सादकः-दिका (sAdakaH-dikA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“षदॢ विशरणगत्यवसादनेषु”@} 2 ज्वलादिः।
‘ज्वलादेश्च तुदादेश्च सीदेद् विशरणादिके।
पद्यतेरर्थ आसीदेद् आसादयति चाङि यौ।।’ 3 देवः।
“-- ‘विशमृशणुदप्रवेशामर्शक्षेपेषु षदॢ विशरणार्थः।’ इति च श्लोकधातु- पाठः।” इति पुरुषकारः।
सादकः-दिका, सादकः-दिका, सिषत्सकः-त्सिका, 4 सासदकः-दिका
5 सत्ता-सत्त्री, सादयिता-त्री, सिषत्सिता-त्री, सासदिता-त्री
इत्यादीनि समस्तान्यपि रूपाणि भौवादिकखदतिवत् 6 ज्ञेयानि।
7 निषीदन्-प्रतिसीदन्-न्ती, 8 9 निषादः, सादः-सदः, 10 प्रासादः, 11 उपनिषत्-परिषत्-शुचिषत्-द्युसत्-दिविषत्, 12 बृसी, 13 विषण्णः-विषण्णवान्, 14 निषिषत्सुः, 15 सेदिवान्, 16 सद्रुः, 17 निषद्या, 18 सादी, 19 सेदिः
20 सदः, 21 निषद्वरः, 22 सादिः, 23 24 सत्त्रम् इतीमानि विशेषरूपाणि।
01 (१८१४)
02 (१-भ्वादिः-८५४-सक। अनिट्। पर।)
03 (श्लो। १०८)
04 [[६। ‘लुपसद--’ (३-१-२४) इति भावगर्हायां यङ्। भावगर्हा = धात्वर्थे कुत्साविशिष्ट- त्वम्। गर्हितं सीदति सासद्यते। अयं यङ् ‘धातोरेकाचः--’ (३-१-२२) इति औत्सर्गिकयङोऽपवादः इति प्राञ्चः। नेति नव्याः।]]
05 [[७। धातोरनिट्त्वम्। दकारस्य चर्त्वेन तकारः। एवं तव्यदादिष्वपि।]]
06 (३३८)
07 [[८। शतरि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छ- धौशीयसीदाः’ (७-३-७८) इति सीद इति सर्वादेशः। ‘सदिरप्रतेः’ (८-३-६६) इति इणन्तादुपसर्गात् परस्य सदिसकारस्य षत्वे रूपमेवम्। ‘अप्रतेः’ इत्युक्तत्वात् प्रतिसीदन् इत्यत्र न षत्वम्। उपसर्गप्रकरणात् ‘नि’ इति कर्मप्रवचनीयस्य न षत्वम्।]]
08 [पृष्ठम्१३३६+ ३३]
09 [[१। ‘ज्वलितिकसन्तेभ्यः--’ (३-१-१४०) इति कर्तरि णः। निषादः वन्यजातिविशेषः। पक्षे पचाद्यचि सदः इत्यपि साधुः। माधवस्तु “निषीदत्यस्मिन् पापमिति निषादः। ‘हलश्च’ (३-३-१२१) इति अधिकरणे घञ्” इत्याह। संज्ञाऽत्रेति विशेषः।]]
10 [[२। ‘अकर्तरि च कारके संज्ञायाम्’ (३-३-१९) इत्यधिकरणे घञ्। प्रसीदन्ति धनिनो- स्मिन् इति प्रासादः धनिनां वासः। ‘उपसर्गस्य घञि--’ (६-३-१२२) इति ‘प्र’ इत्यस्य दीर्घः। संज्ञायामेव मनुष्यभिन्नेऽपि स्थले दीर्घः
\n\n अन्यत्र न
\n\n ततश्च ‘प्रसादः’ इत्यत्र न।]]
11 [[३। उप निषीदन्ति, उप निषादयन्ति वा इति उपनिषत्। स्त्रियां सम्पदादित्वात् (वा। ३-३-१०८) क्विपि षत्वे च रूपमेवम्। एवं परिषत् इत्यादयोऽपि। द्युसत्, दिविषत्, शुचिषत् इत्यादयस्तु ‘सत्सूद्विष--’ (३-२-६१) इत्यादिना क्विपि सम्पद्यन्ते। पर्षत् इति तु पृषोदरादित्वात् (६-३-१०९) परेरिकारलोपे साधुः। दिविषत् इत्यत्र ‘तत्पुरुषे कृति--’ (६-३-१४) इति सप्तम्या अलुक्। सुषामादित्वात् (८-३-९८) षत्वम्। ये स्त्रीलिङ्गशब्दाः संसत् इत्यादयः, ते सम्पदादिक्विबन्ताः
\n\n ये तु पुंंल्लिङ्गशब्दाः, ते ‘सत्सू--’ (३-२-६१) इति निष्पन्नाः इति वैयाकरणसम्प्रदायः।]]
12 [[४। ब्रुवन्तः सीदन्त्यस्यामिति बृसी = मुनीनामासनम्। पृषोदरादित्वात् ब्रुवच्छब्दस्य ‘बृ’ इत्यादेशः। सदेरधिकरणे डट्प्रत्ययः। टित्त्वात् स्त्रियां डीप्।]]
13 [[५। ‘रदाभ्यां--’ (८-२-४२) इति निष्ठातकारस्य धातुदकारस्य च नकारः। षत्वम्, णत्वं च।]]
14 [[६। सन्नन्तादुप्रत्ययः। ‘स्थादिष्वभ्यासेन चाभ्यासस्य’ (८-३-६४) इति पूर्वोत्तरखण्डयोः षत्वम्।]]
15 [[७। लिटः ‘भाषायां सदवस--’ (३-२-१०८) इति क्वसुप्रत्ययः
\n\n एत्वाभ्यासलोपः। ‘वस्वेकाच्--’ (७-२-६७) इतीडागमः।]]
16 [[८। ‘दाधेट्सिशदसदो रुः’ (३-२-१५९) इति तच्छीलादिषु कर्तृषु रुप्रत्ययः।]]
17 [[९। स्त्रियां ‘संज्ञायां समजनिंषद--’ (३-३-९९) इत्यादिना अकर्तरि क्यप्प्रत्ययः। निषद्या = वासस्थानम्।]]
18 [[१०। साधुकारिणि णिनिप्रत्ययः। सादी = अश्वस्योपरि स्थित्वा युघ्यमानः।]]
19 [[११। ‘सदादिभ्यो दर्शनात्’ (वा। ३-२-१७१) इति वचनात् भाषायां किप्रत्ययः। छन्दस्येवायम्। प्रत्ययस्य लिड्वद्भावात् एत्वाभ्यासलोपौ।]]
20 [[१२। औणादिकेऽसुन्प्रत्यये रूपम्। सदः सभा।]]
21 [[१३। ‘नौ सदेः’ (द। उ। ८-४८) इति वरच्प्रत्ययः। निषद्वरः = कामः, कर्दमश्च।]]
22 [[१४। ‘इण् अजादिभ्यः’ (वा। ३-३-१०८) इति इण्। सादिः अश्वस्थो योद्धा।]]
23 [पृष्ठम्१३३७+ २९]
24 [[१। औणादिके (द। उ। ८-८९) त्रप्रत्यये रूपम्। धातुदकारस्य चर्त्वेन तकारः। सत्त्रम् = यागविशेषः, अन्नशाला च।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
