूथविरुतं निशि शीधुपानंसर्व्वं हि साधनमिदं कुसुमायुधस्य ॥
”)अनुव्रज्या । अनुगमनम् । इत्यमरभरतौ । ३ ।३ । ११९ ॥
सैन्यम् । सिद्धौषधिः । उपायः ।इति मेदिनी ॥
यथा, --“तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः ।दुर्भगत्वं वृथा लोको वहते सति साधने ॥
”इति तिथ्यादितत्त्वधृतमत्स्यपुराणवचनम् ॥
मेढ्रः । इति च मेदिनी ॥
मैत्रम् । उधः ।सिद्धिः । इति धरणिः ॥
कारकः । प्रमाणम् ।इति हेमचन्द्रः ॥
व्याप्यम् । यथा, --“अनुमा त्वनुमानं स्यात् व्याप्यं लिङ्गञ्चसाधनम् ।”इति त्रिकाण्डशेषः ॥
मोहनम् । जवः । इत्यजयः ॥
साधना । साधाइति भाषा । यथा, --ब्रह्मोवाच ।“शशाप पार्व्वती रुष्टा स्त्रीस्वभावाच्च चापलात् ।सर्व्वेषां साधनेनैव क्षन्तुमर्हन्ति साधवः ॥
”इति ब्रह्मवैवर्त्ते गणेशखण्डे । १२ । ५१ ॥
मन्त्रसिद्धिकरणम् । यथा, --“मत्स्यं मांसञ्च मद्यञ्च मुद्रा मैथुनमेव च ।दिव्यानाञ्चैव वीराणां साधनं भवसाधनम् ॥
”इति मुण्डमालातन्त्रम् ॥
ब्रह्मज्ञानसाधनन्तु नित्यानित्यवस्तुविवेकेहामुत्र-फलभोगविरागशमदमादिसम्पन्मुमुक्षुत्वम् । इतिवेदान्तसारः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
