| YouTube Channel

सात्म्यं (sAtmyaM)

 
शब्दकल्पद्रुमः
Sanskrit
सात्म्यं, त्रि, सुखजनकम् आत्मनो हितं कर्म्मआत्म्यं आत्म्येन सह वर्त्तमानं सात्म्यम् इतिभैषज्यरत्नावली
(यथा, सुश्रुते ४५ ।“सर्व्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहो-च्यते
”“सात्म्यं नाम तद्यत् सातत्येनोपसेव्यमानमुप-शेते तत्र ये धृतक्षीरतैलमांसरससात्म्याः सर्व्व-रससात्म्याश्च ते बलवन्तः क्लेशसहाः चिर-जीविनश्च भवन्ति रूक्षनित्याः पुनरेक-रससात्म्याश्च ये ते प्रायेणाल्पबलाश्चाक्लेशा-सहाः अल्पायुषोऽल्पसाधनाश्च ।” इति चरकेविमानस्थानेऽष्टमेऽध्याये
“यो रसः कल्पते यस्य सुखायैव निषेवितः ।व्यायामजातमन्यद्वा तत्सात्म्यमिति निर्द्दिशेत्
”इति सुश्रुते सूत्रस्थाने ३६ अध्याये
क्ली,
देवत्वम् यथा, भागवते १८ २०“इन्द्रेण प्रापिताः सात्म्यं किं तत् साधुकृतं हि तैः
”सारूप्यम् यथा, तत्रैव १० ४० ।“नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः
”)